कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रासाद

prāsādaपुं · masc.

In 17 kośas: 17 synonym verses, 3 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.993 · p. 39
प्रासादो देवभूपानां हर्म्यं तु धनिनां गृहम् ॥ ९९३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.9
हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.293 · p. 35
गृहमिष्टकादिरचितं प्रासादो देवतानरेन्द्राणाम् ।आयतनं देवानामन्येषां धनवतां हर्म्यम् ॥ २९३ ॥
आर्या
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात एकसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 1.1 · p. 200
आदित्य-मेरु-चन्द्र-प्रासादा दीप-दण्ड-कलशाश्च ।खड्ग-हरनेत्र-शेष-स्वर्दण्डा-ङ्गुष्ठ-हस्तिकराः ॥ १ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.47 · p. 13
प्रासादः पुंस्यथाढ्यस्य गृहे हर्म्यं नपुंसकम् ।हस्तिशाला तु चतुरं वाजिनां मन्दुरानना ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.62 · p. 15
हर्म्यादि धनिनां वासः प्रासादस्तु प्रसादवत् ।देवभूमीशपर्यायात्सद्मार्थोथोपकारिका ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.38 · p. 123
देवक्षितीशयोर्गेहे प्रासादः पुंसि सम्मतः ।सौधोऽस्त्री[9b] भूभुजां गेहे हर्म्यं धनवतामिदम् ॥ ३८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 135 · p. 67
प्रासादसौधहर्म्याणि निर्व्यूहो मत्तवारणः ।वातायनं मतालम्बमालम्ब्यसुखमासनम् ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.273 · p. 38
मण्यादिर्भिबद्धभूमिः कुट्टिमं कथितं च तत् ।हर्म्यं धनिगृहं प्रासादो देवानां च भूपतेः ॥ २७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्भि (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.69 · p. 26
आगारं वेश्म वसतिर्निशान्तं शरणं क्षयः ।प्रासाद आलयः सौधं हर्म्यं गेहं कुटाश्रयौ ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.293 · p. 39
दामोदरो मुकुन्दश्च क्रतुधामाऽप्यधोमुखः ।प्रासादः सोमसिन्धुश्च शलिकः शिलिकाजितः ॥ २९३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1702 · p. 274
सौधान्तःप्रवेशाय सिंहद्वारं प्रवेशनम् ।प्रसादनञ्च प्रासादं धामोक्तं देवभूपयोः ॥ १७०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 सौ (syllables merged)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.19 · p. 51
हर्म्यमट्टालिका चाट्टा धनिनान्तु निकेतने ।देवानां भूभुजां वासः प्रासादः परिकीर्तितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.846 · p. 107
अपवरकं गर्भगृहं प्रासादो देवभूभुजां सदनम् ।सौधोऽस्त्री राजगृहं धनिकगृहं पुंनपुंसकं हर्म्यम् ॥ ८४६ ॥
गीतिः
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.15 · p. 62
सत्यान्तयुग्व्योम सेन्दु शैवं प्रासादमुच्यते ॥हौं॥
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव पुरवर्गः Trikāṇḍaśeṣa 2.2.1 · p. 34
गर्भागारापवरके वास्तु स्याद्गृहपोतकः ।स्यात्प्रासादो देवकुलं पुत्रिका शालभञ्जिका ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.29 · p. 161
सौधोऽस्त्री सुधया श्वेतं मेटो हर्म्यञ्च मालिका ।तदेव राजदेवानां स्यात्प्रासादः प्रसादनः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास दार्धश्लोकः Dharaṇikośa 17.2.11 · p. 95
प्रासादस्त्रिदशावासे प्रासादो नृपवेश्मनि ।प्रणादस्तारशब्दे स्यात्कर्णरोगे च कीर्तितः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.34 · p. 236
प्रासादो नरदेवदेवगृहयोर्वादे तु चाम्नायतेनिर्वादः परिवादकेऽथ दशकोटिष्वर्बुदं न स्त्रियाम् ।कीले मांसभवे नरि क्षितिधरे नद्योः पुनः संगमेसंभेदः स्फुटनेऽप्यथ श्रुतिगदे तारे प्रणादो ध्वनौ ॥ ३४ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.160 · p. 25
विज्ञेयो गिरिशृङ्गाग्रे तथैवातिशयेऽपि च ।प्रकृष्टासादने तु स्यात् प्रासादो मन्दिरान्तरे ॥ १६० ॥
अनुष्टुप्

प्रासाद as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप प्रग्रीवप्रतीकोऽवयवे ना त्रिः प्रतिकूलानुरूपयोः । प्रग्रीवमस्त्री कलशे ग्रीवाप्रासादयोरपि ॥ १०९५ ॥ Nānārthārṇavasaṃkṣepa 4.1095
  • नानार्थार्णवसंक्षेप सुयामुनसुयामुनो वत्सरा(ज ? जे) प्रासादवसुदेवयोः । स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते ॥ १२४ ॥ Nānārthārṇavasaṃkṣepa 6.124
  • नानार्थार्णवसंक्षेप प्रसादनशुश्रूषायां च नृस्त्री तु कङ्कते स्यात् प्रसाधनी । प्रसादनस्तु प्रासादे पुमान् स्यादोदने तु नप् ॥ ३४५ ॥ Nānārthārṇavasaṃkṣepa 6.345
  • नानार्थार्णवसंक्षेप वैजयन्तवैजयन्तः पुनः पुंसि प्रासादे स्याच्छचीपतेः । तस्य ध्वजे च देवे च देवदेवसुते गुहे ॥ ५८८ ॥ Nānārthārṇavasaṃkṣepa 6.588
  • शब्दरत्नावली वैजयन्तविवस्वान् वरुणे सूर्ये तत्रगर्यां विवस्वती । वैजयन्तोऽपि शक्रस्य प्रासादध्वजयोः पुमान् ॥ Śabdaratnāvalī 7.16.173
  • शब्दरत्नावली सुयामुनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
  • शब्दरत्नाकर प्रग्रीवप्रग्रीवमस्त्री ग्रीवायां प्रासादे कलशेऽपि च । त्रिषूर्ध्वबाहुपुंमाने स्त्रीणां पुंवद्धृतिस्थितौ ॥ २१३६ ॥ Śabdaratnākara 4.1.2136
  • तन्त्राभिधान हौंक्लीं कामो ग्लौञ्च भूबीजं श्रौं विश्वः क्ष्रौं नृकेशरी । हौं प्रासादं शिवो गञ्च विघ्नराज उदाहृतः ॥ ३४ ॥ Tantrābhidhāna 1.34
  • वैजयन्ती प्रग्रीवप्रग्रीवमस्त्री कलशे ग्रीवाप्रासादयोरपि । पाटला गवि पाटल्यामाशुव्रीहिस्तु पाटलः ॥ ५६ ॥ Vaijayantī 7.5.56