कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

द्व्यक्षरकाण्डः · वाच्यलिङ्गाध्यायः

इति द्व्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।

अथ द्व्यक्षरकाण्डे वाच्यलिङ्गाध्यायः ।

अथाभिधेयलिङ्गः स्यादर्भो बाले तथाल्पके ।अन्यस्त्वसदृशे भिन्नेऽप्यन्त्योऽन्तभवनीचयोः ॥ १ ॥
2.4.1 · p. 40
अनुष्टुप्
शरीरिशेषिणोरङ्गी विशेषादङ्गवत्यपि ।सेवके याचकेऽप्यर्थी व्यवहाराभियोक्तरि ॥ २ ॥
2.4.2 · p. 40
अनुष्टुप्
अदः शब्दं त्रिषु प्राहुरत्र तत्र परत्र च ।आप्यं तु प्रापणीये स्याद् भोजाद्यास्त्वम्मयेऽपि च ॥ ३ ॥
2.4.3 · p. 40
अनुष्टुप्
आप्तः प्रत्ययिते प्रोक्तो लब्धेऽपि कृतबुद्धिभिः ।इयत् प्रादेशमात्रेऽपि स्यादिदंपरिमाणके ॥ ४ ॥
2.4.4 · p. 40
अनुष्टुप्
एकशब्दस्तु धीमद्भिः समाम्नातश्च केवले ।प्रधाने प्रथमेऽन्यस्मिन् समानेऽल्पेऽप्यसौ पुनः ॥ ५ ॥
2.4.5 · p. 40
अनुष्टुप्
एकत्वसङ्ख्यायुक्ते स्यात् सङ्ख्येये तत्र चाप्यसौ ।नित्यैकवचनान्तः स्यादिति प्राहुरथो कृती ॥ ६ ॥
2.4.6 · p. 40
अनुष्टुप्
कुशले पण्डिते योग्ये ग्रस्तं वेष्टितभुक्तयोः ।लुप्तवर्णपदे वाक्ये गन्तुस्तु पथिकेऽतिथौ ॥ ७ ॥
2.4.7 · p. 40
अनुष्टुप्
चुल्लः क्लिन्नाक्षजन्तौ च क्लिन्ने चाक्ष्ण्यथ चोद्यवाक् ।चोदनीयेऽद्भुते छन्नश्छादितेऽपि रहस्यपि ॥ ८ ॥
2.4.8 · p. 40
अनुष्टुप्
जाल्मो नीचे च निर्बुद्धौ स्तब्धेऽनालोच्यकारिणि ।जात्यो मुख्ये कुलीने च चारौ ज्यायस्तु पूर्वजे ॥ ९ ॥
2.4.9 · p. 40
अनुष्टुप्
स्यात् प्रशस्ततरे वृद्धतरे डिम्भस्त्ववोद्धरि ।शिशौ तिल्यस्तु तैलीने तिलसाधौ तिलाय च ॥ १० ॥
2.4.10 · p. 40
अनुष्टुप्
हितेऽथ दभ्रं स्यादल्पे शिशौ ह्रस्वेऽथ सत्वरे ।द्राङ्गं प्रांशौ च दीप्तं तु स्याद्दग्धे भासितेऽपि च ॥ ११ ॥
2.4.11 · p. 40
अनुष्टुप्
द्रुतं विलीने शीघ्रे च व्यवदीर्णेऽप्यथो रथे ।द्वीपिचर्मावृते द्वैपं द्वीपिनोऽवयवे तथा ॥ १२ ॥
2.4.12 · p. 41
अनुष्टुप्
विकारेऽप्यासमुद्रान्तद्वीपसम्बन्धिवस्तुनि ।अन्यत्र मानुषात् तत्स्थाच्चाथ कश्चित् स्वतन्त्रधीः ॥ १३ ॥
2.4.13 · p. 41
अनुष्टुप्
ध्वस्तं ग्रासीकृते लुप्ते नयहीनेऽप्यवोचत ।धुतं तु कम्पिते त्यक्ते धूतं त्यक्तेऽपि कम्पिते ॥ १४ ॥
2.4.14 · p. 41
अनुष्टुप्
न्यक्षं कृत्स्ने निकृष्टे च न्यूनमूनविगर्हयोः ।प्राज्ञस्तु धीमज्ज्ञात्रोः स्यात् तत्रापि स्यात् क्रमाद्द्वयम् ॥ १५ ॥
2.4.15 · p. 41
अनुष्टुप्
स्त्र्यर्थे प्राज्ञा तथा प्राज्ञी पात्रशब्दस्तु वक्ष्यते ।शोष्टरि त्रातरि पिबे पिल्लः क्लिन्नेऽक्ष्णि तद्वति ॥ १६ ॥
2.4.16 · p. 41
अनुष्टुप्
भङ्ग्यं भाङ्गीनभङ्क्तव्यभङ्गसाध्वादिषु स्मृतम् ।भाक्तस्तु भक्तसाधौ स्यात् तथा लाक्षणिकेऽपि च ॥ १७ ॥
2.4.17 · p. 41
अनुष्टुप्
भिन्नं विदारितेऽन्यस्मिन् मिश्रे चाथ महत्तरे ।भूयः स्यादितरेऽप्येष पुनरर्थेऽपि सोऽव्ययम् ॥ १८ ॥
2.4.18 · p. 41
अनुष्टुप्
माष्यं तु हिंस्ये माषीणे माषसाधौ च तद्धिते ।म्लिष्टं म्लानेऽप्यविस्पष्टवाक्ये मुग्धं तु नूतने ॥ १९ ॥
2.4.19 · p. 41
अनुष्टुप्
मूढे सौम्ये च मेध्यं तु बलाहकभवे तथा ।मेघसाधौ च याप्यं तु यापनीये विगर्हिते ॥ २० ॥
2.4.20 · p. 41
अनुष्टुप्
रुशद्वर्णविशेषेण युक्ते वाक्येऽप्यमङ्गले ।हिंसितर्यपि पूर्वत्र स्त्र्यर्थे स्याद्रुशतीति हि ॥ २१ ॥
2.4.21 · p. 41
अनुष्टुप्
हिंसितुः स्त्र्यर्थविषये रुशन्ती रुशतीति च ।न्याय्यलब्धव्ययोर्लभ्यं लोलश्चलसतृष्णयोः ॥ २२ ॥
2.4.22 · p. 41
अनुष्टुप्
व्यग्रस्तु विगताग्रे च व्यापृताकुलयोरपि ।वाच्यस्तु कुत्सितेऽधीने विहीने वदितव्यके ॥ २३ ॥
2.4.23 · p. 41
अनुष्टुप्
विद्धं सूच्यादिभिर्भिन्ने सदृशेऽप्यथ विन्नवाक् ।लब्धे विचारिते प्राप्तसत्ताकेऽप्यथ केचन ॥ २४ ॥
2.4.24 · p. 42
अनुष्टुप्
प्रचक्षते विग्रशब्दं मेधाविगतनासयोः ।तत्तु मेधाविनि न्याय्यं गतनासे त्वसाम्प्रतम् ॥ २५ ॥
2.4.25 · p. 42
अनुष्टुप्
यस्मात् स्मृति'र्वेर्घ्र' इति न तु 'वेर्ग्र' इतीदृशी ।तस्माद्विघ्रो गतघ्राणे विग्रो मेधाविनि स्मृतः ॥ २६ ॥
2.4.26 · p. 42
अनुष्टुप्
विद्वान् विदद्बुधात्मज्ञेष्वाहान्यो विदुरेऽप्यमुम् ।व्यूढं विन्यस्तविस्तीर्णसंहतेष्वथ वैरिवाक् ॥ २७ ॥
2.4.27 · p. 42
अनुष्टुप्
अरातौ वैरवति च समाम्नाताथ शक्लवाक् ।प्रियंवदे च शक्ते च श्लक्ष्णं त्वल्पेऽपि सुन्दरे ॥ २८ ॥
2.4.28 · p. 42
अनुष्टुप्
मसृणे चाथ शाली स्यात् श्लाघ्यशालिमतोरथ ।शून्यं रिक्ते मोहवतो वचस्यप्यथ सज्जवाक् ॥ २९ ॥
2.4.29 · p. 42
अनुष्टुप्
सन्नद्धेऽपि सतो जाते स्फीतं त्वृद्धप्रभूतयोः ।स्फुटं विकसिते व्याप्ते शुक्तविस्पष्टयोरपि ॥ ३० ॥
2.4.30 · p. 42
अनुष्टुप्
स्वैरस्तु मन्दे स्वच्छन्दे हर्ता चोरेऽपि नेतरि ॥ ३०-१/२ ॥
2.4.31 · p. 42