कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अभिषङ्ग

abhiṣaṅgaपुं · masc.

In 12 kośas: 5 synonym verses, 11 as a nānārtha head word, 1 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.13 · p. 236
अभिषङ्गस्त्वभीषङ्गः स्यादाक्रोशनमित्यपि ।सम्मूर्छनमभिव्याप्तिः संवेदो वेदना न ना ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.43 · p. 69
शाप आक्रोश आक्षेपोऽभिषङ्गः क्षारणा त्वसौ ।आक्षारणा दूषणा च क्षारणं मैथुनं प्रति ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.88 · p. 28
कोपः क्रोधोऽमर्षरोषौ प्रतिघो मन्युरुट्क्रुधः ।ईर्षासूयाभिषङ्गश्च संरम्भोऽक्षान्तिरक्षमा ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.11 · p. 171
अभिषङ्गस्तु शापः स्त्री गालिराक्रोशनं तथा ।भवेदनुभवे पुंसि संवेदो वेदना न ना ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1702 · p. 205
प्रस्तावे तु प्रसङ्गः स्यादभिषङ्गः पराभवे ।जपे जापस्त्विषिस्त्विट् स्यादागूः संवित् कृतिः क्रिया ॥ १७०२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.24
कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे ।यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.845 · p. 97
द्यूताक्षसारिफलकास्त्रयोऽप्याकर्षसंज्ञकाः ।संसर्गाभिभवाक्रोशेष्वभिषङ्गः प्रकीर्त्तितः ॥ ८४५ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास गार्धश्लोकः Dharaṇikośa 3.2.12 · p. 23
अभिषङ्गः समाक्रोशे शापाभिभवयोरपि ।मल्लनागोऽभ्रमातङ्गे शास्त्रे कामगुणस्य च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.29 · p. 169
त्यागे मोक्षे कर्मसमाप्तावपवर्गःसाफल्येऽथ प्रादिषु रोगेऽप्युपसर्गः ।संघे संयोगे च समायोग इहार्थेशापाक्रोशस्याभिभवेष्व[प्य]भिषङ्गः ॥ २९ ॥
मत्तमयूरम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.8 · p. 7
तथा परिचयेऽपि स्यादभिषङ्गस्तु कथ्यते ।आक्रोश शापाभिषवसङ्गेष्वाह तु सज्जनः ॥ ८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.9 · p. 7
दुःखे पराभवे त्वाह सिंहोऽभिक्रमवाक् पुनः ।आरोहणक्रियायां चाभिमुखक्रमणेऽपि च ॥ ९ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.42 · p. 166
पराभवेऽभिषङ्गस्तु शपथाक्रोशयोरपि ।अङ्गारको महीपुत्र उल्मुकेऽपि कुरण्टके ॥ ४२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.52 · p. 194
अपवगस्तागमोक्षकार्यसमाप्तितत्फले ।अभिषङ्गः समाक्रेशे शपथे च पराभवे ॥
अनुष्टुप्metre not read in every line
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2192 · p. 265
अभिषङ्गस्त्वभिभवे संगाक्रोशनयोरपि ।वृष्टिरोधे प्रतिष्टम्भे गजफालेऽप्यवग्रहः ॥ २१९२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.55 · p. 110
शपथेऽप्यभिषङ्गः स्यादनङ्गः खे स्मरे पुमान् ।पूर्णत्वयत्नावाभोगावायोगो व्यापृतावपि ॥ ५५ ॥
अनुष्टुप्
meaningsशपथ
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.10 · p. 265
अभिषंगस्त्वभिभवे संग आक्रोशनेऽपि च ।अभिहारोऽभियोगे च चौर्यसन्नाहयोरपि ॥ १० ॥
अनुष्टुप्
doubtful

अभिषङ्ग as a meaning in nānārtha verses

  • शब्दरत्नावली रुचिपिचुर्ना दैत्यभित्कुष्ठभेदयोः कर्षतूलयोः । मोचः शोभाञ्जने मोचा शाल्मलीरम्भयोः स्त्रियाम् ॥ रुचिर्दीप्तौ च शोभायामभिलाषाभिषङ्गयोः । रुचा रुग्दीप्तिशोभेछाशारिकाशुकवाक्सु च ॥ Śabdaratnāvalī 7.6.8