कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मन्थर

mantharaवि · adj.

In 14 kośas: 15 synonym verses, 7 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.204 · p. 23
जङ्घालोऽतिजवो जङ्घाकरिको जाङ्घिको जवी ।जवनस्त्वरिते वेगे रयो रंहस्तरः स्यदः ॥ ४९४ ॥जवो वाजः प्रसरश्च मन्दगामी तु मन्थरः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1430 · p. 54
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.72
पुरोगाग्रेसरप्रष्ठाग्रतः सरपुरः सराः ।पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.387 · p. 45
उत्क उत्कण्ठितः प्रोक्तो विक्लवो विह्वलः स्मृतः ।अलसः शीतको मन्दो जडो जिह्मश्च मन्थरः ॥ ३८७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.242 · p. 115
मन्थरो वेगगमनो जङ्घालस्त्वतिवेगिनि ।जाङ्घिको जङ्घाकरिकस्तरस्वी त्वरितो जवी ॥ २४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ङ्घा (wrong syllable)
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.237 · p. 159
अरिष्टमस्त्रियां क्लीबे रसायनविलोडिते ।अर्शोघ्नं सारणं श्वेतं कवचं चाथ मन्थरः ॥ २३७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.71 · p. 119
पन्थकः पथि जातो यः पथिका तादृगङ्गना ।अत्यन्तीनोऽत्यन्तगामी मन्दगामी तु मन्थरः ॥ ७१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.83 · p. 20
ह्रस्वयल्लँघयन्द्राघयंश्च तत्तत्कराः स्मृताः ।खर्वं कुब्जं वामनं च न्यङ् नीचं मन्थरं तथा ॥ ८३ ॥
metre not recognised
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.319 · p. 91
उदग्रमथ नीचैव मन्थरं कुब्जवामने ।खर्वं ह्रस्वं पृथौ व्यूढं विशालं पृथुलं पुनः ॥ ३१९ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.160 · p. 121
प्रसरोऽतिजवश्चैव मन्थरो मन्दगामिनि ।कामंगामिनि कामीनोऽनुपूर्वोऽत्यन्तगामिनि ॥ १६० ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.106 · p. 45
त्वरितं सत्वरं शीघ्रं तूर्णं क्षिप्रं द्रुतं लघु ।जवो वेगो रयो रंहस्तरो मन्दे तु मन्थरः ॥ १०६ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.771 · p. 111
मन्थरो मन्दगामी च यः शनैश्चलतीह सः ॥ ७७१ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.304 · p. 131
नासीरं नायकस्याग्रेसरिका चह्रिकेत्यपि (?) ।मन्दगामी स्वैरगामी मन्थरो मन्द इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.965 · p. 121
अलसं वलितं वक्रं मधुरं मन्दमन्थरम् ।कूणितोत्कण्ठिते मन्दमभिलाषि विलासि च ॥ ९६५ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.150 · p. 116
कामंगाम्यनुकामीनो जवी तु जवनो जवः ।जंघालोऽतिजवे धीरमन्थरौ मन्दगामिनि ॥ १५० ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.28 · p. 321
मञ्जरीवाचकस्तु स्त्रियां सम्मतोमन्थरः सूचके कोशमन्थानयोः ।स्यात्कुसुम्भे * * वाच्यलिङ्गः पृथौतादृशः सम्मतो वक्रमन्दाह्वये ॥ २८ ॥
स्रग्विणीmetre not read in every linenearly स्रग्विणी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1347 · p. 165
वन्यसंज्ञे तुरुष्काख्यनिर्यासे चाथ मन्थरम् ।मन्दे वक्रे पृथौ च त्रि सूचके मन्दगामिनि ॥ १३४७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1348 · p. 165
ना तु बाधे बले कोपे मन्थदण्डेऽप्यथो नपि ।कुसुम्भ्यां मन्थरा तु स्त्री कैकेय्याश्चेटिकान्तरे ॥ १३४८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.95 · p. 272
मन्थरः पुंसि मत्थानवाधकोषफलेषु च ।पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु ॥मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः ।मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः ॥महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः ।मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्र (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2149 · p. 260
कल्याणे मङ्गलं भौमे मङ्गलो मन्थरस्त्रिषु ।मन्दगामिनि मन्थाने सूचके मधुरस्त्रिषु ॥ २१४९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.368 · p. 221
महेन्द्रो भूधरे शक्रे मन्दे वक्रे च मन्थरः ।विघ्नमन्मथयोर्मारो मकरो राशिथादसोः ॥ ३६८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.64 · p. 262
मन्थरः सूचके कोपे मन्थाने मन्दगामिनि ।मार्गणं मृगणायां स्यान्मार्गणो याचके शरे ॥ ६४ ॥
अनुष्टुप्

मन्थर as a meaning in nānārtha verses