एण
eṇaपुं · masc.In 14 kośas: 14 synonym verses, 2 as a meaning of another word.
मृगभेदा रुरुन्यङ्कुरङ्कुगोकर्णशम्बराः ॥ १२९३ ॥चमूरुचीनचमराः समूरैणर्श्यरौहिषाः ।कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ १२९४ ॥
अनुष्टुप्
genderपुंmasc.
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥गन्धर्वः शरभो रामः सृमरो गवयः शशः ।इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
एणः कुरङ्गो हरिणो मृगः स्यात्सारङ्ग ऋष्यः पृषतो रुरुश्च ।न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा,वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥
इन्द्रवज्रा
genderपुंmasc.
वातायुः कृष्णसारस्तु कलमः कृष्ण इत्यपि ।एणोऽप्यथ पुनर्न्यङ्कुर्वङ्कुणो मृगसंनिभः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
रुरुचीनैणहरिणपृषताः शंवरः पुनः ।सृमरश्च चमूरुश्चेत्येते स्युरजिनाकराः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
एणः कृष्णः कृष्णसारः कमलोऽथैणमस्य यत् ।चर्माद्यमेण्यास्त्वैणेयं त्रितयेऽथ कुरङ्गकः ।चतुरश्चारुगामी च किंचिल्लोहितकृष्णकः ॥ ३२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गोकर्णः पीलुकर्णश्च पृषतोऽप्येण ऋश्यकः ।रोहितः कुण्डपालाद्या मृगभेदा इतीरिताः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
गन्धर्वोऽश्वो हरिर्वाजी तुरङ्गः सैन्धवोऽर्कजः ।एणः कुरङ्गो हरिणो मृगः श्वसनवाहनः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
सौराष्ट्रिको ब्रह्मपुत्रः काकोलो दरदोऽपि च ।मृगः कुरङ्गो हरिण एणः सारङ्ग एव च ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
मृगभेदा न्यङ्कुरङ्कुरुरुरोहिषरौहिषाः ।चमूरुचमरचीनाः समूरैणर्श्यरोहिताः ॥ २३३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 र (wrong syllable)
genderपुंmasc.
ऋष्य ऋश्यो रिश्यरिश्यावेणः स्यादेणकोऽपि च ।एण्याश्चर्माद्यमैनेयमेनस्यैणं त्रिषुद्वयम् ॥
अनुष्टुप्
genderपुंmasc.
श्वाविट् शल्योऽस्य लोम्नि स्त्री शलली शललं शलम् ।मृगः कुरङ्गो वातायुरेणो हरिण इत्यपि ॥ ६८० ॥
अनुष्टुप्
genderपुंmasc.
एणः कुरङ्गमो रिश्यः स्यादृश्यश्चारुलोचनः ।गोलाङ्गूले कपित्थास्यदधिशोणनगाटनाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
नित्यशंकी च कृष्णस्तु कृष्णसारो निरञ्जनः ।यज्ञांग एणस्ताम्रस्तु हरिणस्तृणसंवरः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
एण as a meaning in nānārtha verses
- धरणिकोश शारङ्गरङ्गो नृत्ये रणे रागे रङ्गं वर्णकवङ्गयोः । शारङ्गौ गजकल्माषौ शारङ्गावेणचातकौ ॥ Dharaṇikośa 3.2.2
- त्रिकाण्डशेष पृषत्प्रेतो मृते प्राणिभेदे पित्सन्पातेच्छुपक्षिणोः । क्लीबं बिन्दौ पृषन्तेणे पृषतोऽप्यनयोर्नरि ॥ १६८ ॥ Trikāṇḍaśeṣa 3.3.168