All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
तान्ताः · तत्रिः
द्राक्षाकृष्णाभयाधात्रीछिन्नाकुल्यासु चामृता ।अनन्तः पिप्पलेऽनन्ता दूर्वापथ्याकणासु च ॥ १८८ ॥
12.2.188 · p. 18
अनुष्टुप्
दन्ती दुरालभाधात्रीछिन्नाकर्पासिकास्वपि ।विशल्यायां च गोप्यां च श्योनाके तगरेऽपि च ॥ १८९ ॥
12.2.189 · p. 18
अनुष्टुप्
आस्फोतोऽर्के द्वयोः स्त्री तु श्यामायां मल्लिकाभिदि ।श्वेतायां कोविदारे तु नोन्मत्तः कनकेऽसने ॥ १९० ॥
12.2.190 · p. 18
अनुष्टुप्
मुचकुन्दे च कापोतं रुचके नेत्रभूषणे ।जीवन्ती तु शमीजीवाछिन्नावन्दाभयाभिदि ॥ १९१ ॥
12.2.191 · p. 18
अनुष्टुप्
जीवन्तो रक्तमाषे स्यात् जीमूते मुस्तघोषयोः ।त्रिवृतः स्नेहभेदे स्यात्त्रिवृता त्वरुणाभिदि ॥ १९२ ॥
12.2.192 · p. 18
अनुष्टुप्
द्रवन्ती दन्तिकाभेदरुदन्तीरोदनीषु च ।पार्वती जीवनीयायां शल्लक्यामपि योषिति ॥ १९३ ॥
12.2.193 · p. 18
अनुष्टुप्
बृहती महतीक्षुद्राकलशीराष्ट्रिकास्वपि ।मालत्यग्निशिखापाठावायसीसुमनासु च ॥ १९४ ॥
12.2.194 · p. 18
अनुष्टुप्
रोहितं कुङ्कुमे क्लीबं पुंसि रोहिणि रोहितः ।लोहितं कुङ्कुमे रक्तचन्दने च कुचन्दने ॥ १९५ ॥
12.2.195 · p. 18
अनुष्टुप्
वासन्ती प्रहसन्यां माधव्यां बालपुष्पायाम् ।कुम्भ्यामथ वासन्तः श्रीमदशोकाक्षमुद्गचूतेषु ॥ १९६ ॥
12.2.196 · p. 19
उद्गीतिः