शैवाल
śaivālaक्ली · neut.In 13 kośas: 14 synonym verses, 3 as a meaning of another word.
उत्पलानां तु शालूकं नील्यां शैवालशेवले ।शेवालं शैवलं शेपालं जलाच्छूकनीलिके ॥ ११६७ ॥
अनुष्टुप्
genderक्लीneut.
शेवालमपि शेपालं शेवलं शीवलं तथा ।शैवालं शैवलं चेति षट् समार्थाः प्रकीर्तिताः ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
इन्दीवरं च नीलेस्मिन् सिते कुमुदकैरवे ।जलनीली तु शैवालं शिवालं शेमवल्लिका ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
पृश्निका पर्णिका वारिपर्यायेभ्यः परा स्त्रियाम् ।मूलिका पर्णिका चाथास्त्रियां शैवालशेवले ॥ १५० ॥
अनुष्टुप्
genderपुंक्लीm. n.
शैवालमस्त्री शेवालं शैवलः शीवलं [66a] समम् ।जलज्वरोऽस्त्री शेपालं जलचामरमीरितम् ।परिवाहः परीवाहो जलोच्छ्वासो जलाशयः ॥ ३९ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
एते स्त्रीलिङ्गे उदिताः कथिताः । इयं शाला गृहविशेषः । माला स्रक् । दोला क्रीडासाधनम् । वेला कूलं समुद्रस्य । फेला भक्तोच्छिष्टं धानाश्च । शिला अश्मा । तुला पलशतानुमानम् । लीला अतिरसकोविदश्च । सेना हस्त्यश्वपदातिसमुदायः । पालिः पङ्क्तिप्रदेशः । बलिः करः उपहारः । दद्रुः कुष्ठविशेषः । वागुरा मृगबन्धनी रज्जुः ।पातालजालमलखलकपालशैवालशीलनालानिचीरचीवरवियन्ति च विद्धि तृतीयाप्रकृतिकानि ॥ ३७ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderक्लीneut.
एते शब्दा नपुंसके भवन्ति । इदमजिनं मृगत्वक् । इदमजिरमङ्गणम् । शैवालं जलसम्भवम् । नलं सुवर्णभाजनम् । मृणालं पद्ममूलम् । तुहिनं तुषारः । उडुपं प्लवः । आज्यं घृतम् । सस्यं व्रीहिः । द्वारं[र] गृहस्य । आस्पदं राज्ञाम् । काष्ठमिन्धनं पटलगृहस्य तिमिरं वा । एवकारोऽवधारणे ।त्रिष्वप्यक्षेष्विन्द्रियसञ्ज्ञका एतान्नपुंसके विद्धि ।शेषाः पुंसि प्रोक्ताः श्रीपिष्टा[ष्ठा]द्याश्च निर्यासाः ॥ ४८ ॥
metre not recognised
genderक्लीneut.
वारिपर्ण्यां तु पानीया पृष्ठगा कुम्भिका हटः ।जलशूके जलनीली नीली शैवालशैवले ॥ ३३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderक्लीneut.
शेपालं तु शेवालं शैवालं जलनीलिका ।सस्यसीत्ये समे धान्यं व्रीहिस्तम्बकरी समे ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 शे (syllables merged)
genderक्लीneut.
शैवालं चापि नीली स्युर्नामानि शैवलस्य वै ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderक्लीneut.
पर्णी पृश्नी खमूलिश्च खमूली वारिकर्णिका ।शैवालौ जलनीली च शैवालं वारिचामरम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शेवालं शैवलं शैवालं शेपालं च शीवलम् ।शेवलं पाटलसाला वाशुराशु च व्रीहिवत् ॥ २५० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शैवलो जलशूरः स्यादवका जलनील्यपि ।शैवालञ्चाथ शेवालं चूर्णाभं लोहितं जले ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
शैवाल as a meaning in nānārtha verses
- कोषकल्पतरु शीवलशैलेयशैवालगतं तु शीवलं स्याच्छैवलं पद्मककाष्ठवाचकम् । जलाञ्चले ना मलयोद्भवे पुनः स्याच्छीतलं शैलजवाचकं तथा ॥ ३५ ॥ Koṣakalpataru 6.28.35
- शिवकोष शैवलशीवलं स्याच्च शीवाले शैलेये च नपुंसकम् । शैवलः पुंसि शैवाले क्लीबं स्यात्पद्मकाष्टके ॥ ४७७ ॥ Śivakoṣa 23.2.477
- शब्दरत्नावली शैवलशैवलं पद्मकाष्ठे स्याच्छैवाले तु भवेत्पुमान् । शौष्कलः स्याच्छुष्कमांसे पणके पिशिताशिनि ॥ Śabdaratnāvalī 7.28.99