कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

शेषकाण्डः · पर्यायसंयोगन्यायप्रदर्शनाध्यायः

इति एकाक्षराः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां शेषकाण्डे नानालिङ्गाध्यायः

शेषकाण्डे पर्यायसंयोगन्यायप्रदर्शनाध्यायः

धातुः सर्वेऽपि पर्याया रुद्राक्षे स्युश्चतुर्मुखे ।तस्मिन् पञ्चमुखे शंभोः कुमारस्य तु षण्मुखे ॥ १ ॥
8.6.1 · p. 281
अनुष्टुप्
गुग्गुलूलूककुटजेष्विन्द्रस्याग्नेश्च चित्रके ।भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥
8.6.2 · p. 281
अनुष्टुप्
कर्पूरकंपिल्लकयोरिन्दोर्वज्रस्य हीरके ।गौर्यास्त्वतस्यां कौबेरा वन्दाके क्षीरवृक्षजे ॥ ३ ॥
8.6.3 · p. 281
अनुष्टुप्
खस्याभ्रके ब्रह्मणि च मेघस्याभ्रकमुस्तयोः ।भुवो नामानि सौराष्ट्र्यां शैलेये ग्रावशैलयोः ॥ ४ ॥
8.6.4 · p. 281
अनुष्टुप्
शर्वर्यास्तु हरिद्रायां प्रियंगुव्रततौ स्त्रियाः ।ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ ५ ॥
8.6.5 · p. 281
अनुष्टुप्
वायसस्य च पर्यायाः क्रमात् पूर्वादिवेश्मसु ।हंसेन्दुकुमुदां रूप्ये कुमुदेऽपि खरस्य षण् ॥ ६ ॥
8.6.6 · p. 281
अनुष्टुप्
स्योनाके तु सृगालस्य वानरस्य तु सिह्लके ।स्पृक्कायां तस्करस्य स्युरुशीरे समरस्य हि ॥ ७ ॥
8.6.7 · p. 281
अनुष्टुप्
वाट्यालकेऽस्य सान्नस्य शोणितस्य तु कुंकुमे ।कुष्ठाख्यभेषजे व्याधेर्मातुर्गौर्यां दृषद्गवोः ॥ ८ ॥
8.6.8 · p. 281
अनुष्टुप्
पिण्डारे त्ववटोः पाणेश्चायुधस्य त्वयस्यपि ।अपराधे तु रन्ध्रस्य बदरस्य तु नागरे ॥ ९ ॥
8.6.9 · p. 281
अनुष्टुप्
रुक्मस्यांजनभेदे क्ली पुंलिङ्गा नागकेसरे ।उन्मत्तेऽपि च बिन्दोस्तु सिध्मादौ देहवैकृते ॥ १० ॥
8.6.10 · p. 281
अनुष्टुप्
रूप्यस्यांजनभेदे स्युरटव्यां जलमुस्तके ।षण्डाः केशस्य बर्हिष्ठे शिरसः शिखरे तरोः ॥ ११ ॥
8.6.11 · p. 281
अनुष्टुप्
माक्षिके क्ली स्त्रियो लक्ष्म्यां नरः पद्मस्य सारसे ।त्वचो लवंगे पर्णस्य पक्षे क्ली किंशुके नरः ॥ १२ ॥
8.6.12 · p. 282
अनुष्टुप्
गणस्याब्धेश्च संख्यायां बर्हिष्ठे मुस्तकेऽप्यपाम् ।मकरांबुजकूर्माणां निधिभेदेषु ते नरः ॥ १३ ॥
8.6.13 · p. 282
अनुष्टुप्
संख्याभेदेऽपि शंखस्य मीनमेषविषाणिनाम् ।मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ १४ ॥
8.6.14 · p. 282
अनुष्टुप्
धनुर्मकरकुंभानां क्रमाद्द्वादशराशिषु ।सर्पस्य सीसके नागकेसरे द्विपसर्पयोः ॥ १५ ॥
8.6.15 · p. 282
अनुष्टुप्
अगरुण्ययसो गुन्द्रे शरस्य मकरे त्वसेः ।शुभस्य फेनिले पुंसि कार्पासे वाससो नरः ॥ १६ ॥
8.6.16 · p. 282
अनुष्टुप्
धूल्यश्वयोरश्वकन्दे पर्पटे मरिचेऽयसः ।इत्यादीन्यन्यनामानि बोद्धव्यान्यन्यवस्तुषु ॥ १७ ॥
8.6.17 · p. 282
अनुष्टुप्
वृक्षस्य गृहनामान्ता नरः पक्षिमयूरयोः ।वीरात्परास्ते भल्लाते ततः शक्राच्च तेऽर्जुने ॥ १८ ॥
8.6.18 · p. 282
अनुष्टुप्
पलाशे ब्रह्मतोऽश्वत्थे श्रीतः कारस्करे विषात् ।मुनेः पलाशसरलस्योनारकेंगुद्यगस्तिषु ॥ १९ ॥
8.6.19 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नौस्तंभे गुणतश्चैत्यादश्वत्थोद्देशवृक्षयोः ।व्याघाते राजतो दीपाद्दीपमालाविधारके ॥ २० ॥
8.6.20 · p. 282
अनुष्टुप्
नरो भुगन्ताः सर्पस्य राजसर्पमयूरयोः ।तार्क्ष्ये चाथारिनामान्ता नकुले केकिताकर्क्ष्ययोः ॥ २१ ॥
8.6.21 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पञ्चपूर्वास्तु वक्त्रस्य व्याघ्रे सिंहे हरे नरः ।कण्ठस्य नीलनामभ्यो ग्रीवायाश्चेशकेकिनोः ॥ २२ ॥
8.6.22 · p. 282
अनुष्टुप्
नखस्य शस्त्रनामान्ता नरो मार्जारसिंहयोः ।कुचन्दने कुंकुमे च रक्तादेश्चन्दनायः ॥ २३ ॥
8.6.23 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
एवं संयोगनामानि सलिङ्गान्युन्नयेत् स्वयम् ।पूर्वोक्तेष्वपि शब्देषु योगसंप्राप्तवृत्तयः ॥ २४ ॥
8.6.24 · p. 283
अनुष्टुप्
स्वयमूह्या यथा कन्दः कं ददातीति वारिदः ।
8.6.25 · p. 283