कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

गान्ताः · गत्रिः

कलिङ्गो लाङ्गलो गौरे कुटजे तद्यवे त्रिषु ।कालिङ्गी राजकर्कट्यां भूमिकर्कारुकेऽस्त्रियाम् ॥ ८८ ॥
3.2.88 · p. 9
अनुष्टुप्
कुरङ्गी मुद्गपर्णी स्यात् कुरङ्गो मदनद्रुमे ।चक्राङ्गी कटुरोहिण्यां मञ्जिष्टायामपि स्त्रियाम् ॥ ८९ ॥
3.2.89 · p. 9
अनुष्टुप्
त्रिवर्गस्तु विजाते स्यात्त्रिफलायां कटुत्रिके ।द्विजाङ्गी कटुकातुम्ब्योर्नारङ्गः पिप्पलीरसे ॥ ९० ॥
3.2.90 · p. 9
अनुष्टुप्
नागरङ्गोपि पत्राङ्गं पद्मके रक्तचन्दने ।भूर्जे परागः सुमनोरेणुः पर्पटचन्दने ॥ ९१ ॥
3.2.91 · p. 9
अनुष्टुप्
पतङ्गः शालिभेदेऽर्के क्लीबं पत्तूरसूतयोः ।प्रियङ्गुः पिप्पलीकङ्गुराजिकाफलिनीषु च ॥ ९२ ॥
3.2.92 · p. 9
अनुष्टुप्
पुन्नागः पाटलापुष्पजातीफलसितोत्पले ।वराङ्गं त्वचि कङ्कुष्टे वराङ्गी मूषिकाभिदि ॥ ९३ ॥
3.2.93 · p. 9
अनुष्टुप्
मुरङ्ग्युपोदकाकाकामूर्वाशोभाञ्जनेषु च ।यज्ञाङ्गः किंशुके दर्भे तिलोदुम्बरपिप्पले ॥ ९४ ॥
3.2.94 · p. 9
अनुष्टुप्
यवे सक्तुफलायां च बालपत्रेऽपि सर्पिषि ।रक्ताङ्गो रञ्जने चित्रे रक्ताङ्गा विद्रुमेऽसृजि ॥ ९५ ॥
3.2.95 · p. 9
अनुष्टुप्
रक्ताङ्गी जीवनीजिङ्ग्यो रथाङ्गं नेमियोग्ययोः ।समङ्गा रक्तपादायां बलामञ्जिष्टयोरपि ॥ ९६ ॥
3.2.96 · p. 9
अनुष्टुप्