कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

क्षान्ताः · क्षार्धश्लोकः

॥ क्षार्धश्लोकः ॥

लक्षं छद्मनि विख्यातं लक्षं संख्याशरव्ययोः ।ऋक्षाणि तारका ऋक्षो भल्लुकाद्रिप्रमेदयोः ॥
33.2.1 · p. 232
अनुष्टुप्
मोक्षौ मोचननिर्वाणौ मोक्षो घण्टाख्यपाटलिः ।रूक्षो वृक्षप्रभेदः स्याद्रूक्षोऽप्रेमण्यचिक्कणे ॥
33.2.2 · p. 232
अनुष्टुप्
ध्वाङ्क्षौ काकबकौ ख्यातौ ध्वाङ्क्षस्तर्ककभिक्षुकाः ।मिक्षा याच्ञा भृतिः सेवा भिक्षा भिक्षणवस्तु च ॥
33.2.3 · p. 232
अनुष्टुप्
प्रेक्षा नृत्येक्षणं बुद्धिः प्रेक्षो न्यायानुसारकः ।अध्यक्षं विदुराचार्याः प्रत्यक्षेऽधिकृतेऽपि च ।गवाक्षः कपिभेदे स्याद्गोदुह्यायां च जालके ॥
33.2.4 · p. 232
अनुष्टुप्