All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
गान्ताः · गार्धश्लोकः
॥ गार्धश्लोकः ॥
तुङ्गो महति पुन्नागे तुङ्गी रात्रिश्च वर्वरा ।वङ्गो जनपदे ख्यातो वङ्गं कर्पासरङ्गयोः ॥
3.2.1 · p. 22
अनुष्टुप्
रङ्गो नृत्ये रणे रागे रङ्गं वर्णकवङ्गयोः ।शारङ्गौ गजकल्माषौ शारङ्गावेणचातकौ ॥
3.2.2 · p. 22
अनुष्टुप्
कलिङ्गौ देशधूम्याटौ कलिङ्गं कौटजं फलम् ।अपाङ्गो नेत्रयोरन्ते अपाङ्गस्तिलकेऽपि च ॥
3.2.3 · p. 22
अनुष्टुप्
वराङ्गं मस्तके योनौ भङ्गाख्ये च सुगन्धके ।कालिङ्गो भूमिकर्कारुः कालिङ्गी राजकर्कटी ॥
3.2.4 · p. 22
अनुष्टुप्
0300
विसर्गः कथितो दाने विसर्गो मलनिर्गमे ।सर्वगं जलमुद्दिष्टं विभुर्वै सर्वगो मतः ॥
3.2.7 · p. 23
अनुष्टुप्
उद्वेगोऽप्यु[द्बाहुलकेऽ]प्युद्वेगं क्रमुकीफलम् ।[15] पुन्नागः पुरुषज्येष्ठः पुन्नागश्च द्रुमान्तरम् ॥
3.2.8 · p. 23
अनुष्टुप्
प्रयोगः कार्मणे ख्यातः प्रयुक्तौ च निदर्शने ।आभोगो वरुणच्छत्रं यत्नश्च परिपूर्णता ॥
3.2.9 · p. 23
अनुष्टुप्
अपवर्गः फलप्राप्तौ क्रियान्ते त्यागमोक्षयोः ।उपसर्गो भवेद्व्याधिरुपसर्ग उपप्लवः ॥
3.2.11 · p. 23
अनुष्टुप्
अभिषङ्गः समाक्रोशे शापाभिभवयोरपि ।मल्लनागोऽभ्रमातङ्गे शास्त्रे कामगुणस्य च ॥
3.2.12 · p. 23
अनुष्टुप्
संप्रयोगो रते ख्यातः संबन्धे कार्मणेऽपि च ।ईहामृगो वृके ख्यातः प्रभेदे रूपकस्य च ॥
3.2.13 · p. 24
अनुष्टुप्