प्रस्ताव
prastāvaपुं · masc.In 14 kośas: 17 synonym verses, 2 as a nānārtha head word, 13 as a meaning of another word.
genderपुंmasc.
विघ्नेऽन्तरायप्रत्यूहव्यवायाः समये क्षणः ।वेला वाराववसरः प्रस्तावः प्रक्रमान्तरम् ॥ १५०९ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
उद्घात उक्तः प्रस्तावो वारश्चावसरः क्षणः ।वदन्त्युपनतं प्राज्ञा उपसन्नमुपस्थितम् ॥ ७५० ॥
अनुष्टुप्
genderपुंmasc.
उपोद्घात उदाहार उपन्यासः पुरो वचः ।प्रस्तावः पुनरुद्घातः सोऽधिकार उपक्रमः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
लवो निलावो लवने निः पावः पवनं पवः ।स्यात्प्रस्तावस्त्ववसरः प्रश्रयप्रणयौ समौ ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
अस्त्री कोषो निघण्टुः स्यात्सर्वविद्या कलिन्दिका ।प्रस्तावः स्यात्प्रकरणं संग्रहस्तु समाहृतिः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
प्रस्तावः स्यात्प्रकरणं वार्त्तिकं तत्प्रकीर्तितम् ।उक्तानुक्तद्विरुक्तार्थचिन्तां यत्प्रकरोति हि ॥ १७३ ॥
अनुष्टुप्
genderपुंmasc.
विघ्नो व्यवायसंज्ञोऽसौ प्रत्यूहश्चान्तरायवत् ।प्रस्तावोऽवसरो वेला वारो प्रक्रमनाम च ॥ ३८२ ॥
अनुष्टुप्
genderपुंmasc.
प्रस्तावोऽवसरो वेला वारश्च समयः क्षणः ।आगोऽपराधो मन्तुश्च व्यलीकं विप्रियाहिते ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
अथ सूचनकृत् सूत्रं सूत्रोक्तार्थप्रपञ्चकम् ।भाष्यं ज्ञेयं च प्रस्तावः प्रकरणं ज्ञायतां तथा ॥ ३६७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
समयोऽवसरो वारो वेला च प्रक्रमः क्षणः ।प्रस्तावोऽन्तरमित्यष्टौ क्षणनामानि सन्ति वै ॥ २७४८ ॥
अनुष्टुप्
genderपुंmasc.
प्रस्तावः स्यादवसरः प्रस्तुते द्वितयं भवेत् ।त्र्यसरस्तसरोऽपि स्यात् सूत्रवेष्टनमित्यपि ॥
अनुष्टुप्
genderपुंmasc.
प्रस्तावोपक्रमोद्घातप्रारम्भप्रक्रमाः समाः ।उपोद्घात उदाहार आख्यानं पूर्वसंकथा ॥ ९१५ ॥
अनुष्टुप्
genderपुंmasc.
प्रस्तावे तु प्रसङ्गः स्यादभिषङ्गः पराभवे ।जपे जापस्त्विषिस्त्विट् स्यादागूः संवित् कृतिः क्रिया ॥ १७०२ ॥
अनुष्टुप्
genderपुंmasc.
प्रतिबन्धः प्रतिष्टम्भः प्रस्तावावसरौ समौ ।विघ्नोऽन्तरायः प्रत्यूहः प्रणयस्त्वभियाचने ॥ १७२० ॥
अनुष्टुप्
genderपुंmasc.
उपोद्घात उदाहार उपन्यासः पुरोवचः ।प्रस्तावः पुनरुद्घातः सोऽधिकार उपक्रमः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
साम्नः प्रथमभक्तौ च प्रक्रमः स्यादुपक्रमे ।प्रमाणभेदे सोऽप्युक्तो द्विपदस्त्रिपदोऽपि वा ॥ १३१ ॥
अनुष्टुप्
meaningsसामप्रथमभक्ति
doubtful
प्रस्ताव as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) हेलाव्यासेऽपि विग्रहः स्यान्मानविशेषेऽपि पौरुषव्यामौ । हेला प्रस्तावेऽपि प्रग्रह आबन्धनेऽप्युक्तः ॥ ८०५ ॥ Abhidhānaratnamālā (Halāyudha) 5.805
- हलायुधकोशः (अभिधानरत्नमाला) काण्डअभिधेयाभिप्रायप्रयोजनद्रव्यवाचकेष्वर्थः । प्रस्तावे संघाते कुत्सायामायुधे जले काण्डम् ॥ ८६७ ॥ Abhidhānaratnamālā (Halāyudha) 5.867
- कोषकल्पतरु उपक्षिपिपरातः स निषेधेऽपात्तिरस्कार उपात्तु सः । प्रस्तावेऽभिप्रत्यतिभ्यः परस्मैपदवान्भवेत् ॥ ६६ ॥ Koṣakalpataru 3.5.66
- कोषकल्पतरु अधिकरोतिविप्रान्नेः स्यादुपद्रुत्यामधेः प्रस्ताव आश्रये । उपर्यैश्ये प्रसहनेऽथोदः साहसतर्पणे [206b] ॥ ५३ ॥ Koṣakalpataru 3.5.53
- कोषकल्पतरु प्रकरोतिप्रात्प्रस्तावे प्रकथने सेवासादृश्यसाहसे । भेदोपयोगे परितः परिसर्पे समाहृतौ ॥ ५८ ॥ Koṣakalpataru 3.5.58
- नानार्थार्णवसंक्षेप हेलाहिंसा चौर्यादिके घातेऽथो प्रस्तावविलासयोः । अवज्ञायां च हेलाथ होरा लग्नार्धलग्नयोः ॥ १२६ ॥ Nānārthārṇavasaṃkṣepa 2.1.126
- नानार्थार्णवसंक्षेप व्यतिकरज्ञेयो व्यतिकरोऽत्राह सज्जनः शब्दवित्तमः । व्याजप्रस्तावसम्पर्काद्युक्ति(व्य ? र्व्य)तिकरध्वनिः ॥ १०८ ॥ Nānārthārṇavasaṃkṣepa 6.108
- परमानन्दीयनाममाला पर्वन्प्लक्षो द्वीपे वटे स्वच्छे पटुर्नीरोगदक्षयोः । पर्व ग्रन्थौ पुराणाङ्गे दर्शप्रस्तावयोरपि ॥ ३०२ ॥ Paramānandīyanāmamālā 5.19.302
- शब्दरत्नावली पर्वन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नाकर पर्वन्पर्व पञ्चदशीग्रन्थ्योः प्रस्तावे विषुवादिके । पार्श्वमस्त्री समीपे च प्रजा तु जनपुत्रयोः ॥ १९६१ ॥ Śabdaratnākara 4.1.1961
- त्रिकाण्डशेष पर्वन्ग्रन्थिप्रस्तावयोः पर्व विषुवत्प्रभृष्वपि । प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोः ॥ २४६ ॥ Trikāṇḍaśeṣa 3.3.246
- त्रिकाण्डशेष अवसरनाकेऽतिगन्धद्रव्ये च स्यादऽस्रं रुधिराश्रुणोः । प्रस्तावेऽवसरो वर्षे चौष्ठे नीचेऽपि चाधरः ॥ ३२७ ॥ Trikāṇḍaśeṣa 3.3.327
- वैजयन्ती पर्वन्पर्व ग्रन्धौ पंचदश्यां प्रस्तावे विषुवादिके । पक्ष्म सूत्राद्यवयवे किंजल्के नेत्रलोमसु ॥ १९ ॥ Vaijayantī 6.3.19