प्रतिघ
pratighaपुं · masc.In 14 kośas: 11 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.
शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।क्रुत्कोपः प्रतिघो रोषो रुट् चोत्साहः प्रगल्भता ॥ २९९ ॥अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।अध्यवसाय ऊर्जोथ वीर्यं सोऽतिशयान्वितः ॥ ३०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ ।
अनुष्टुप्
genderपुंmasc.
कोपः क्रोधस्तथामर्षो रोषः प्रतिघ उच्यते ।तृषितस्तर्षितः प्रोक्तः पिपासुश्च पिपासितः ॥ ३६२ ॥
अनुष्टुप्
genderपुंmasc.
विशरणं मारणं हिंसा दिष्टान्तः प्रलयो वधः ।स्यादाक्रन्दः पिञ्जरम्भौ प्रतिघः परिघः पुनः ॥ ३७७ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
रुषा क्रुधा क्रुच्च मन्युः क्रोधः कोपोऽप्यमर्षवत् ।रोषश्च प्रतिघो भामोऽथ स्त्रियां कियदेतिका ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
उग्रा रौद्री भैरवीति विशेष्यं यदि कामिनी ।रोषामर्ष-क्रोध-कोप-प्रतिघाः क्रुध्-क्रुधा-रुषाः ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
मन्युः प्रतिघरोषौ रुड् उद्योगः प्रौढिरुद्यमः ।प्रगल्भताभियोगौ चोत्साहश्च कियदेति [18] का ॥ २११ ॥
अनुष्टुप्
genderपुंmasc.
कोपः क्रोधोऽमर्षरोषौ प्रतिघो मन्युरुट्क्रुधः ।ईर्षासूयाभिषङ्गश्च संरम्भोऽक्षान्तिरक्षमा ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
अथ स्यात् शोचनं शोकः शुक् खेदश्च रुषा तथा ।रुट् रोषो प्रतिघः कोपः क्रुत् क्रोधश्च तथा क्रुधा ॥ ४३८ ॥
अनुष्टुप्
genderपुंmasc.
मन्युः शोकःस्त्रियां शुक् च शुचा निःशम इत्यपि ।पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ।कोपः क्रोधः क्रोधाभीमः आमर्षः प्रतिघोऽपि च ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उल्लासिका स्यादुत्कण्ठारतिरुत्कालिका च सा ।अमर्षप्रतिघक्रोधकोपरोषाः स्त्रियौ परे ॥ ९७६ ॥
अनुष्टुप्
genderपुंmasc.
उल्लाघः प्रयते कृष्णे नीरोगदक्षयोस्त्रिषु ।निदाघः स्वेदसलिले ग्रीष्मकाले तयोष्मनि ॥पलिघः कलशे काचघटगोपुरसद्मसु ।परिघोऽर्मलघाताऽस्त्रयोगभेदेषु कीर्तितः ॥प्रतिघः प्रतिघातेऽपि क्रोधमूर्छनयोरपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
प्रतिघ as a meaning in nānārtha verses
- कोषकल्पतरु व्यसनव्यसनमंहसि कामजदूषणे- ऽप्यशुभदे च[17a]फले विफलोद्यमे । विपदि च प्रतिघे स्मितदूषणे चरमलिङ्गमुशन्ति विपश्चितः ॥ ६६ ॥ Koṣakalpataru 6.21.66