कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

णान्ताः · णद्विः

इति डान्ताः

कणो ना सूक्ष्मधान्यांशे पिप्पलीजीरयोर्द्वयोः ।कृष्णं मरीचे लोहे स्त्री नीलीद्राक्षाकणासु च ॥ १५३ ॥
11.1.153 · p. 15
अनुष्टुप्
तीक्ष्णं मरीचे काकोलमूलकक्षारमुष्कके ।समुद्रलवणे क्लीबं पुंसि तु क्षवकाभिधे ॥ १५४ ॥
11.1.154 · p. 15
अनुष्टुप्
पर्णं पलाशे पर्णस्तु सप्तपर्णे समिद्वरे ।पर्ण्युग्रगन्धाशम्पाकमहाक्लीतनिकासु च ॥ १५५ ॥
11.1.155 · p. 15
अनुष्टुप्
बाणा द्वयोर्नीलटिण्ट्यां बाण इत्कटके पुमान् ।वेणुरिक्षौ च वंशे च शोणः टिण्टो हविर्भुजि ॥ १५६ ॥
11.1.156 · p. 15
अनुष्टुप्