कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पीयूष

pīyūṣaक्ली · neut.

In 19 kośas: 24 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.89 · p. 7
तेषां यानं विमानोऽन्धः पीयूषममृतं सुधा ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.28 · p. 2
पेयूषमपि पीयूषं कूचिकापि च कूर्चिका ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.48
स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ४८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.96
मण्डं दधिभवं मस्तु पीयूषोऽभिनवं पयः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.133 · p. 16
भुवनं विष्टपं लोको जगदेकार्थवाचकाः ।अमृतं त्रिदशाहारः सुधा पीयूषमुच्यते ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.274 · p. 33
ऊधस्यं क्षीरं स्याद्दुग्धं स्तन्यं पयश्च पीयूषम् ।दधिसारं नवनीतं ब्रुवते हैयङ्गवीनं च ॥ २७४ ॥
metre not recognised
genderक्लीneut.
स्यात् सूत्रामापि सुत्रामा शची शचिः सचिः सची ।पीयूषमपि पेयूषं पैयूषं च पयोऽमृते ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.229 · p. 158
सद्यः प्रसूतायाः क्षीरं पीयूषोऽभिनवं पयः ।पेयूषो मलिनं क्लीबे घनं स्यादथ मोरटम् ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.105 · p. 473
शीर्षमन्दाक्षपीयूषकिल्विषाणां ततः परम् ।तर्षजीषऋषाणां च काशीसस्य तथैव च ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.114 · p. 19
पेयूषोऽस्त्री च पीयूषममृतं स्यात्सुधा बुधा ।विश्वकर्मा सुकर्माऽथ त्वष्टा च सुरवर्द्धकिः ॥ ११४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.16 · p. 108
अर्पिश-पलिश-नृशानिस्युः पीयूषं मिषं शीर्षम् ।किल्बिषमृजीषवीक्षा-नुतर्षमन्दाक्षमर्पिष वीषिः(?) ॥ १६ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.52 · p. 12
तेषामन्धोऽमृतं पेयूषं पीयूषमपि स्मृतम् ।समुद्रनवनीतं च सुधा यानमथोच्यते ॥ ५२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.98 · p. 223
किण्वं दिवं सान्त्वमुलूखलं चपातालसत्त्वे वृशविश्वशीर्षम् ।मन्दाक्षपीयूषमहानसानिकासीससंयज्जगदर्पिषाणि ॥ ९८ ॥
इन्द्रवज्रा
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.481 · p. 87
पीयूषश्चापि पेयूषो नवगोक्षीर इत्युभौ ।स्यान्मयूराण्डसदृशे कवले ग्रास इष्यते ॥ ४८१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.279 · p. 20
रत्नाकरः सरिद्भर्त्ता यादोनाथो हिमांशुभूः ।सूधा पीयूषाममृतं सुरान्धः षड्रसाधिकम् ॥ २७९ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.44 · p. 6
पुलोमजा शचीन्द्राणी पीयूषममृतं सुधा ।हाहा हूहूश्च गन्धर्वो विश्वकर्मा तु शिल्पिकृत् ॥ ४४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.70 · p. 11
पीयूषं चापि पेयूषं देवभोज्यं सुधाऽमृतम् ।देवाहारश्च देवान्नं समुद्रनवनीतकम् ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.606 · p. 78
पीयूषं नव दुग्धं स्यात् पेयूषश्चापि कथ्यते ।किलाटी कूर्चिका चाथ कूचिका दुग्धजा स्मृता ॥ ६०६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.119 · p. 9
सुधर्मा च सुधर्मा स्यादमृतं निर्जरं सुधा ।पीयूषमपि पेयूषं समुद्र-नवनीतकम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.3 · p. 177
देवताऽऽदित्याऽऽदितेयौ, सुधाऽभिनवदुग्धयोः ।पीयूषमपि पेयूषं, व्यन्तरा वानमन्तराः ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.90 · p. 12
पिशाचाः कापिशेयाः स्युः सिद्धास्तु सनकादयः ।सुधा त्वमृतपीयूषे सुधर्मा दिविषत्सभा ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.769 · p. 98
दुग्धं तु क्षीरमूधस्यं पयः स्तन्यं नवं तु तत् ।पीयूषोऽथ हविः सर्पिर्घृतमाज्यं समार्थकम् ॥ ७६९ ॥
अनुष्टुप्
genderपुंmasc.
ओः सद्योजात ऊर्द्धास्यो गायत्री दक्षजङ्घकः ।अजेशश्चैव पीयूषः पश्चिमास्यः श्रुतिस्तथा ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.146 · p. 135
ऊधस्यं जीवनीयं च धारोष्णं त्वमृतं पयः ।आसप्ताहात्तु पीयूषं ततो मोरटमोरके ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.55 · p. 375
स्यात्सप्तघस्रावधिदुग्धकेऽन्त्येपीयूषमुक्तं च तथा सुधायाम् ।पेयूषमस्त्री ह्यभिनव्यदुग्धे-ऽमृतेऽथ शैलूषमुशन्ति बिल्वे ॥ ५५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.57 · p. 37
पीयूषं त्वमृते दुग्धे नवसूतगवीभवे ।पुरीषं मृत्तिकाचूर्णे विष्ठायां सलिलेऽपि च ॥ ५७ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र षत्रिः Śivakoṣa 26.2.520 · p. 47
पेयूषमपि पीयूषं नवे क्षीरेऽपि चामृते ।शिरीषो मृदुपुष्पे च कृष्णपाकफलेऽपि च ॥ ५२० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.22 · p. 293
पीयूषममृते सप्तदिवसावधिदुग्धके ।पुरुषः सांख्यतत्त्वज्ञे पुन्नागभूरुहात्मनोः ।पौरुषं पुरुषस्यैव प्रभावे कर्मभावयोः ।ऊर्द्धविस्तृत …मारिषी दक्षमातरि ॥
अनुष्टुप्metre not read in every line
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2131 · p. 258
पीयूषममृतं ना तु नवसूतगवीपयः ।पिनाकोऽजगवे पुंसि रजोवर्षे तु वा नरि ॥ २१३१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.23 · p. 251
नवसूतगवीदुग्धे पीयूषममृतेऽपि च ।प्रमाणं बोधनेयत्तामर्यादाशास्त्रहेतुषु ॥ २३ ॥
अनुष्टुप्

पीयूष as a meaning in nānārtha verses

  • कोषकल्पतरु रेत्रकलत्रसिद्धस्थलयोरथ स्या- द्रेत्रं च रेतःपटवासयोश्च । पीयूषके सूतकवाचकं च मन्त्रस्तु वेदान्तरवाचकः स्यात् ॥ ३५ ॥ Koṣakalpataru 6.27.35
  • शब्दरत्नावली अमृतअमृतं स्यात्तु पीयूषे यज्ञशेषे जले घृते । मोक्षायाचितयोर्ना तु धन्वन्तरिसुधाभुजोः ॥ Śabdaratnāvalī 7.16.71
  • शब्दरत्नावली रेतस्रन्घ्रं छिद्रे भूषणे च रुरुर्ना मृगदैत्ययोः । रेत्रसूतकपीयूषपटवासेषु तेजसि ॥ Śabdaratnāvalī 7.27.40
  • शब्दरत्नावली कीलालकिहालस्ताम्रकलसे तथा लोहमलेऽस्त्रियाम् । कीलालं रुधिरे तोये पीयूषे च मधुन्यपि ॥ कुशलं शिक्षिते क्षेमे पर्याप्तौ सुकृते त्रिषु । कुवलं तूत्पले मुक्ताफले च बदरीफले ॥ Śabdaratnāvalī 7.28.53
  • तन्त्राभिधान ओओ-कारः सत्यपीयूषौ पश्चिमास्यः श्रुतिः स्थिरा । सद्योजातो वासुदेवो गायत्री दीर्घजङ्घकः ॥ ४२ ॥ Tantrābhidhāna 2.14.42