कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · दान्तवर्गः

इति थान्तवर्गः

गदो भ्रातरि विष्णोः स्यादामयेऽप्यायुधे गदा ।नदः समुद्रे निनदे नदी तु सरिति स्मृता ॥ १ ॥
1.17.1 · p. 77
अनुष्टुप्
मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः ।मद्येऽपि मद आख्यातो मदी कृषकवस्तुनि ॥ २ ॥
1.17.2 · p. 77
अनुष्टुप्
पदं शब्दे च वाक्यं च व्यवसायापदेशयोः ।पादपच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः ॥ ३ ॥
1.17.3 · p. 77
अनुष्टुप्
छदः पलाशे गरुति ग्रन्थिपर्णितमालयोः ।रदो विलेखने दन्ते भद्रं कल्याणशर्म्मणोः ॥ ४ ॥
1.17.4 · p. 78
अनुष्टुप्
भेदो द्वैधे विशेषे स्यादुपजापे विदारणे ।स्वेदस्तु स्वेदने घर्म्मे शादः कर्द्दमशस्ययोः ॥ ५ ॥
1.17.5 · p. 78
अनुष्टुप्
पादो ब्रध्ने तुरीयांशे शैलप्रत्यन्तपर्वते ।चरणे च मयूखे च क्षोदो रजसि पेषणे ॥ ६ ॥
1.17.6 · p. 78
अनुष्टुप्
सूदस्तु सूपवत् सूपकारे च व्यञ्जनेऽपि च ।स्वादुर्मनोज्ञे मृष्टे च मृदुः स्यात् कोमलेऽखरे ॥ ७ ॥
1.17.7 · p. 78
अनुष्टुप्
अब्दः संवत्सरे मेघे गिरिभेदे च मुस्तके ।विन्दुर्दन्तच्छदेऽपि स्यात्तथा वेदितृविमुषोः ॥ ८ ॥
1.17.8 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 वि (wrong syllable)
कुन्दश्चक्रभ्रमौ माध्ये निधिभेदे मुरद्विषि ।कन्दस्तु शरणे शस्यमूले जलधरेऽपि च ॥ ९ ॥
1.17.9 · p. 78
अनुष्टुप्
मन्दः खले मन्दरते मूर्खे स्वैरेऽल्परागिणोः ।अभाग्येऽपि च मातङ्गे गजजातिप्रभेदयोः ॥ १० ॥
1.17.10 · p. 78
अनुष्टुप्
छन्दो वशेऽप्यभिप्राये हृदाख्याचित्तबुक्कयोः ।वेदिरङ्गुलमुद्रायां बुधेऽलङ्कृतभूतले ॥ ११ ॥
1.17.11 · p. 78
अनुष्टुप्
अन्दुः स्यात् षन्धनद्रव्ये प्रभेदे भूषणस्य च ।नन्दिरानन्दने द्यूते प्रतीहारे हरस्य च ॥ १२ ॥
1.17.12 · p. 78
अनुष्टुप्
विदा ज्ञाने च बुद्धौ च धीदा कन्यामनीषयोः ।निन्दाऽपवादे कुत्सायां नन्दा मणिकसम्पदोः ॥ १३ ॥
1.17.13 · p. 78
अनुष्टुप्
धनदो दातरि श्रीदे जलदो मुस्तकेऽम्बुदे ।नलदं स्यात्पुष्परसे मांसिकोशीरयोरपि ॥ १४ ॥
1.17.14 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पु (wrong syllable)
प्रमदः सम्मदे मत्ते कामिन्यां प्रमदा मता ।विशदः पाण्डुरे व्यक्ते जीवदो वैद्यविद्विषोः ॥ १५ ॥
1.17.15 · p. 78
अनुष्टुप्
अङ्गदः कपिभेदे स्यात् केयूरेऽङ्गदमिष्यते ।अङ्गदा याम्यदिग्दन्तिहस्तिन्यां समुदाहृता ॥ १६ ॥
1.17.16 · p. 79
अनुष्टुप्
वरदोऽपि प्रसन्ने स्याद्वरदः शान्तचेतसि ।वरदाऽपि च कन्यायामामोदो गन्धहर्षयोः ॥ १७ ॥
1.17.17 · p. 79
अनुष्टुप्
नर्मदः केलिसचिवे नर्मदा सरिदन्तरे ।क्षणदो गणके रात्रौ क्षणदा क्षणदञ्जले ॥ १८ ॥
1.17.18 · p. 79
अनुष्टुप्
कप. खण्डपरशोर्जटाजूटे वराटके ।आस्पदन्तु पदे कृत्ये निषादः श्वपचे स्वरे ॥ १९ ॥
1.17.19 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रसादोऽनुग्रहे काव्यगुणस्वाथ्यप्रसक्तिषु ।प्रसादः कथ्यते देवनरदेवनिवासयोः ॥ २० ॥
1.17.20 · p. 79
अनुष्टुप्
शारदः पीतमुद्गे स्याच्छालीने प्रतिभे नवे ।वर्षेऽथ जलपिप्पल्यां सप्तपर्णे च शारदि ॥ २१ ॥
1.17.21 · p. 79
अनुष्टुप्
दारदो विषभेदे स्याद्धिङ्गुले पारदेऽपि च ।तोयदन्तु घृते प्रोक्तं तोयदो मुस्तकाब्दयोः ॥ २२ ॥
1.17.22 · p. 79
अनुष्टुप्
निर्वादः स्यात् परीवादपरिनिष्ठितवादयोः ।अर्बुदो मांसकीले स्याद्दशकोटिषु चाऽर्बुदः ॥ २३ ॥
1.17.23 · p. 79
अनुष्टुप्
शैलेऽर्बुदोऽथ सम्भेदः स्फुटने सिन्धुसङ्गमे ।कुसीदं जीवने वृद्ध्या कुसीदश्च कुसीदिके ॥ २४ ॥
1.17.24 · p. 79
अनुष्टुप्
प्रणादस्तारशब्दे स्यात् प्रणादः श्रवणामये ।प्रमदः प्रमदे दैत्ये दायादे ज्ञातिपुत्रयोः ॥ २५ ॥
1.17.25 · p. 79
अनुष्टुप्
मेनादः केकिमार्ज्जारच्छागलेषु समीरितः ।गोविन्दो वासुदेवे स्याद्गवाध्यक्षे बृहस्पतौ ॥ २६ ॥
1.17.26 · p. 79
अनुष्टुप्
आक्रन्दो दारुणरणे मित्रे त्रातरि रोदने ।माकन्दः सहकारे स्यान्माकन्द्यामलकीफले ॥ २७ ॥
1.17.27 · p. 79
अनुष्टुप्
अर्द्धेन्दुश्चन्द्रशकले गलहस्तनखाङ्कयोः ॥
1.17.28 · p. 79
अर्द्धेन्दुः स्यादतिप्रौढे स्त्रीगुह्याङ्गुलियोजने ॥ २८ ॥
1.17.28 · p. 80
कर्णेन्दुरुत्क्षिप्तिकायां कर्णपाश्यामपीरिता ।स्यात् कौमुदः कार्त्तिकिके चन्द्रिकायाञ्च कौमुदी ॥ २९ ॥
1.17.29 · p. 80
अनुष्टुप्
कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ ।दैत्यान्तरे च दिङ्गागनागयोरपि कीर्त्तितः ॥ ३० ॥
1.17.30 · p. 80
अनुष्टुप्
कुमुदा कुम्भिगाम्भार्योः स्यात् कुमुत् कृपणेऽन्यवत् ।कुमुदेऽपि कुमुत् प्रोक्तं क्रव्यां मांसाशिरक्षसोः ॥ ३१ ॥
1.17.31 · p. 80
अनुष्टुप्
ककुद्वत् ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि ।मुकुन्दः पुण्डरीकाक्षे रत्नभेदे च पारदे ॥ ३२ ॥
1.17.32 · p. 80
अनुष्टुप्
दरत् प्रपातेऽद्रिभवे शरत् संवत्सरे ऋतौ ।दृषत् पेषणपट्टे स्याद् दृशत्पाषाणमात्रके ॥ ३३ ॥
1.17.33 · p. 80
अनुष्टुप्
सम्पद्भूतौ गुणोत्कर्षे हारभेदेऽपि दृश्यते ।भासत् प्रभास्वरे मासे तरत् कारण्डवे प्लवे ॥ ३४ ॥
1.17.34 · p. 80
अनुष्टुप्
संविज्ज्ञाने प्रतिज्ञायां सङ्केताचारनामसु ।सम्भाषणे तोषणेऽपि क्रियाकारे च सङ्गरे ॥ ३५ ॥
1.17.35 · p. 80
अनुष्टुप्
कामदा धेनुकायां स्याद्वाच्यवत् कामदोग्धरि ।सुनन्दा रोचनानार्योर्मर्यादाधारणे स्थिता ॥ ३६ ॥
1.17.36 · p. 80
अनुष्टुप्
एकपदं स्यात्तत्काले पदव्यामेकपद्यऽपि ।चतुष्पदं स्यात् स्वीकारे गवाश्वादिपशुष्वऽपि ॥ ३७ ॥
1.17.37 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क (wrong syllable)
भवेद्विष्णुपदाभिख्या क्षीरोदे गगनेऽम्बुजे ।प्रोक्ता विष्णुपदी गङ्गासंक्रान्तिद्वारकासु च ॥ ३८ ॥
1.17.38 · p. 80
अनुष्टुप्
भवेज्जनपदो देशे जने जानपदोऽपि च ।प्रियंवदः खेचरे स्यात् प्रियवाचिषु वाच्यवत् ॥ ३९ ॥
1.17.39 · p. 80
अनुष्टुप्
अपवादस्तु निन्दायामाज्ञाविश्रम्भयोरपि ॥
1.17.41 · p. 80
परिवादः कलङ्के स्याद्वीणावादनवस्तुनि ॥ ४० ॥
1.17.40 · p. 81
समर्यादः समीपे स्यान्मर्यादासहितेऽपि च ।पुटभेदो नदीवक्त्रे पतनातोद्ययोरपि ॥ ४१ ॥
1.17.41 · p. 81
अनुष्टुप्
अष्टापदं स्यात् कनके शारीणां फलकेऽपि च ।अष्टापदश्च शरभे चन्द्रमल्याञ्च मर्क्कटे ॥ ४२ ॥
1.17.42 · p. 81
अनुष्टुप्
मेघनादस्तु वरुणे रावणस्य सुतेऽपि च ।महानादः कुञ्जरे स्याद्वर्षुकाब्जे शयानके ॥ ४३ ॥
1.17.43 · p. 81
अनुष्टुप्
भवेत् कोकनदं रक्तकैरवे रक्तपङ्कजे ।विशारदो बुधे धृष्टेऽभिमर्द्दो रणमन्थयोः ॥ ४४ ॥
1.17.44 · p. 81
अनुष्टुप्
पीठमर्द्दोऽतिधृष्टे स्यान्नाट्योक्तौ नायकप्रिये ।मुचुकुन्दो द्रुभेदे स्यान्मुनिदैत्यविशेषयोः ॥ ४५ ॥
1.17.45 · p. 81
अनुष्टुप्
कुरुविन्दस्तु मुस्तायां कुल्माषव्रीहिभेदयोः ।हिङ्गुले पद्मरागे स्यान्मुकुरे च समीरितः ॥ ४६ ॥
1.17.46 · p. 81
अनुष्टुप्
अभिष्यन्दोऽतिवृद्धौ स्यादाश्रावेऽक्षिगदेऽपि च ।कटुकन्दं विदुः शिग्रौ शृङ्गवेररसोनयोः ॥ ४७ ॥
1.17.47 · p. 81
अनुष्टुप्
तमोनुदऽग्रीन्द्वर्केषु प्रतिपत्तिथिसंविदोः ।शतह्रदा भवेद्वज्रे सौदामिन्याञ्च कीर्त्तिता ॥ ४८ ॥
1.17.48 · p. 81
अनुष्टुप्
सहस्रपादः कारण्डे मार्तण्डे यज्ञपूरुषे ।भषेदुपनिषद्धर्म्पे वेदान्तेऽपि रहस्यऽपि ॥ ४९ ॥
1.17.49 · p. 81
अनुष्टुप्