जुहू
juhūस्त्री · fem.In 11 kośas: 12 synonym verses, 1 as a nānārtha head word.
genderस्त्रीfem.
ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः ।
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां स्रुः स्रूरथापि स्यादुपभृत्स्यात्स्त्रियां जुहूः ।जुहुः पुमान् स्रुक् स्त्रियां स्यादधरोत्तरणे क्रमात् ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
शष्कुली च चमूर्दद्रूः कर्णान्दूरक्तुरित्यपि ।कच्छूस्तनूर्गीः प्रियङ्गुश्चञ्चुस्तापुर्जुहूस्ततः ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
स्रुवादीनि तु पात्राणि स्रुवोऽङ्गुष्ठबिलो नरि ।स्रुक् स्त्रियामुत्तरा त्वेषा जुहूः सा त्वल्पिकाऽधरा ॥ ६५ ॥
अनुष्टुप्
genderस्त्रीfem.
गुहा गाहा सहा वाहा स्वाहा सिंही जुहूः कुहूः ।आ[227a]मिक्षा कक्षया रिक्षा लिक्षा लाक्षा च राक्षया ॥ ७८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
प्रतोली तिलपर्णी चाढक्यपट्यौ कुमार्यपि ।सिञ्जिनी दामनीन्द्राणी द्रुणी गोणी जुहूस्तनुः ॥ ६५ ॥
अनुष्टुप्
genderस्त्रीfem.
पात्रं स्त्रुवादिकं प्रोक्तं स्त्रुक् स्त्रुवश्चापि मन्यते ।अधरा सोपभृत् स्याद्वै जुहूर्हि पुनरुत्तरा ॥ १३८१ ॥
अनुष्टुप्
genderस्त्रीfem.
तद्विशेषाः शरावाग्राः स्त्रीजुहूरुपभृत् ध्रुवा ।यज्ञवस्तुनि पात्रीरः चमसं सोमपात्रके ॥
अनुष्टुप्
genderस्त्रीfem.
पात्राणि स्युः स्रुवो यज्ञे स्रुग्जुहूरुपभृद्ध्रुवा ।शम्याग्निहोत्रहवनी दृषच्छूर्पमुलूखलम्कपालमुसलौ कृष्णाजिनं स्फ्य उपला स्त्रियाम् ॥ ११७६ ॥
अनुष्टुप्
genderस्त्रीfem.
शुष्मघासिधसवोऽञ्चतिर्जुहूर्बाण ईषिरतुषग्रहाशिराः ।छागवाहनपृदाकुबर्हिषः स्वर्णसप्तघृतमन्त्रदीधितिः ॥ ६५ ॥
रथोद्धता
genderस्त्रीfem.
हवनी स्रुक् स्रुचो भेदाः स्युर्जुहूरुपभृद्ध्रुवा ।अथाग्निहोत्रहवणी श्रपण्याघारणः स्रुवः ॥ १०० ॥
अनुष्टुप्
genderस्त्रीfem.
स्रुग्विशेषे पुरोडाशेऽप्यथ ज्योत्स्ना शशिद्युतौ ।ज्योतिष्मद्रजनौ चाथ झिल्ली चीर्याख्यकीटके ॥ ४१ ॥
अनुष्टुप्
doubtful