शकल
śakalaक्ली · neut.In 21 kośas: 24 synonym verses, 7 as a nānārtha head word, 16 as a meaning of another word.
genderक्लीneut.
कपालं शकलमपि पृष्ठास्थनि कशारुका ॥ ४८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
genderपुंक्लीm. n.
शरीरस्यास्थि कङ्कालं तथा स्यादस्थिपञ्जरम् ।शिरसोऽस्थि करोटिः स्यात्कपालं शकलं च तत् ॥ ६३३ ॥
अनुष्टुप्
genderक्लीneut.
कृत्स्नं समग्रं सकलं समस्तं,सर्वं च विश्वं निखिलाखिले च ।खण्डार्धनेमाः शकलं च भित्तं,सामीत्यसम्पूर्णसमानसंज्ञाः ॥ ७१३ ॥
इन्द्रवज्रा
genderक्लीneut.
जलायुका जलूकाथ शल्कं वल्कं च वल्कलम् ।मत्स्यस्य शकलेमी स्युरित्यपादा जलेचराः ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
स्यात् क्लीबे शकलं भित्तं शल्कं च मण्डलं त्रिषु ।कलङ्कोऽस्त्री लाञ्छनं च चिह्नं लक्ष्म च लक्ष्मणम् ॥ १७९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
अमा महाकला बिम्बस्त्वस्त्री स्यान्मण्डलं त्रिषु ।नेमो ना खण्ड-शकल-खण्डलानि न योषिति ॥अर्द्धस्त्रिषु समेंऽशेऽर्द्धं भित्तं शल्कं दलं समम् ।स्त्री फालिरर्द्धा तज्जादावथार्द्धपरिमाणके ॥अर्द्धिकः स्त्री त्वार्द्धिकास्या भवेच्चान्द्रार्द्धिकाह्नि च ॥ ६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कमलं कललं शकलंजम्बालं स्याच्च नील-लाङ्गूले ।कवलो निगलो बालोह्रीबेरे कुन्तले विद[234a]लम् ॥ ६८ ॥
metre not recognised
genderपुंक्लीm. n.
प्राग्वंशशब्दः पुंसि भवति । अयं प्राग्वंशो यज्ञकुटी । शृङ्खलं त्रिषु लिङ्गेषु जानीहि । अयं शृङ्खलः इयं शृङ्खला इदं शृङ्खलम् । एते पुंसि कथिताः । अयं चमसः सोमपात्रम् । अयं स्तम्भः । निदाघो घर्मः । पशुर्गवादिः ।शूको धान्यादीनाम् । विटकः पिण्डकृतपरिमाणद्रव्यं शौण्डो वा ।वल्कलकुण्डलहिमचिह्नखलीनककुदगुह्यशुल्कशकलानि ।तीरोलूखलकवचानि च विद्यादितरजातौ ॥ ७७ ॥
metre not recognised
genderक्लीneut.
रौहिषे श्यामकं पौरं पूतीकं भूरि कत्तृणम् ।सौगन्धिकं देवजग्धं शकलं धयमपुद्गले ॥ ३६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 शक (syllable split)
genderक्लीneut.
समस्तं सकलं सर्वं कृत्स्नं विश्वं तथाऽखिलम् ।शकलं विकलं खण्डं शल्कं लेशं लवं विदुः ॥ १८७ ॥
अनुष्टुप्
genderक्लीneut.
भित्तं नेमं दलं शल्कं खण्डार्धशकलानि तु ।भागो वण्टस्तथांशोऽपि तुर्यांशः पादसंज्ञकः ॥ ३२३ ॥
अनुष्टुप्
genderक्लीneut.
निगलनीलनलाः कमलं हलंमुशलसालतमालहलाहलम् ।गरलधूमलखण्डलवल्कलंफलतले मुकुलः शकलः खलः ॥ १५९ ॥
द्रुतविलम्बितम्
genderपुंक्लीm. n.
एकवर्णे तु शकलं द्विवर्णे त्वटकं मतम् ।वसु त्रिवर्णे कथितं चतुर्वर्णे पणं स्मृतम् ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
विश्वं कृत्स्नं तथाशेषं खण्डेऽर्धं शकलं दलम् ।स्तोकं तुच्छं दभ्रमल्पं मात्रा लेशः कणो लवः ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
कपालकर्परौ तुल्यौ शकलञ्चापि मन्यते ।कशारुका कशेरुका पृष्ठस्यास्थ्नि निगद्यते ॥ १०११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रु (wrong syllable)
genderक्लीneut.
अधश्च शकलं शल्कं खण्डश्च खण्डलं दलम् ॥ २६०७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
त्वचस्त्वचा त्वक् च चोचं शल्कं वल्कं च वल्कलम् ।शकलं वल्के शल्के त्वर्धेऽपि शल्कं शकलेऽपि ॥ १२९ ॥
metre not recognised
genderक्लीneut.
शकलं शक्लं खण्डं च खण्डलं चाऽपि, भागके ।अंसस्तालव्यदन्त्यान्तः, भागेऽर्थेऽष्टम आष्टमः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्लं (wrong syllable)
genderक्लीneut.
अभिज्ञानं कलङ्काङ्कौ प्रसादः स्यात्प्रसन्नता ।भित्तमर्धः पुमान् खण्डमस्त्रियां शकलं त्रिषु ॥ १७८ ॥
अनुष्टुप्
genderविadj.
मत्स्यझषानिमिषाण्डजपृथुलोमविसारशकुलिमीनाः स्युः ।वैसारिणोऽथ शकलं शल्कमुलूपं च तत्त्वचि त्रितयम् ॥ ३३२ ॥
गीतिः
genderक्लीneut.
कर्को दर्पणभेदे स्यात् स्वर्णे वर्ण इतीर्यते ।शर्करायां तु वलयं शकलं खण्डमित्यपि ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके ।अस्त्री चरणमंघ्रिर्ना पत् पादः क्रमणं पदम् ॥ ५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
रागद्रव्यविशेषे च वल्कलेऽप्यथ भेद्यवत् ।शकलो मूर्खधनिनोर्नीवृद्भेदे नृभूमनि ॥ १७८३ ॥
अनुष्टुप्
शकल as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् शल्कशीलान्वयावनूके द्वे शल्के शकलवल्कले । Amarakośa 3.3.20
- नामलिङ्गानुशासनम् दलहालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् ॥ Amarakośa 3.3.390
- धरणिकोश शल्कतोके दुहितृपुत्रौ स्तः शल्के शकलवल्कयोः । वल्कं स्याद्वल्कले खण्डे पङ्कं कर्दमपापयोः ॥ Dharaṇikośa 1.1.3
- कोषकल्पतरु शल्क[247b]कर्कस्तु शुक्लाश्वघटानलेषु राशौ तथा दर्पण ईरितोऽयम् । तर्को वितर्केच्छययोः(?)क्रियाया भेदे च शल्कं शकले च वल्के ॥ ८ ॥ Koṣakalpataru 6.1.8
- कोषकल्पतरु खण्डवीर्ये च मुष्के शकले तु खण्डो- ऽस्त्री रत्नदोषेक्षुविकारयोश्च । चण्डस्तु दैत्येऽन्तकसेवके च स्यात्तिन्त्रिणीपादपकोपनेषु ॥ ७३ ॥ Koṣakalpataru 6.12.73
- कोषकल्पतरु अर्धधीरे च सौम्ये बुधिते पराभो- ऽथार्धं समेंऽशे शकले तु पुंसि । अन्धं तमस्यप्सु विदृक्षु भेद्ये बन्धस्तु चेतोरुजि बन्धने च ॥ ५६ ॥ Koṣakalpataru 6.20.56
- नानार्थार्णवसंक्षेप कोटिचापाग्रे चाग्रमात्रेऽश्रौ प्रकर्षे शकले तथा । सङ्ख्याविशेषे लक्षाणां शते क्षोणी पुनर्भुवि ॥ २७ ॥ Nānārthārṇavasaṃkṣepa 2.1.27
- नानार्थार्णवसंक्षेप अर्धपुमांस्तद्वति तु त्रि स्यादन्धं तु तिमिरे नपुम् । त्रिषु नेत्रविहीनेऽथ स्यादर्धः शकले पुमान् ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 2.5.38
- नानार्थार्णवसंक्षेप शल्कछुरिकायां तु शस्त्री स्त्री शल्कं तु शकले नपि । केचित्त्वात्तरसे प्राहुः शकले स्याच्च वल्कले ॥ १३१७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1317
- नानार्थार्णवसंक्षेप शर्करारोगभेदे सितायां च शकलाल्पकपालयोः । शर्करावत्प्रदेशे च गुडे चाप्याह यादवः ॥ ९० ॥ Nānārthārṇavasaṃkṣepa 3.1.90
- शब्दरत्नावली शल्कशल्कन्तु वल्कले शकले शको जात्यन्तरे नृपे । शङ्कर्ना शङ्करे कीले संख्यास्त्रपापजन्तुषु ॥ Śabdaratnāvalī 7.1.21
- शब्दरत्नावली खण्डक्रोडोऽङ्कवक्षसोरस्त्री शनिशूकरयोः पुमान् । खण्डोऽस्त्री शकले पुंसि मणिदोषेक्षुपाकयोः ॥ Śabdaratnāvalī 7.13.8
- शब्दरत्नाकर शर्करामृद्भेदे शकले खण्डे शर्करायामथ स्त्रियाम् । शीधुपाने मणौ शीधौ सरघा(को?) मद्यभाजने ॥ २१७८ ॥ Śabdaratnākara 4.1.2178
- त्रिकाण्डशेष खण्डखण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः । गण्डः कपोले पिटके श्रेष्ठे गण्डकयोगयोः ॥ ११२ ॥ Trikāṇḍaśeṣa 3.3.112
- वैजयन्ती शल्कवीर्यं पराक्रमे रेतस्यन्नमाहात्म्ययोरपि । वेष्टं ब्रह्मणि नाके च शल्के शकलवल्कले ॥ ३२ ॥ Vaijayantī 6.3.32
- वैजयन्ती शर्कराशर्करावत्प्रदेशेषु सितायां शकले गुडे । समितिः परिषत्स्थाने युद्धे संसदि संगमे ॥ २७ ॥ Vaijayantī 7.2.27