कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दुर्वर्ण

durvarṇaक्ली · neut.

In 17 kośas: 12 synonym verses, 7 as a nānārtha head word, 1 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.96
दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.59 · p. 13
सिद्धवेद्यं महावर्णं पुण्डरीकं तु चन्द्रकम् ।दुर्वर्णं रजतं वैण्डि चन्द्रभीरु यमोदरम् ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.543 · p. 193
दुर्वर्णं पुंसि वा रूप्यं रूपं रौप्यं यवीयसम् ।तारं लोहं वसुश्रेष्ठं रजतं रुचिरं पुनः ॥ ५४३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.500 · p. 305
हरिवालुकमेलाह्वं मालुकं वालुकं दृढम् ।एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं पुनः ॥ ५०० ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.233 · p. 128
एलावालुके त्वैलेयं वालुके हरिवालुकम् ।सुगन्ध्यालुकमेल्वालं दुर्वर्णं प्रसरं दृढम् ॥ २३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.18 · p. 10
शतवर्णे शातकुम्भं मेरु साहस्रवर्णके ।रूप्ये तु रजतं शुभ्रं दुर्वर्णं कलधौतकम् ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.542 · p. 95
स्मृतं हि शृङ्गीकनकमलंकारस्य योग्यके ।खर्जूरश्वेतदुर्वर्णरूप्य(प?)रूप्याणि राजि(ज?)ते ॥ ५४२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण भूम्यधिकारस्तृतीयस्सर्गः Śabdacandrikā 3.15 · p. 39
दुर्वर्णं तारकं तारं वैरिकं पादभूषणम् ।शुक्तिस्मृतं वज्रगर्भं चन्द्रभीरु निगद्यते ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.174 · p. 19
अष्टापदं भूरिचन्द्रो महारजतभूत्तमे ।दुर्वर्णं रजतं रूप्यं तारं खर्जूरमित्यपि ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1802 · p. 294
रूप्यं रूपं तथा श्वेतं त्रापुषं रजतं सितम् ।दुर्वर्णकञ्च दुर्वर्णं जीवनं बङ्गजीवनम् ॥ १८०२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.186 · p. 150
रजतं रूप्यखर्जुरं दुर्वर्णश्वेतरौप्यकम् ।रङ्गवीजं राजरङ्गं लोहराजकमित्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 र्जु (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.145 · p. 19
दुर्वर्णवङ्गजीवनरुद्राश्रुभवानि तुल्यानि ।ताम्रं म्लेच्छमुखं म्लेच्छं सुखं शुल्बमुदुम्बरम् ॥ १४५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास णपादः Dharaṇikośa 14.1.6 · p. 49
लक्षणं नाम्नि चिह्ने च कोङ्कणः शस्त्रदेशयोः ।दुर्वर्णं रूप्येऽसद्वर्णे प्रोक्षणे वधसेचने ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्येऽ (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.37 · p. 199
पद्मिन्यां गरुडस्य मातरि तथा स्त्रीलिङ्गभाक्संमतःश्रीपर्णं कमलेऽग्निमन्थहठयोः कुम्भ्यां स्त्रियां शाल्मलौ ।गम्भार्यां[283a]रजते तु युग्मरहितं दुर्वर्णमुक्तं बुधैःपत्रोर्णं त्वरलौ तथाम्बरभिदि त्रय्यां त्वशुद्धे चिते ॥ ३७ ॥
शार्दूलविक्रीडितम्metre not read in every line
meaningsरजत
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.943 · p. 130
बहुव्रीहौ तु त्रिरथो दुर्वर्णं रजते नपि ।एलावालुकसंज्ञे च भेषजे रभसोऽपठीत् ॥ ९४३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.944 · p. 130
दुष्टवर्णे तु नृनपोर्बहुव्रीहौ पुनस्त्रिषु ।दुर्जातं व्यसने क्ली त्रिरसम्यग्जातवस्तुनि ॥ ९४४ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास दकारादयः Paramānandīyanāmamālā 5.16.245 · p. 193
दुर्मुखो मुखरे हस्तिभेदे वानरवाजिनोः ।दर्दुरः पर्वते भेके दुर्वर्णं स्वर्णरूप्ययोः ॥ २४५ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.129 · p. 135
दुर्वर्णं रजकेऽपि स्याद्गुणोलिः कच्छपी द्रुणी ।द्युमणौ तरणिः पुंसि कुमारीनौकयोः स्त्रियाम् ॥ १२९ ॥
अनुष्टुप्
meaningsरजक
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.45 · p. 260
न नाक्षिमध्ये नक्षत्रे द्विजिह्वौ सूचकोरगौ ।दुर्वर्णं दुष्प्रभे रूप्ये देयभेदे तु दक्षिणा ॥ ४५ ॥
अनुष्टुप्

दुर्वर्ण as a meaning in nānārtha verses

  • वैजयन्ती विवर्णविगतौ वीतनिस्पृहौ विविक्तौ शुद्धनिर्जनौ । विवर्णौ मूर्खदुर्वर्णौ व्यायतो व्यापृते दृढे ॥ २४ ॥ Vaijayantī 7.4.24