कीर
kīraपुं · masc.In 16 kośas: 17 synonym verses, 4 as a nānārtha head word, 13 as a meaning of another word.
दाक्षाय्यो दूरदृग्गृध्रोऽथोत्क्रोशो मत्स्यनाशनः ।कुररः कीरस्तु शुको रक्ततुण्डः फलादनः ॥ १३३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderपुंmasc.
आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
भृङ्गः कलिङ्गो धूम्याटः सारङ्गश्चातको मतः ।व्याघ्राटस्तु भरद्वाजः शुकः कीर उदाहृतः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
पललं जंगलं कीरं लेपनं मारदं पलम् ।अस्रपर्यायजन्मार्थं तरसं जाङ्गलं घसम् ॥ २२६ ॥
अनुष्टुप्
genderक्लीneut.
* [की]रः शुको रक्ततुण्डो मेधावी च फलादनः ।वचस्तु राजकीरः स्याद्रजकः शतपत्रकः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
वसुधः करकः कीनः कीरः कन्दोऽनकः शुभः ।गन्धर्वनगरं देवः संवर्तो रसदोऽभ्रजित् ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
सत्तारा रात्रिजं बिन्दु काम्यं कीरमुडुर्नना ।दाक्षायण्योऽश्विनीत्यादितारा अश्वयुगश्विनी ॥ १२१ ॥
अनुष्टुप्
genderक्लीneut.
गूढोपकारिणी मञ्जा चाथ कैरे किटिट्टिकः ।अररं कररं कीरः कवाटं च कपाटके ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कीरः शुकः खगबुधः कैदारः शाल्मलिप्रियः ।हंसस्त्री वरटा हंसी कादम्बः कलहंसकः ॥ ३७७ ॥
अनुष्टुप्
genderपुंmasc.
अनुवादी रक्ततुण्डः शुकः कीरः फलादनः ।खञ्जनः खञ्जरीटश्च नीलश्चाषः किकीदिविः ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
रक्ततुण्डः शुकः कीरः श्रीमान् वै प्रियदर्शनः ॥ २४२३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गलेगण्डो मर्कटः स्याद् गलगण्डाख्यपक्षिणि ।शुकः कीरः वक्रतुण्डो मेधावी दाडिमप्रियः ॥
अनुष्टुप्
genderपुंmasc.
शुकः कीरश्च कोरः स्यादुत्पिबश्चन्द्रिकाप्रियः ।वाचाला शारिका गर्तकुक्कुटो वृत्तलोचनः ॥ ८०५ ॥
अनुष्टुप्
genderपुंmasc.
प्राग्ज्योतिषं कामरूपे तीरभुक्तिस्तु निच्छविः ।विदेहाश्चाऽथ काश्मीरे कीराः स्युः शास्त्रशिल्पिनः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
चातके बभ्रुवापीहघनतालत्रिशङ्कवः ।वर्षप्रियोऽथ मेघावी चिरिः कीरः पलाशनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
शुकस्त्रिकेतुर्मेधावी श्रीमान् वाग्मी फलाशनः ।दरणो दण्डिकीरौ च लोपालोपायिके समे ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
टर्कवाहीककाश्मीरतुरुष्केषु ससिन्धुषु ।बाह्लीका वाह्लिका कीराः शाखयो दारदाः क्रमात् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
ऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि ।ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥करो रश्मौ च करके शुण्डप्रत्यायपाणिषु ।कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् ।कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी ।क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि ।कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति ।क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च ।चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे ।खुरः शफे कोलदले तथा छेदनवस्तुनि ॥क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च ।खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
कीर as a meaning in nānārtha verses
- धरणिकोश शुकत्रिकं त्रये त्रिका कूपवक्त्रे पृष्ठाधरे त्रिकम् । शुको व्याससुते कीरे शुकं स्याद्ग्रन्थिपर्णके ॥ Dharaṇikośa 1.2.7
- कोषकल्पतरु शुकअकं तु दुःखे दुरितेऽपि शस्तम् । शकस्तु देशे भुजगे च वर्णे शुको भवेद्व्याससुते च कीरे ॥ ३ ॥ Koṣakalpataru 6.1.3
- कोषकल्पतरु बाहुजकलभे चाम्पेय[268b]तरौ वल्मीके कारुजः कथितः । कीरेऽपि बाहुजः स्यात् स्वयंप्रभूते तिले तद्वत् ॥ ३४ ॥ Koṣakalpataru 6.7.34
- कोषकल्पतरु हरिइन्द्रार्कचन्द्रानिलविष्णुसिंह- यमांशुवाजिप्लवगप्लवेषु । हरे च कीरे नरि लोकभेदे हरिः प्रदिष्टः कपिलेऽन्यलिङ्गः ॥ ६९ ॥ Koṣakalpataru 6.27.69
- कोषकल्पतरु कुमारकणे सुनारस्तु भुजङ्गभाण्डे स्तन्ये च शून्याः कलविङ्ककेऽपि । शिशौ कुमा[57a]रो युवराजकीर- स्कन्दाश्वचारे वरुणद्रुमे ना ॥ ४६ ॥ Koṣakalpataru 6.27.46
- नानार्थार्णवसंक्षेप शुकज्योत्स्नापक्षे श्वेतवर्णे त्रि तु तद्वति नब्जले । शुकस्तु कीरे द्वे क्ली तु स्थौणेयाह्वयभेषजे ॥ १३८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1384
- नानार्थार्णवसंक्षेप बाहुजस्त्र्यर्थे वृत्तिर्यदा रूपं बाहुदीति तदा भवेत् । बाहुजस्तु द्वयोः कीरे क्षत्त्रिये च पुमान् पुनः ॥ १२४८ ॥ Nānārthārṇavasaṃkṣepa 4.1248
- परमानन्दीयनाममाला शुकशुको व्यासात्मजे कीरे शौकं स्याच्छुकसंचये । शको भूपेऽन्त्यजे देशे शङ्कुः कीलकरुद्रयोः ॥ ३५३ ॥ Paramānandīyanāmamālā 5.25.353
- परमानन्दीयनाममाला हरिहरिः कृष्णेऽनिले भेके यमे सिंहे खगेश्वरे । इन्द्रे चन्द्रे कपौ कीरे किरणे वरुणेऽरुणे ॥ ३७२ ॥ Paramānandīyanāmamālā 5.28.372
- शारदीयाख्यनाममाला सारङ्गवीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाः चन्द्रश्चातकचञ्चरीकजलमुक्चापासिवज्राहयः । हंसः कोकिलकेकिकीरगरुडः स्वर्णानिलार्कास्तमो गुञ्जा श्रीफलपद्मदीपखटीकाः सारङ्गशब्दा इमे ॥ १२७ ॥ Śāradīyākhyanāmamālā 3.5.127
- शब्दरत्नावली शुकशिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम् । शुकः कीरे व्याससुने तथा रावणमन्त्रिणि ॥ Śabdaratnāvalī 7.1.23
- शब्दरत्नावली बाहुजबलजा वणिजो नार्यां युथीभम्योर्वरस्त्रियाम् । बाहुजः स्यात्स्वयं जाते तिले क्षत्रियकीरयोः । वनजा मुद्गपर्ण्यां ना मुस्तके क्लीबमम्बुजे ॥ Śabdaratnāvalī 7.8.26
- त्रिकाण्डशेष शुककीरे रावणपात्रे ना वचाऽपि शतपर्विका । शल्कचूर्णेऽपि शूकस्तु स्यादनुक्रोशशृङ्गयोः ॥ ४५ ॥ Trikāṇḍaśeṣa 3.3.45