कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

Part 1

श्रीः ।

विश्वप्रकाशः

विद्वद्वरश्रीमहेश्वरविरचितः

नमः सम्यक्सम्बुद्धाय ॥

स्तुवीमहि महामोहक्लेशान्तकभिषग्वरम् ।त्रैधातुकनिदानज्ञं सर्वज्ञं दुःखहानये ॥ १ ॥
1 · p. 1
अनुष्टुप्
कलाविलासान्मकरन्दबिन्दु-मुद्रां विनिद्रे हृदयारविन्दे ।या कल्पयन्ती रमते कवीनांदेवीं नमस्यामि सरस्वतीं ताम् ॥ २ ॥
2 · p. 1
उपजातिः
कवीन्द्रकुमुदानन्दकन्दोद्गमसुधाकरम् ।वाचस्पतिमतिस्पर्द्धिशेमुषीचन्द्रिकोज्ज्वलम् ॥ ३ ॥
3 · p. 1
अनुष्टुप्
क्षुभ्यत्क्षीराब्धिकल्लोलमालोल्लासियशःश्रियम् ।गुरुं वन्दे जगद्वन्द्यं गुणरत्नैकरोहणम् ॥ ४ ॥
4 · p. 1
अनुष्टुप्
श्रीसाहसाङ्कनृपतेरनवद्यवैद्य-विद्यातरङ्गपदमद्वयमेव बिभ्रत् ।यश्चन्द्रचारुचरितो हरिचन्द्रनामास्वव्याख्यया चरकतन्त्रमलञ्चकार ॥ ५ ॥
5 · p. 1
वसन्ततिलका
आसीदसीमवसुधाधिपवन्दनीयेतस्यान्वये सकलवैद्यकलावतंसः ।शक्रस्य दस्र इव गाधिपुराधिपस्यश्रीकृष्ण इत्यमलकीर्त्तिलतावितानः ॥ ६ ॥
6 · p. 1
वसन्ततिलका
सङ्कल्पसम्भवदनल्पविकल्पजल्प-कल्पानलाकुलितवादिसहस्रसिन्धुः ।तर्कत्रयत्रिनयनस्तनयो यदीयोदामोदरः समभवद्भिषजां वरेण्यः ॥ ७ ॥
7 · p. 2
वसन्ततिलका
तस्याभवत् सूनरुदारवाचोवाचस्पतिश्रीललनाविलासी ।सद्वैद्यविद्यानलिनीदिनेशःश्रीमह्लणः सत्कुमुदाकरेन्दुः ॥ ८ ॥
8 · p. 2
इन्द्रवज्रा
यद्भ्रातृजः सकलवैद्यकतत्त्वरत्न-रत्नाकरश्रियमवाप्य च केशवोऽभूत् ।कीर्त्तेर्निकेतनमनिन्द्यपदप्रमाण-वाक्यप्रपञ्चरचनाचतुराननश्रीः ॥ ९ ॥
9 · p. 2
वसन्ततिलका
कृष्णस्य चाऽजनि सुतः स्मितपुण्डरीक-षण्डातपत्रपरभागयशःपरागः ।श्रीब्रह्म इत्यविकलात्ममुखारविन्द-सोल्लासलासितरसार्द्रसरस्वतीकः ॥ १० ॥
10 · p. 2
वसन्ततिलका
तस्यात्मजः सरसकैरवकान्तकीर्तिःश्रीमान्महेश्वर इति प्रथितः कवीन्द्रः ।निःशेषवाङ्मयमहार्णवपारदृश्वाशब्दागमाम्बुरुहषण्डरविर्बभूव ॥ ११ ॥
11 · p. 2
वसन्ततिलका
यः साहसाङ्कचरितादिमहाप्रबन्ध-निर्म्माणनैपुणगुणागतगौरवश्रीः ।यो वैद्यकत्रयसरोजसरोजबन्धु-र्बन्धुः सतां सुकविकैरवकाननेन्दुः ॥ १२ ॥
12 · p. 2
वसन्ततिलका
इयं कृतिस्तस्य महेश्वरस्यवैदग्ध्यसिन्धोः पुरुषोत्तमानाम् ।देदीप्यतां हृत्कमलेषु नित्य-माकल्पमाकल्पितकौस्तुभश्रीः ॥ १३ ॥
13 · p. 2
उपजातिः
लब्धैः कथञ्चिदभिजातसुवर्णकार-लीलेन कोषवररत्नधिशब्दरत्नैः ।विश्वप्रकाश इति काञ्चनबन्धशोभांबिभ्रन्मयाऽत्र घटितो मुखखण्ड एषः ॥ १४ ॥
14 · p. 3
वसन्ततिलका
क्षोणीश्वरोदीरितशब्दकोष-रत्नाकरालोडनलालसानाम् ।सेव्यः कथं नैष सुवर्णशैलोविश्वप्रकाशो विबुधाधिपानाम् ॥ १५ ॥
15 · p. 3
इन्द्रवज्रा
भोगीन्द्रकात्यायनसाहसाङ्क-वाचस्पतिव्याडिपुरःसराणाम् ।सविश्वरूपामलमङ्गलानांशुभाङ्गगोपालितभागुराणाम् ॥ १६ ॥
16 · p. 3
उपजातिः
कोषावकाशात् प्रकटप्रभाव-सम्भाविताऽनर्घ्यगुणः स एषः ।सम्पादयन्नेष्यति वाञ्छितार्थान्कथं न चिन्तामणितां कवीनाम् ॥ १७ ॥
17 · p. 3
उपजातिः
आ मित्रशैलचरमाचलमेकलाद्रि-कैलासभूभिवलयाद्यदिहाऽस्ति किञ्चित् ।एकत्र सम्भृतमगोचरशब्दरत्न-मालोक्यतां तदखिलं सुधियः कवीन्द्राः ॥ १८ ॥
18 · p. 3
वसन्ततिलका
यद्यस्ति वाङ्मयमहार्णवण्मथनेच्छाप्राप्तुं पदं फणिपतेर्यदि कौतुकं वः ॥
19 · p. 3
metre not recognised
विश्वप्रकाशमनिशं तदिमं निषेव्यसम्भाव्यतां परमशाब्दिकशेखरश्रीः ॥ १९ ॥
19 · p. 4
वसन्ततिलका
सतां पुस्तकसम्भारभारमोक्षः कृतो मया ।नामानुशासनमिदं सम्पूर्णं तन्वताऽद्भुतम् ॥ २० ॥
20 · p. 4
अनुष्टुप्
एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमोज्ज्वलैः ।कान्तादिवर्गैर्नानार्थसङ्ग्रहोऽयं वितन्यते ॥ २१ ॥
21 · p. 4
अनुष्टुप्
नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः ।सप्तम्यन्तेषु शब्देषु वर्तमानः सुनिश्चितः ॥ २२ ॥
22 · p. 4
अनुष्टुप्
दृष्टान्तेन सह क्वाऽपि सप्तम्याधार एव च ।स्पष्टाय लिङ्गभेदाय क्वाऽप्यत्र पुनरुक्तता ॥ २३ ॥
23 · p. 4
अनुष्टुप्