कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · कान्तवर्गः (2/2)

पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च ।भस्मकं रोगभेदे स्याद्विड[ह]ङ्गकलधौतयोः ॥ १४० ॥
1.1.140 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 द्विड (syllable split)
तुम्वकः स्याद्बहुगुरुधूर्त्तायस्कान्तकामुके ।जम्बुकः श्वापदे नीचे प्रतीचीदिक्पतावपि ॥ १४१ ॥
1.1.141 · p. 13
अनुष्टुप्
कार्मुकं वंशधनुषोः कर्म्मशक्ते तु वाच्यवत् ।निर्म्मोको मोक्षके व्योम्नि सन्नाहे सर्पकञ्चुके ॥ १४२ ॥
1.1.142 · p. 14
अनुष्टुप्
रुडुक्को वाद्यभेदे स्याद्दात्यूहे मदमत्तके ।तुरुष्कः सिह्ल[?]के म्लेच्छजातौ श्रीवासके क्वचित् ॥ १४३ ॥
1.1.143 · p. 14
अनुष्टुप्
इक्ष्वाकुः कटुतुम्ब्याञ्च सूर्य्यवंशनृपेऽपि च ।कुण्ठाकुश्च दुराधर्षे दुःशीले च बिलेशये ॥ १४४ ॥
1.1.144 · p. 14
अनुष्टुप्
कुषाकुर्मर्कटे भानौ परोत्तापिनि पावके ।पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे ॥ १४५ ॥
1.1.145 · p. 14
अनुष्टुप्
सृदाकुरनिले वज्रे दावाग्नौ प्रतिसूर्य्यके ।गोरङ्कुः पक्षिजातौ च भवेन्नग्नकबन्दिनोः ॥ १४६ ॥
1.1.146 · p. 14
अनुष्टुप्
त्रिशङ्कुः शलभे राजविशेषे वृषदंशके ।पल्यङ्को मञ्चपर्य्यङ्कवृषीपर्य्यस्तिकासु च ॥ १४७ ॥
1.1.147 · p. 14
अनुष्टुप्
करङ्को मस्तके शस्यनारिकेलफलास्थिनि ।कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च ॥ १४८ ॥
1.1.148 · p. 14
अनुष्टुप्
भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते ।महालक्षणसम्पन्नपुरुषे कच्छपे हरे ॥ १४९ ॥
1.1.149 · p. 14
अनुष्टुप्
वृषाङ्कः शङ्करे साधौ भल्लातकमहोक्षयोः ।मृगाङ्को मारुते चन्द्रे स्तबकः शुभ्रगुच्छयोः ॥ १५० ॥
1.1.150 · p. 14
अनुष्टुप्
आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ ।पालङ्कः शल्लकीशाकभेदयोः प्राजिपक्षिणि ॥ १५१ ॥
1.1.151 · p. 14
अनुष्टुप्
अलर्को धवलार्के स्याद्योगोन्मादिनि कुक्कुरे ।उदर्क एष्यत्कालीये फले मदनकण्टके ॥ १५२ ॥
1.1.152 · p. 14
अनुष्टुप्
सम्पर्कः सरते पृक्तौ वितर्कः संशयोहयोः ।अम्बिका पार्वतीपाण्डुजनन्योरपि मातरि ॥ १५३ ॥
1.1.153 · p. 14
अनुष्टुप्
अन्धिका कैतवे मिश्रे सर्षप्यामपि कीर्त्यते ॥
1.1.135 · p. 14
अम्लिका तिन्त्रिडीकाम्लोद्गारचाङ्गेरिकासु च ॥ १५४ ॥
1.1.154 · p. 15
यूथिकाऽम्लानके पुष्पविशेषेऽपि च यूथिका ।राजिकापि च केदारे राजसर्षपरेखयोः ॥ १५५ ॥
1.1.155 · p. 15
अनुष्टुप्
रसिकापि रसालायां काञ्चीरसनयोरपि ।रुण्डिका द्वारपिण्ड्याञ्च दूतिकायां रणक्षितौ ॥ १५६ ॥
1.1.156 · p. 15
अनुष्टुप्
भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे ।कर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि ॥ १५७ ॥
1.1.157 · p. 15
अनुष्टुप्
क्रमुकादिच्छटांशे च कर्णिका कर्णभूषणे ।बीजकोशे सरोजस्य कुट्टन्यामपि कुत्रचित् ॥ ०१५८ ॥
1.1.0158 · p. 15
अनुष्टुप्
कर्णिका कथ्यतेऽत्यन्तं सूक्ष्मवस्त्वग्निमन्थयोः ।गणिका यूथिकावेश्यातर्कारीकरिणीषु च ॥ १५९ ॥
1.1.159 · p. 15
अनुष्टुप्
गणकोऽपि च दैवज्ञे कारिकानटयोषिति ।कृतौ विवरणश्लोके यातनायाञ्च कारिका ॥ १६० ॥
1.1.160 · p. 15
अनुष्टुप्
नापितादिकशिल्पेऽपि जालिका जालिनीफले ।भटानामश्मरचिताङ्गरक्षिण्याश्च जालिका ॥ १६१ ॥
1.1.161 · p. 15
अनुष्टुप्
गिरिसारे जलौकायामपि स्याद्विधवास्त्रियाम् ।जालिकः पुनरुद्दिष्टो ग्रामकूटे च धीवरे ॥ १६२ ॥
1.1.162 · p. 15
अनुष्टुप्
नीलिका नीलिनीक्षुद्ररोगशेफालिकास्वपि ।कालिका योगिनीभेदे कार्ष्ण्ये गौर्य्यां घनावलौ ॥ १६३ ॥
1.1.163 · p. 15
अनुष्टुप्
क्रमदेये वस्तुमूल्ये भूसरीनवमेघयोः ।पटोलशाखारोमालीमांसीकाकीषु कालिका ॥ १६४ ॥
1.1.164 · p. 15
अनुष्टुप्
तथा वृश्चिकपत्रेऽपि मालिका सरिदन्तरे ।ग्रैवेये पुष्पमालायां पक्षिमल्ले च मालिका ॥ १६५ ॥
1.1.165 · p. 15
अनुष्टुप्
बालिका वालुकाबालापिच्छोलाकर्णभूषणे ।तूलिका कथिता लेख्यकूर्च्चिकातूलशय्ययोः ॥ १६६ ॥
1.1.166 · p. 15
अनुष्टुप्
चूलिका नाटकस्याऽङ्गे कर्णमूले च दन्तिनाम् ।मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः ॥ १६७ ॥
1.1.167 · p. 16
अनुष्टुप्
मल्लिको हंसभेदे स्याज्झिल्लिका झिलिकापि च ।विलेपने मले झिल्ल्यामातपस्य रुचि स्मृता ॥ १६८ ॥
1.1.168 · p. 16
अनुष्टुप्
वालुका सिकतासु स्याद्वालुकन्त्वैलवालुके ।नग्निका तु कुमार्य्यां स्यादथ क्षपणव[ब]न्दिनोः ॥ १६९ ॥
1.1.169 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्षप (syllable split)
नग्नको धेनुकाधेनौ स्त्रीकरेण्वोः प्रसूतयोः ।रेणुकापि हरेणौ स्याज्जामदग्निस्त्रियामपि ॥ १७० ॥
1.1.170 · p. 16
अनुष्टुप्
जतुका जिनपत्रायां जतुकं हिङ्गुलाक्षयोः ।कूर्चिका सूचिकायाञ्च तूलिकायाञ्च कुड्मले ॥ १७१ ॥
1.1.171 · p. 16
अनुष्टुप्
कवाटकुट्टके क्षीरविकृतावपि कूर्चिका ।मातृका धात्रिकामात्रोर्मात्रिकं करणेऽम्बरे ॥ १७२ ॥
1.1.172 · p. 16
अनुष्टुप्
पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजेऽपि च ।स्यात् पुत्रिका पुत्तलिका दुहित्रोर्यावतूलिके ॥ १७३ ॥
1.1.173 · p. 16
अनुष्टुप्
पुत्रकः शरभे धूर्ते शैलवृक्षप्रभेदयोः ।उष्ट्रिका मृत्तिकाभाण्डभेदेऽपि करभस्त्रियाम् ॥ १७४ ॥
1.1.174 · p. 16
अनुष्टुप्
डिम्बिका जलनिम्बे स्यान्मोणके कामुकस्त्रियाम् ।कामिका नीलिकायाञ्च स्यमीको नाकुवृक्षयोः ॥ १७५ ॥
1.1.175 · p. 16
अनुष्टुप्
दूषिका तूलिकायाञ्च दूषिका नेत्रयोर्मले ।ऊर्म्मिका चाङ्गुलीये स्याद्वस्त्रभङ्गतरङ्गयोः ॥ १७६ ॥
1.1.176 · p. 16
अनुष्टुप्
तथोद्बाहुलकेऽपि स्यादूर्म्मिका मधुपध्वनौ ।स्याच्छलाकापि मदनशारिकाशल्ययोः शला ॥ १७७ ॥
1.1.177 · p. 16
अनुष्टुप्
छत्रपञ्जरकाष्ठ्याञ्च शल्लकी पशुवृक्षयोः ।नर्त्तकी[ ]लासिकायाञ्च करेण्वामपि नर्त्तकी ॥ १७८ ॥
1.1.178 · p. 16
अनुष्टुप्
नर्त्तकः केलके पोटगलचारणयोर्नटे ॥
1.1.161 · p. 16
चुलुकी शिशुमारेऽपि कुण्डीभेदे कुलान्तके ॥ १८० ॥
1.1.180 · p. 17
चतुष्की मशके हर्य्यां चतुष्की यष्टिकान्तरे ।
1.1.163 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
अलिमकः पिके भेके मधुके पद्मकेशरे ॥ १८१ ॥
1.1.181 · p. 17
अनुष्टुप्metre not read in every line
भवेदलिपको भृङ्गे कोकिले रथहिण्डके ।स्मृतः कुरवकः शोणाम्लानझिण्टीप्रभेदयोः ॥ १८२ ॥
1.1.182 · p. 17
अनुष्टुप्
भवेन्मरुवकः पुष्पविशेषे मदनद्रुमे ।बलाहको गिरौ मेघे दैत्यनागविशेषयोः ॥ १८३ ॥
1.1.183 · p. 17
अनुष्टुप्
भ्रमरको जले भृङ्गे गिरिजे चूर्णकुन्तले ।वराटकः स्थूलरज्जौ पद्मबीजे कपर्द्दके ॥ १८४ ॥
1.1.184 · p. 17
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे ।गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे ॥ १८५ ॥
1.1.185 · p. 17
अनुष्टुप्
आकल्पकस्तमोमोहग्रन्थीषूत्कलिकामुदोः ।आक्षेपकोऽनिलव्याधौ व्याधे निन्दाकरेऽपि च ॥ १८६ ॥
1.1.186 · p. 17
अनुष्टुप्
प्रचलाकः शराघाते दन्दशूके भुजङ्गमे ।वृन्दारकः सुरे श्रेष्ठे मनोज्ञे पुनरन्यवत् ॥ १८७ ॥
1.1.187 · p. 17
अनुष्टुप्
नियामकः कर्णधारे पोतवाहे नियन्तरि ।विनायकस्तु हेरम्बे तार्क्ष्ये विज्ञे जिने गुरौ ॥ १८८ ॥
1.1.188 · p. 17
अनुष्टुप्
निश्चारकः पुरीषस्य क्षये स्वैरे समीरणे ।भट्टारकः सुरे राज्ञि कथितश्च तपोधने ॥ १८९ ॥
1.1.189 · p. 17
अनुष्टुप्
दासेरकः स्यात् करभे दासीपुत्रे च धीवरे ।अङ्गारकं कुजे विद्यादुल्मुकांशे कुरुण्टके ॥ १९० ॥
1.1.190 · p. 17
अनुष्टुप्
अङ्गारिकेक्षुकाण्डे स्यात् कोरके किंशुकस्य च ।दलाढकस्तु कुन्दे स्यात् करिकर्णशिरीषयोः ॥ १९१ ॥
1.1.191 · p. 17
अनुष्टुप्
स्वयञ्जाततिले फेने खातके नागकेशरे ।वात्यायां प्रश्निकायाञ्च गैरिके च महत्तरे ॥ १९२ ॥
1.1.192 · p. 17
अनुष्टुप्
भवेत् पूर्णानकं पूर्णपात्रे पटहपात्रयोः ।प्रकीर्णकं ग्रन्थभेदे चामरे विस्तरे हये ॥ १९३ ॥
1.1.193 · p. 18
अनुष्टुप्
स्मृतः पुष्कलको गन्धमृगे क्षपणकीलयोः ।कोशातकः कचे ज्यौत्स्निपटोलीघोषकेषु तु ॥ १९४ ॥
1.1.194 · p. 18
अनुष्टुप्
कोशातकी वाणिजके वाडवाग्नौ वणिज्यपि ।निर्ग्रन्थकः स्यात् क्षपणे निष्फलेऽप्यपरिच्छदे ॥ १९५ ॥
1.1.195 · p. 18
अनुष्टुप्
स्यादश्मन्तकमुद्धाने मालुकाच्छदनेऽपि च ।कटिल्लकस्तु पर्णासे वर्षाभूकारवेल्लयोः ॥ १९६ ॥
1.1.196 · p. 18
अनुष्टुप्
कपर्दको वराटे स्याज्जटाजूटेऽपि धूर्ज्जटेः ।गोमेदकं पीतमणौ काकोले पत्रकेऽपि च ॥ १९७ ॥
1.1.197 · p. 18
अनुष्टुप्
मण्डोदकश्चित्ररागे भवेदातपर्णेऽपि च ।शतानीको मुनेर्भेदे वृद्धे चातखरालिकः ॥ १९८ ॥
1.1.198 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 प (wrong syllable)
ग्रामणीर्भाण्डभारावोपधानेषु प्रयुज्यते ।लेखनिको लेखहारे यः स्वहस्तं विलेखयेत् ॥ १९९ ॥
1.1.199 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)
लेखेषु परहस्तेन तत्राप्येष प्रदर्शितः ।भवेन्मण्डलकं वि[बि]म्बे कुष्ठभेदे च दर्पणे ॥ २०० ॥
1.1.200 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पिप्पलकं स्तनवृन्ते मतं सीवनसूत्रके ।पिण्डीतकः स्यात्तगरे मदनद्रौ फणिज्यके ॥ २०१ ॥
1.1.201 · p. 18
अनुष्टुप्metre not read in every line
त्रिवर्णकं गोक्षुरके त्रिफलायां कटुत्रिके ।शालावृकः शृगालेऽपि सारमेये बलीमुखे ॥ २०२ ॥
1.1.202 · p. 18
अनुष्टुप्
कौलेयकः कुलश्रेष्ठे स्यादिन्द्रमहकामुके ।सुप्रतीकः शोभनाङ्गे भवेदीशानदिग्गजे ॥ २०३ ॥
1.1.203 · p. 18
अनुष्टुप्
जैवातृकः कृशे चन्द्रे भैषज्यायुष्मतोरपि ।रतर्द्धिकं स्याद्दिवसे सुखस्नानेऽष्टमङ्गले ॥ २०४ ॥
1.1.204 · p. 18
अनुष्टुप्
वैनाशिकः स्यात् क्षणिके परतन्तोर्णनाभयोः ।वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च ॥ २०५ ॥
1.1.205 · p. 19
अनुष्टुप्
वितुन्नकन्तु धन्याके तथा झाण्टामलौषधौ ।गोकुणिकः केकरे स्यात् पङ्कस्थे गव्युपेक्षके ॥ २०६ ॥
1.1.206 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 णि (wrong syllable)
भार्याटिको भवेद्भार्यां निर्जिते हरिणान्तरे ।कापटिकोऽन्यमर्मज्ञे छात्रस्याकादशासिनि ॥ २०७ ॥
1.1.207 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 टि (wrong syllable)
कौक्कुटिको दाम्भिके स्याददूरप्रेरितेक्षणे ।लालाटिकः प्रभोर्भावदर्शिन्याश्लेषणान्तरे ॥ २०८ ॥
1.1.208 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 टि (wrong syllable)
कार्याक्षमेऽप्याकलितः शिलाटकः शिलाट्टयोः ।कर्कोटकः स्यान्मालूरकाद्रवेयप्रभेदयोः ॥ २०९ ॥
1.1.209 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
वरण्टकस्तु मातङ्गवैद्यां यौवनकण्टके ।संवर्त्तुलेऽप्याखनिकश्चौरे क्रोडे च मूषके ॥ २१० ॥
1.1.210 · p. 19
अनुष्टुप्
वैतालिको बोधकरे खेटितालेऽप्युदीरितः ।तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे ॥ २११ ॥
1.1.211 · p. 19
अनुष्टुप्
मयूरकोऽप्यपामार्गे तुच्छके तु मयूरकम् ।विशेषकः स्यात्तिलके विशेषावाहकेऽपि च ॥ २१२ ॥
1.1.212 · p. 19
अनुष्टुप्
विदूषकश्चाटुपटौ परनिन्दाकरेऽपि च ।भवेत् सैकतिकं मातृयात्रामङ्गलसूत्रयोः ॥ २१३ ॥
1.1.213 · p. 19
अनुष्टुप्
तथा सन्यस्तसन्देहजीवक्षेपणकेष्वपि ।एडमूकः स्मृतो[ ]धीरैः शठे वाक्श्रुतिवर्ज्जिते ॥ २१४ ॥
1.1.214 · p. 19
अनुष्टुप्
वर्त्तरूको नदीभेदे काकनीले जलावटे ।काकरूक उलूके स्यान्निःस्वे स्त्रीजितदम्भयोः ॥ २१५ ॥
1.1.215 · p. 19
अनुष्टुप्
दिगम्बरे भीरुके च दन्दशूकोऽहिरक्षसोः ।मुष्टेरुको वदान्येऽपि मिष्टाशिन्यतिथिद्विषि ॥ २१६ ॥
1.1.216 · p. 19
अनुष्टुप्
कृकवाकुर्मयूरेऽपि सरटे चरणायुधे ।राधरङ्कस्तु नासीरे शीकरे च घनोपले ॥ २१७ ॥
1.1.217 · p. 19
अनुष्टुप्
कलविङ्कः स्मृतो ग्रामचटकेऽपि कुलिङ्गके ।सौगन्धिकन्तु कह्लारे पद्मरागे च कत्तृणे ॥ २१८ ॥
1.1.218 · p. 20
अनुष्टुप्
गन्धोपले गान्धिकेऽपि सौगन्धिक इति ध्वनिः ।सोमवक्ल[ल्क]स्तु धवलखदिरे खट्फलेऽपि च ॥ २१९ ॥
1.1.219 · p. 20
metre not recognisednearly अनुष्टुप्
भयानकः स्मृतो व्याघ्रे सैंहिकेयेऽपि भीषणे ।पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे ॥ २२० ॥
1.1.220 · p. 20
अनुष्टुप्
कोशकारान्तरे व्याघ्रे पुण्डरीकोऽग्निदिग्गजे ।जर्ज्जरीकं बहुच्छिद्रे जर्ज्जरीको जरातुरे ॥ २२१ ॥
1.1.221 · p. 20
अनुष्टुप्
चर्च्चरीको महाकाले केशविन्यासशाकयोः ।तर्त्तरीकं वहित्रे स्यात्तर्त्तरीकश्च पारगे ॥ २२२ ॥
1.1.222 · p. 20
अनुष्टुप्
फर्फरीकश्च पेटे स्यात् फर्फरीकन्तु मार्द्दवे ।भवेदुत्कलिकोत्कण्ठाहेलासलिलवीचिषु ॥ २२३ ॥
1.1.223 · p. 20
अनुष्टुप्
शृगालिका शिवायां स्यात् त्रासादपि पलायने ।चण्डालिका किन्नरायामुमायामोषधीभिदि ॥ २२४ ॥
1.1.224 · p. 20
अनुष्टुप्
पाञ्चालिका भवेद्वस्त्रपुत्रिकागीतभेदयोः ।कनीनिका तारकेऽक्ष्णः स्यात् कनिष्ठाङ्गुलावपि ॥ २२५ ॥
1.1.225 · p. 20
अनुष्टुप्
भवेद्गुणनिका नृत्ये शून्याङ्के पाठनिश्चितौ ।सन्तानिकाऽपि क्षीरादिसारे मर्क्कटजालके ॥ २२६ ॥
1.1.226 · p. 20
अनुष्टुप्
सन्दंशिकाऽपि सुचुटीलोहयन्त्रविशेषयोः ।सङ्घाटिका तु युग्मे स्यात् कुट्टनीघ्राणयोरपि ॥ २२७ ॥
1.1.227 · p. 20
अनुष्टुप्
जीवन्तिकाऽपि जीवाख्यशाकवन्दीगुडूचिषु ।विद्याद्बृहन्तिकाऽभिख्यामूरुबस्त्रप्रभेदयोः ॥ २२८ ॥
1.1.228 · p. 20
अनुष्टुप्
वकेरुका बलाकाभिद्वातवेल्लितशाखयोः ।स्मृता घर्घरिका क्षुद्रघण्टिकाभ्रष्टधान्ययोः ॥ २२९ ॥
1.1.229 · p. 20
अनुष्टुप्
वाद्यप्रभेदवादित्रे दण्डयोरापगान्तरे ।
1.1.213 · p. 21
अनुष्टुप्
स्यादाऽच्छुरितकं हासनखाघातप्रभेदयोः ॥ २३० ॥
1.1.230 · p. 21
अनुष्टुप्
प्रतिसूर्य्यकमिच्छन्ति कृकलासोपसूर्य्ययोः ।अनेडमूकमिच्छन्ति वाक्यश्रुतिविवर्ज्जिते ॥ २३१ ॥
1.1.231 · p. 21
अनुष्टुप्
राजपटस्य काचस्य गुडके काचवर्त्तिकः ।गोजागरिकमित्याहुर्मङ्गले कण्टकारके ॥ २३२ ॥
1.1.232 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
स्यात्कृमिकण्टकञ्चित्राविड[ह]ङ्गोदुम्बरेषु च ।सुवसन्तक इत्येष वासन्त्यां मदनोत्सवे ॥ २३३ ॥
1.1.233 · p. 21
अनुष्टुप्metre not read in every line
कक्षावेक्षकमिच्छन्ति शुद्धान्तोद्यानपालयोः ।द्वारपाले कवौ षिङ्गे रङ्गाजीविन्यपि क्वचित् ॥ २३४ ॥
1.1.234 · p. 21
अनुष्टुप्
नागचारिक उद्दिष्टो राजकुञ्जरहस्तिपे ।गणस्थराजे गरुडे चित्रमेखलके क्वचित् ॥ २३५ ॥
1.1.235 · p. 21
अनुष्टुप्
स्याद्व्रीहिराजिकः कामलिकायां चीनधान्यके ।शीतचम्पकशब्दोऽयं स्यादातर्पणदीपयोः ॥ २३६ ॥
1.1.236 · p. 21
अनुष्टुप्
अन्धौ जलकरङ्कः स्यान्नालिकेरफलेऽम्बुदे ।शङ्खे जललतायाञ्च कथ्यते जलवापिका ॥ २३७ ॥
1.1.237 · p. 21
अनुष्टुप्
काकचीरादिशफरमत्स्ययोः कटखादकः ।खादके काचकलशे बलिपुष्टे च जम्बुके ॥ २३८ ॥
1.1.238 · p. 21
अनुष्टुप्
स्याच्चिलनीलिका कण्ठीभेदे खद्योतविद्रुतोः ।स्यान्नवफलिका नव्ये नवजातरजःस्त्रियाम् ॥ २३९ ॥
1.1.239 · p. 21
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable); pāda 3, syllable 3 व (wrong syllable)
स्याच्छतपर्विकादूर्वावचयोरुपकारिका ।विष्टभेदे गृहे राज्ञामुपकर्त्र्यामपीष्यते ॥ २४० ॥
1.1.240 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
स्याद्व्यवहारिका[ ]लोकयात्रा सम्मार्ज्जनीङ्गुदे ।स्याद्धेमपुष्पिका यूथ्यां चम्पके हेमपुष्पकः ॥ २४१ ॥
1.1.241 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
लूतामर्क्कटकः पुत्र्यां नवमाल्यां प्लवङ्गमे ।सिन्दूरतिलको नागे सिन्दूरतिलका स्त्रियाम् ॥ २४२ ॥
1.1.242 · p. 22
अनुष्टुप्
वर्णविलोडकः श्लोके छायाहारिणि कुम्भिले ।मातुलपुत्रको धूर्त्तफले स्यान्मातुलात्मजे ॥ २४३ ॥
1.1.243 · p. 22
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable); pāda 3, syllable 3 ल (wrong syllable)
ग्राममद्गुरिका शृङ्ग्यां ग्रामयुद्धे च कीर्त्त्यते ।स्यान्मदनशलाकाऽपि शार्य्या कामोदयोषधौ ॥ २४४ ॥
1.1.244 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)