कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कृष्णसार

kṛṣṇasāraपुं · masc.

In 20 kośas: 21 synonym verses, 6 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1294 · p. 49
मृगभेदा रुरुन्यङ्कुरङ्कुगोकर्णशम्बराः ॥ १२९३ ॥चमूरुचीनचमराः समूरैणर्श्यरौहिषाः ।कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ १२९४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.11
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥गन्धर्वः शरभो रामः सृमरो गवयः शशः ।इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.230 · p. 28
एणः कुरङ्गो हरिणो मृगः स्यात्सारङ्ग ऋष्यः पृषतो रुरुश्च ।न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा,वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥
इन्द्रवज्रा
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.310 · p. 94
महिषी तु चिरस्कन्धो … न्तस्तु रजस्वलः ।निरञ्जनः कृष्णसारो पृषतस्तु सबिन्दुकः ॥ ३१० ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कृष्णशारः कृष्णसारः कुरङ्गः स्यात् कुरङ्गमाः (मः?) ।खड्गः खड्गी च कथितः समौ जम्बूकजम्बुकौ ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.78 · p. 257
अथ तिन्दुः कृष्णसारः कालस्कन्धोऽतिमुक्तकः ।स्यन्दनार्थादाह्वयार्थः स्फूर्जनोऽपि च रामणः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.32 · p. 321
वातायुः कृष्णसारस्तु कलमः कृष्ण इत्यपि ।एणोऽप्यथ पुनर्न्यङ्कुर्वङ्कुणो मृगसंनिभः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.32 · p. 191
एणः कृष्णः कृष्णसारः कमलोऽथैणमस्य यत् ।चर्माद्यमेण्यास्त्वैणेयं त्रितयेऽथ कुरङ्गकः ।चतुरश्चारुगामी च किंचिल्लोहितकृष्णकः ॥ ३२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.74 · p. 17
हेरम्बः कृष्णशृङ्गश्च तुलायः कासरो गुरुः ।कृष्णः स्यात्कृष्णसारे तु निरञ्जननिरञ्जकौ ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.75 · p. 17
यज्ञार्हः शम्बरः स्वल्पे पृषदस्तु स बिन्दुमान् ।महो रुरुः कृष्णसार एणको विपुलोन्नतः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.46 · p. 31
सारः कृष्णश्च रङ्कुश्च कृष्णसारः सुराकृतौ ।मण्डलादिक्रमेणैव कुण्डलीत्यादिकं विदुः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.151 · p. 17
वातायुः कृष्णसारश्च रुरुमुख्यास्तु तद्भिदः ।सिंहो मृगेन्द्रः पारीन्द्रो हर्यक्षः केसरी हरिः ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2340 · p. 378
कन्दली कृष्णशारश्च कृष्णसारोऽपि कथ्यते ।दक्षिणेर्मा मृगः सोऽस्ति यो व्याधैर्दक्षिणे क्षतः ॥ २३४० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.100 · p. 64
खदिरो बालतनयः कुष्टकुद्दालपत्रकम् ।यूपद्रुमः कृष्णसारो गायत्री दन्तधावनः ।हरिमदोऽरिमेदो विट्खदिरेऽपि च ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.22 · p. 83
मृगभेदाः कृष्णसार-रुरु-सम्बर-रौहिषाः ।गोकर्ण-रङ्क-चमर-न्यङ्कु-गन्धर्व-रोहिताः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.24 · p. 83
कालसारः कृष्णसारः कृष्णशारोऽपि कीर्तितः ।शम्बरः सम्बरोऽपि स्यात् रोहिषो रौहिषोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.327 · p. 245
मृगभेदे कृष्णसारकालसारौ सदन्त्यकौ ।सतालव्यौ च, पृषत् पृषतो बिलशायिनी ॥ ३२७ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.469 · p. 62
कालस्कन्धः कृष्णसारतिन्दुकस्फूर्जका अपि ।शिंशपायां तीक्ष्णगन्धा भस्मगर्भावसादनी ॥ ४६९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.681 · p. 87
कृष्णसारः कृष्णमृगः समौ गवयगोमृगौ ।लम्बन्ते यस्य रोमाणि ककुदि स्यात् स शम्बरः ॥ ६८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
genderपुंmasc.
मृगे तु कृष्णसारः स्यात्कोटीरे तु किलीटकम् ।रोमाञ्चे पुल इत्युक्तो गम्भीरः शूरवाचके ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.12 · p. 66
नित्यशंकी च कृष्णस्तु कृष्णसारो निरञ्जनः ।यज्ञांग एणस्ताम्रस्तु हरिणस्तृणसंवरः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.12 · p. 333
स्याद्दक्षिणावर्तजले सिताभ्रेतथा नृलिङ्गो घनसार उक्तः ।स्यात्कृष्णसारो हरिणप्रभेदेस्त्री शिंशपायामपि वज्नवृक्षे ॥ १२ ॥
उपजातिः
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.139 · p. 179
द्रुमोत्पले कर्णिकारः कृतमालेऽपि सम्मतः ।मृगमेदे कृष्णसारः स्नुहीशिंशपयोस्तथा ॥ १३९ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रच Śivakoṣa 22.4.423 · p. 38
कादम्बरी तु वारुण्यां क्लीबं दध्यग्रमद्ययोः ।कृष्णसारो बालपत्रे शिंशपायां तु योषिति ॥ ४२३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रच Śivakoṣa 22.4.424 · p. 38
दीर्घनख्यां च भण्डीरे न क्लीबं वज्रकण्टके ।घनसारोऽप्सु कर्पूरे दक्षिणावर्तपारदे ॥ ४२४ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.124 · p. 275
कालञ्जरो योगिचक्रमेलकाद्रिशिवेषु च ।कृष्णसारो मृगस्नुह्योः शिंशपायामपि स्त्रियाम् ॥गिरिसारस्तु मलये लोहे बङ्गे च कीर्त्यते ।चराचरं भवेत्क्लीबं जगति त्रिषु जङ्गमे ॥चक्रधरो ग्रामजालिभुजङ्गमहरिष्वपि ।तोयधरो मेघमुस्तासुनिषम्रौषधीष्वपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable); pāda 3, syllable 3 ध (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.339 · p. 210
सिद्धस्थानेऽपि च क्षेत्रं कर्करौ दृढदर्पणौ ।शिंशपायां कृष्णसारः स्नुह्याञ्चाऽथोत्पलेऽपि च ॥ ३३९ ॥
अनुष्टुप्

कृष्णसार as a meaning in nānārtha verses