कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · रान्तवर्गः (2/3)

चमरं चामरे प्राहुर्मञ्जरीमृगभेदयोः ।चमरी भ्रमरे भृङ्गे कामुकेऽपि मधूत्थवत् ॥ १२० ॥
1.26.120 · p. 135
अनुष्टुप्
रुधिरोऽङ्गारके प्रोक्तो रुधिरं कुङ्कुमासृजोः ।चन्दिरोऽनेकपे चन्द्रे मुदिरः कामुकेऽम्बुदे ॥ १२१ ॥
1.26.121 · p. 135
अनुष्टुप्
मिहिरो भास्करे वृद्धे मदिरः काममूर्खयोः ।विवरं दूषणे गर्त्ते कथितं छिद्ररन्ध्रवत् ॥ १२२ ॥
1.26.122 · p. 135
अनुष्टुप्
खपुरः क्रमुके भद्रे मुस्तकेऽलसकेऽपि च ।गोपुरन्तु पुरद्वारि द्वारमात्रे च मुस्तके ॥ १२३ ॥
1.26.123 · p. 135
अनुष्टुप्
चिकुरश्चञ्चले केशे गृहबभ्रुभुजङ्गयोः ।पक्षिद्रुभेदयोः शैले चङ्कुरो रथवृक्षयोः ॥ १२४ ॥
1.26.124 · p. 135
अनुष्टुप्
अङ्कुरो रुधिरे रोम्णि पानीयेऽभिनवोद्भिदि ।कुक्कुरो वक्रपुच्छे स्याद्ग्रन्थिपर्णेऽपि कुक्कुरे ॥ १२५ ॥
1.26.125 · p. 135
अनुष्टुप्
मुकुरो मल्लिकापुष्पे दर्पणे च कलिद्रुमे ।कुलालदण्डे वकुले मकुरोऽप्येषु विश्रुतः ॥ १२६ ॥
1.26.126 · p. 135
अनुष्टुप्
अजिरं प्राङ्गणे वाते विषये दर्दुरे तनौ ।अशिते राक्षसे वह्नावशिरस्तपनेऽपि च ॥ १२७ ॥
1.26.127 · p. 135
अनुष्टुप्
शिशिरः स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् ।वशिरं किणिहीसिन्धुलवणे कुम्भकेषु च ॥ १२८ ॥
1.26.128 · p. 135
अनुष्टुप्
सुषिरं विवरे वाद्ये सरन्ध्रे सुषिरोऽन्यवत् ।सुषिरोऽग्नौ च तिमिरं ध्वान्ते नेत्रामयेऽपि च ॥ १२९ ॥
1.26.129 · p. 135
अनुष्टुप्
छिदिरः पावके रज्जौ करवाले परश्वधे ।दन्तुरं वाच्यवद्विद्याद्विषमोन्नतदन्तयोः ॥ १३० ॥
1.26.130 · p. 135
अनुष्टुप्
विदुरो नागरे वीरे कौरवाणाञ्च मन्त्रिणि ।विधुरं स्यात् प्रविश्लेषे विधुरो विकलेऽन्यवत् ॥ १३१ ॥
1.26.131 · p. 135
अनुष्टुप्
विधुराऽपि रसालायां मधुरस्तु रसे विषे ।मधुरं रसवत् स्वादुप्रियेषु मधुरोऽन्यवत् ॥ १३२ ॥
1.26.132 · p. 136
अनुष्टुप्
मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः ।मधुकर्कटिकाभेदामधूलीयष्टिकासु च ॥ १३३ ॥
1.26.133 · p. 136
अनुष्टुप्
बन्धूरबन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः ।बन्धुके च विदुङ्गे च बन्धूरापण्ययोषिति ॥ १३४ ॥
1.26.134 · p. 136
अनुष्टुप्
बर्बरः पामरे केशविन्यासे नीवृदन्तरे ।बर्बरा फञ्जिकायान्तु बर्बराशाकपुष्पयोः ॥ १३५ ॥
1.26.135 · p. 136
अनुष्टुप्
कर्बुरं सलिले हेम्नि कर्बुरं पापरक्षसोः ।कर्बुरा पुष्पवृन्तायां किर्मीरे कर्बुराऽन्यवत् ॥ १३६ ॥
1.26.136 · p. 136
अनुष्टुप्
कर्परः स्यात् कपाले च शस्त्रभेदकटाहयोः ।कूर्परो जानुनि प्रोक्तः कफोणावपि कूर्परः ॥ १३७ ॥
1.26.137 · p. 136
अनुष्टुप्
खर्परः तस्करे पूर्वे भिक्षापात्रकपालयोः ।गर्गरो मीनभेदे स्यान्मन्थन्यामपि गर्गरी ॥ १३८ ॥
1.26.138 · p. 136
अनुष्टुप्
घर्घरस्तु चलद्वारिध्वानोलूकनदान्तरे ।निर्झरस्तु सहस्रांशु तुरङ्गे तुषपावके ॥ १३९ ॥
1.26.139 · p. 136
अनुष्टुप्
मुर्म्मुरस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि ।जर्जरो वाच्यवज्जीर्णे जर्जरं वासवध्वजे ॥ १४० ॥
1.26.140 · p. 136
अनुष्टुप्
निर्ज्जरस्तु जरात्यक्ते वाच्यवन्निर्ज्जरः सुरे ।निर्जरा तु गुडूच्यां स्यात्तालपत्र्यामपि क्वचित् ॥ १४१ ॥
1.26.141 · p. 136
अनुष्टुप्
जर्झरः स्यात् कलियुगे वाद्ये भाण्डे नदान्तरे ।दर्दुरस्तु गिरावीषद्भग्नवस्तुनि वाच्यवत् ॥ १४२ ॥
1.26.142 · p. 136
अनुष्टुप्
दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः ।दर्दुरा चण्डिकायाञ्च ग्रामजाले तु दर्दुरम् ॥ १४३ ॥
1.26.143 · p. 136
अनुष्टुप्
वार्द्दरं दक्षिणावर्त्तशृङ्गे कृमिजनीरयोः ।काकचिन्त्याश्वबीजेऽपि वाचि वार्द्दरमिष्यते ॥ १४४ ॥
1.26.144 · p. 136
अनुष्टुप्
दुर्धरं वाच्यवद्दुःखधार्य्ये स्याद्वृषभौषधे ।दुर्धरो निर्भरे सारे निर्भये निरपत्रपे ॥ १४५ ॥
1.26.145 · p. 137
अनुष्टुप्
कुञ्जरोऽनेकपे केशे घातक्यामपि कुञ्जरा ।पिञ्जरं कनके वाजिभेदे पीते च पिञ्जरः ॥ १४६ ॥
1.26.146 · p. 137
अनुष्टुप्
मन्दरो मन्थरे शैले स्वर्गमन्दारयोरपि ।मन्दरो बहले मन्दे कन्दरो विवरे कुशे ॥ १४७ ॥
1.26.147 · p. 137
अनुष्टुप्
मन्दिरं नगरेऽगारे मन्दिरो मकरालये ।वर्करस्तरुणे मेषे कर्क्करो दर्पणे दृढे ॥ १४८ ॥
1.26.148 · p. 137
अनुष्टुप्
कन्धरा वारिवाहे स्याद्ग्रीवायामपि कन्धरा ।वल्लरं शाद्वले प्रोक्तं निर्जलस्थानकुञ्जयोः ॥ १४९ ॥
1.26.149 · p. 137
अनुष्टुप्
वल्लक्षेत्रे च मञ्जर्य्यां वल्लरी तु प्रकीर्त्तिता ।मन्थरः सूचके कोठे मन्थाने चाऽथ मन्थरम् ॥ १५० ॥
1.26.150 · p. 137
अनुष्टुप्
कुसुम्भ्यां मन्थरो मन्दे पृथौ वक्रे च वाच्यवत् ।कच्चरं कुत्सिते तक्रे चत्वरं स्थण्डिलेऽङ्गने ॥ १५१ ॥
1.26.151 · p. 137
अनुष्टुप्
छित्वरं छेदनद्रव्ये छित्वरो धूर्त्तवैरिणोः ।इत्वरो दुर्विधे नीचे पथिककूरकर्म्पणोः ॥ १५२ ॥
1.26.152 · p. 137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः ।औषधद्वीपविहगतीर्थराजोरगान्तरे ॥ १५३ ॥
1.26.153 · p. 137
अनुष्टुप्
पुष्करं तूर्यवक्त्रे च काण्डे खड्गफलेऽपि च ।डिङ्गरो डङ्गरे क्षेपे सङ्गरोऽङ्गीकृतौ युधि ॥ १५४ ॥
1.26.154 · p. 137
अनुष्टुप्
विषापदोः क्रियाकारे सङ्गरन्तु शमीफले ।गह्वरस्तु गृहादम्भनिकुञ्जगहनेष्वपि ॥ १५५ ॥
1.26.155 · p. 137
अनुष्टुप्
कर्वरः कथितो व्याघ्रे शिवायामपि कर्वरी ।चतुरश्चातुरकवच्चक्रगण्डौ नियन्तरि ॥ १५६ ॥
1.26.156 · p. 137
अनुष्टुप्
एतौ स्यातामुभौ नेत्रगोचरे चाटुकारिणि ।ईश्वरो विभवैराढ्ये शम्भौ स्वामिनि मन्मथे ॥ १५७ ॥
1.26.157 · p. 138
अनुष्टुप्
पार्वत्यामीश्वरामाहुर्द्वापरः संशये युगे ।आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते ॥ १५८ ॥
1.26.158 · p. 138
अनुष्टुप्
भास्करस्तपने वह्नौ प्रभाकरसमः स्मृतः ।पार्परो भक्तसिक्थे स्यात् कीनाशे राजयक्ष्मणि ॥ १५९ ॥
1.26.159 · p. 138
अनुष्टुप्
जराटेऽपि कदम्बस्य केशरेऽपि च भस्मनि ।शार्वरन्त्वन्धतमसे शार्वरी धातुकेऽन्यवत् ॥ १६० ॥
1.26.160 · p. 138
अनुष्टुप्
प्रान्तरं विपिने दूरशून्यवर्त्मनि कोटरे ।शार्करो दुग्धफेणेऽपि शर्करान्वितदेशवत् ॥ १६१ ॥
1.26.161 · p. 138
अनुष्टुप्
शार्करो वृषभे छन्दोविशेषे शार्करं मतम् ।नागरं मुस्तके शुण्ठ्यां विदग्धे नागरोऽन्यवत् ॥ १६२ ॥
1.26.162 · p. 138
अनुष्टुप्
शंसन्ति नगरोद्भूते रतबन्धे च नागरम् ।वागरो वारके शाणे निर्झरे वाडवे वृके ॥ १६३ ॥
1.26.163 · p. 138
अनुष्टुप्
विशारदे मुमुक्षौ च गवामङ्के च वागरम् ।चामरं ग्रावमधुनोः पामरः स्वस्थनीचयोः ।वासरो दिवसे रागप्रभेदेऽपि च वासरः ॥ १६४ ॥
1.26.164 · p. 138
अनुष्टुप्
कान्तारमुपसर्गादौ वने दुर्गमवर्त्मनि ।इक्षुप्रभेदे कान्तारः पादारः पादधूलिषु ॥ १६५ ॥
1.26.165 · p. 138
अनुष्टुप्
पादलिङ्गे च मन्दारः पारिभद्रार्कपर्णयोः ।सुरद्रुमेऽपि गान्धारः सिन्दूरे रागदेशयोः ॥ १६६ ॥
1.26.166 · p. 138
अनुष्टुप्
आधारश्चाऽधिकरणेऽप्यालवालेऽम्बुधारणे ।आसारः स्यात् प्रसरणे वेगवर्षे सुहृद्बले ॥ १६७ ॥
1.26.167 · p. 138
अनुष्टुप्
केदारः पर्वते शम्भौ क्षेत्रभेदालवालयोः ।उदारो दातृमहतोर्दक्षिणेऽप्यभिधेयवत् ॥ १६८ ॥
1.26.168 · p. 138
अनुष्टुप्
मदारो द्विरदे धूर्त्ते विदारो दारणे रणे ।विदारी शालपर्ण्याञ्च रोगभेदे भगन्दरे ॥ १६९ ॥
1.26.169 · p. 139
अनुष्टुप्
विकारो विकृतौ रोगेऽप्याकारः संस्थिताङ्गयोः ।निकारः स्यात् परिभवे धान्यस्योत्किरणेऽपि च ॥ १७० ॥
1.26.170 · p. 139
अनुष्टुप्
प्रकारः सदृशे भेदे टङ्कारः षिञ्जिनीध्वनौ ।विस्मये च प्रसिद्धौ च दण्डारः शरयन्त्रके ॥ १७१ ॥
1.26.171 · p. 139
अनुष्टुप्
कुलालचक्रे वहने दण्डारो मत्तवारणे ।पिण्डारः क्षपणक्षेपे महिषीरक्षके द्रुमे ॥ १७२ ॥
1.26.172 · p. 139
अनुष्टुप्
तुषारो हिमभेदे च मकरेऽपि हिमेऽपि च ।शुनारस्तु शुनीस्तन्ये सर्पाण्डकलविङ्कयोः ॥ १७३ ॥
1.26.173 · p. 139
अनुष्टुप्
कुमारो बालके स्कन्दे युवराजेऽश्वचारके ।शुके च वरुणद्रौ च कुमारं जात्यकाञ्चने ॥ १७४ ॥
1.26.174 · p. 139
अनुष्टुप्
कुमारी रामतरणीनवमाल्योर्नदीभिदि ।कन्याऽपराजितागौरीजम्बूद्वीपेषु च स्मृता ॥ १७५ ॥
1.26.175 · p. 139
अनुष्टुप्
आहारो भोजने हारे भवेदाहरणेऽपि च ।विहारो भ्रमणे स्कन्धे लीलायां सुगतालये ॥ १७६ ॥
1.26.176 · p. 139
अनुष्टुप्
कुटारं मैथुने विद्यात् कुटारं केवलेऽपि च ।कोट्टारो नागरे कूपे पुष्करिण्याञ्च पाटके ॥ १७७ ॥
1.26.177 · p. 139
अनुष्टुप्
कडारः पिङ्गले दासे सम्भारः सम्भृतौ गणे ।केनारः कुम्भिनरके शिरःकपालसन्धिषु ॥ १७८ ॥
1.26.178 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
शङ्करोऽग्निचटत्कारे सम्मार्ज्जन्यवपुञ्जिते ।नरदूषितकन्यायां शङ्करा क्वाऽपि दृश्यते ॥ १७९ ॥
1.26.179 · p. 139
अनुष्टुप्
पङ्कारः शैवले सेतौ सोपाने जलकुब्जके ।संस्कारः प्रतियत्ने स्यात् सङ्कल्पेऽनुभवेऽपि च ॥ १८० ॥
1.26.180 · p. 139
अनुष्टुप्
शालारं स्याद्धस्तिनखे सोपाने पक्षिपञ्जरे ।कञ्जारो जठरे सूर्ये विरिञ्चौ वारणे मुनौ ॥ १८१ ॥
1.26.181 · p. 139
अनुष्टुप्
मार्जार ओतौ धट्वांशे भृङ्गारः कनकालुके ।भृङ्गारी झिल्लिकायां स्यादङ्गारोऽलातभौमयोः ॥ १८२ ॥
1.26.182 · p. 140
अनुष्टुप्
शृङ्गारः सुरते नाट्यरसेऽपि गजमण्डने ।शृङ्गारं चूर्णसिन्दूरलवङ्गकुसुमेषु च ॥ १८३ ॥
1.26.183 · p. 140
अनुष्टुप्
विस्तारो विस्तृतौ स्तम्ब उद्धारश्चोद्धृतावृणे ।माठरो द्विजभेदे स्याद्व्यासेऽर्कपारिपार्श्वके ॥ १८४ ॥
1.26.184 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्क (wrong syllable)
शावरः पठ्यते रोध्रे तथा पापापराधयोः ।शावरी शूकशिम्ब्याञ्च शारीरं देहजे वृषे ॥ १८५ ॥
1.26.185 · p. 140
अनुष्टुप्
करीरः कलत्रे वृक्षभेदे वंशाङ्कुरेऽपि च ।करीरी चीरिकायाञ्च दन्तमूले च दन्तिनाम् ॥ १८६ ॥
1.26.186 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (wrong syllable)
शणीरं शोणमध्यस्थपुलिने दर्द्दरीतटे ।जम्बीरं प्रस्थपुष्पाख्यशाके दन्तशठेऽपि ॥ १८७ ॥
1.26.187 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
औशीरमाहुश्चमरदण्डे च शयनासने ।सौवीरं बदरे स्तोत्राञ्जने देशे च काञ्जिके ॥ १८८ ॥
1.26.188 · p. 140
अनुष्टुप्
किर्मीरः कर्बुरे दैत्यराक्षसान्तरयोरपि ।काश्मीरं कुङ्कुमे प्रोक्तं टङ्कपुष्करमूलयोः ॥ १८९ ॥
1.26.189 · p. 140
अनुष्टुप्
पाटीरो वार्तिके रङ्गे मूलके तितउन्यपि ।धाराधरेऽपि केदारे वेणुसारेऽपि चेष्यते ॥ १९० ॥
1.26.190 · p. 140
अनुष्टुप्
अण्डीरः पुरुषे शक्ते हिण्डीरः पुरुषे स्मृतः ।फेणे वातिङ्गणे चापि धूसरः पाण्डुरे खरे ॥ १९१ ॥
1.26.191 · p. 140
अनुष्टुप्
कूबरः कुब्जके चारौ कूबरश्च युगन्धरे ।रूबरोऽश्मश्रुपुरुषे प्रौढाशृङ्गवृषेऽपि च ॥ १९२ ॥
1.26.192 · p. 140
अनुष्टुप्
स्यान्नीवरो वाणिजके वास्तव्येऽपि च नीवरः ।पीवरः कच्छपे स्थूले धीवरो लुब्धके बुधे ॥ १९३ ॥
1.26.193 · p. 140
अनुष्टुप्
केशरं हिङ्गुनि प्रोक्तं केशरो नागकेशरे ।सिंहच्छटायां पुन्नागकिञ्जल्कवकुलेष्वपि ॥ १९४ ॥
1.26.194 · p. 141
अनुष्टुप्
किशोरस्तरुणावस्थे हयशावकसूर्ययोः ।तैलायन्यां कुबेरस्तु नन्दीवृक्षे धनाधिपे ॥ १९५ ॥
1.26.195 · p. 141
अनुष्टुप्
कणेरुः स्याद्वशावेश्याकर्णिकारे गणेरुवत् ।कैटीरुः शक्रगोपे च शक्रे च नकुलेऽपि च ॥ १९६ ॥
1.26.196 · p. 141
अनुष्टुप्
अगुरुः स्याच्छिंशपायां जोङ्गकेऽपि लघुन्यपि ।किंशारुः सस्यशूकेऽपि विशिखे कङ्कपक्षिणि ॥ १९७ ॥
1.26.197 · p. 141
अनुष्टुप्
भार्यारुः शैलभेदे स्यान्मृगभेदे च तत्र च ।क्रीडायां परभार्यायां पुत्रो येनोपपादितः ॥ १९८ ॥
1.26.198 · p. 141
अनुष्टुप्
कुठारुः पादपे कीशे कटप्रूः स्यान्महानटे ।विद्याधरे रक्षसि च कटप्रूरक्षदेवने ॥ १९९ ॥
1.26.199 · p. 141
अनुष्टुप्
दासेरो दासिकापुत्रे दासेरः स्यात् क्रमेलके ।मयूरो बर्हिचूडायामपामार्गे शिखण्डिनि ॥ २०० ॥
1.26.200 · p. 141
अनुष्टुप्
खर्ज्जूरं रजते विद्यावृश्चिकद्रुमभेदयोः ।खर्ज्जूरश्चाऽथ कर्च्चूरं शटीकाञ्चनयोर्मतम् ॥ २०१ ॥
1.26.201 · p. 141
अनुष्टुप्
सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके ।सिन्दूरी रोचनीरक्तचेलिकाधातकीषु च ॥ २०२ ॥
1.26.202 · p. 141
अनुष्टुप्
वल्लूरं स्याद्वनक्षेत्रे वाहनोषरयोरपि ।वल्लूरमाहुः संशुष्कमांसशूकरमांसयोः ॥ २०३ ॥
1.26.203 · p. 141
अनुष्टुप्
एकाग्रमेकताने स्यादेकाग्रञ्चाप्यऽनाकुले ।नरेन्द्रो वार्त्तिके राज्ञि विषवैद्येऽपि कथ्यते ॥ २०४ ॥
1.26.204 · p. 141
अनुष्टुप्
महेन्द्रः पर्वते शक्रे जलेन्द्रो वरुणेऽम्बुधौ ।जम्भलेऽपि जलेन्द्रः स्यात् सामुद्रं देहलक्षणे ॥ २०५ ॥
1.26.205 · p. 141
अनुष्टुप्
सामुद्रञ्च समुद्रीयलवणादिषु भेद्यवत् ।खण्डाभ्रमभ्रलेशे स्यात् स्त्रीणां दन्तक्षतान्तरे ॥ २०६ ॥
1.26.206 · p. 141
अनुष्टुप्
कटित्रं रसनायां स्याच्चर्माङ्गे कटिवाससि ।शिलीन्ध्रं कदलीपुष्पे करकत्रिपुटाख्ययोः ॥ २०७ ॥
1.26.207 · p. 142
अनुष्टुप्
शिलीन्ध्रः कथितो धीरैस्तङ्गमीनप्रभेदयोः ।मृदा गण्डूपदी प्रोक्ता शिलीन्ध्री विहगीभिदि ॥ २०८ ॥
1.26.208 · p. 142
अनुष्टुप्
तमिस्रं तिमिरे कोपे तमिस्रा च तमस्ततौ ।कृष्णपक्षनिशायाञ्च त्वक्पत्रन्तु वराङ्गके ॥ २०९ ॥
1.26.209 · p. 142
अनुष्टुप्
त्वक्पत्रीति च कारव्यां कलत्रं श्रोणिभार्ययोः ।दुर्गस्थाने नृपादीनां पवित्रं वर्षणे कुशे ॥ २१० ॥
1.26.210 · p. 142
अनुष्टुप्
पवित्रं ताम्रपयसोर्मेध्ये चाऽपि तदन्यवत् ।सावित्रः शङ्करे प्रोक्तः सावित्री देवतान्तरे ॥ २११ ॥
1.26.211 · p. 142
अनुष्टुप्
दैत्यारिस्त्रिदशे विष्णौ तित्तिरिर्विहगे मुनौ ।शाङ्करिर्विघ्नहे स्कन्दे जैमुरिः पावके पवौ ॥ २१२ ॥
1.26.212 · p. 142
अनुष्टुप्
मन्दुरा वाजिशालायां समीपार्थे च वस्तुनि ।उर्वरा सर्वसस्याढ्यभूमौ स्यान्मूमिमात्रके ॥ २१३ ॥
1.26.213 · p. 142
अनुष्टुप्
असुरा रजनीवास्योरसुरो दानवे रवौ ।वासुरा वासितायां स्याद्वासितेय्यां मता भुवि ॥ २१४ ॥
1.26.214 · p. 142
अनुष्टुप्
मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति ।मसूरमसुरौ च द्वावेतावप्येतयोर्मतौ ॥ २१५ ॥
1.26.215 · p. 142
अनुष्टुप्
शर्करा खण्डविकृतावुपलाकर्परांशयोः ।शर्करान्वितदेशे च रुग्भेदे सकलेऽपि च ॥ २१६ ॥
1.26.216 · p. 142
अनुष्टुप्
कच्छुरा शूकशिम्ब्याञ्च शटीदुःस्पर्शयोरपि ।कच्छुरं वाच्यवत् प्राहुः पामरे पुंश्चलेऽपि च ॥ २१७ ॥
1.26.217 · p. 142
अनुष्टुप्
मर्मरा तु दरीभाण्डमुररानिकुलासु च ।गायत्री कथिता छन्दःप्रभेदे खदिरेऽपि च ॥ २१८ ॥
1.26.218 · p. 142
अनुष्टुप्
सैरिन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ।वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि ॥ २१९ ॥
1.26.219 · p. 143
अनुष्टुप्
खदिरी शाकभेदे स्यात् खदिरो दन्तधावने ।सुन्दरी स्त्रीतरुभिदोः शर्वरी रात्रियोषितोः ॥ २२० ॥
1.26.220 · p. 143
अनुष्टुप्
हरिद्रायाञ्च कवरी केशशाकविशेषयोः ।कवरं लवणेऽम्ले च तुम्बरी शरमर्द्दयोः ॥ २२१ ॥
1.26.221 · p. 143
अनुष्टुप्
मञ्जरी वल्लरीस्थूलमुक्तातिलकशाखिषु ।मर्म्मरी पीतदारौ स्याद्वस्त्रभेदे च मर्मरः ॥ २२२ ॥
1.26.222 · p. 143
अनुष्टुप्
टट्टरी स्यान्मृषावादे लम्पापटहवाद्ययोः ।शक्वरा मेखलानद्योश्छन्दोभेदेऽपि शक्वरी ॥ २२३ ॥
1.26.223 · p. 143
अनुष्टुप्
सल्लरी सिल्लरी च द्वे हुडुके चारचक्रके ।कावेरी स्यात् सरिद्भेदे पण्यनारीहरिद्रयोः ॥ २२४ ॥
1.26.224 · p. 143
अनुष्टुप्
भवेत् परिकरो व्राते पर्यङ्कपरिवारयोः ।प्रगाढगात्रिकाबन्धे विवेकारम्भयोरपि ॥ २२५ ॥
1.26.225 · p. 143
अनुष्टुप्
व्यतिकरः समाख्यातो व्यसनव्यतिषङ्गयोः ।विभाकरोऽग्नौ तपनेऽवस्करो गूथगुह्ययोः ॥ २२६ ॥
1.26.226 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
कर्म्मकरस्तु कीनाशे भृत्ये वेतनजीविनि ।कर्मकरी तु मूर्वायां बिम्बिकायमपि क्वचित् ॥ २२७ ॥
1.26.227 · p. 143
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable); pāda 3, syllable 3 क (wrong syllable)
अरुष्कारो व्रणकृति भल्लाते चाप्यरुष्करम् ।भवेत् सहचरो झिण्ट्यां वयस्यं प्रतिबिम्बके ॥ २२८ ॥
1.26.228 · p. 143
अनुष्टुप्
निशाचरः पेचकाहियातुधानेषु फेरवे ।निशाचरी पंसुलायां भवेत् पक्षचरो विधौ ॥ २२९ ॥
1.26.229 · p. 143
अनुष्टुप्
यूथभ्रष्टपृथक्चारी वारणेऽपि प्रकीर्त्तितः ।चराचरं स्याज्जगति वाच्यवज्जङ्गमेङ्गयोः ॥ २३० ॥
1.26.230 · p. 143
अनुष्टुप्
विदुर्दशपुरं देशे मुस्तायां पत्तनेऽपि च ।अभिमरो वधे युद्धे तथा स्वबलसाध्वसे ॥ २३१ ॥
1.26.231 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
आहुः प्रतिसरं हस्तसूत्रे माल्येऽपि मण्डने ।व्रणशुद्धौ चमूपृष्टे नियोज्यारक्षकङ्कणे ॥ २३२ ॥
1.26.232 · p. 144
अनुष्टुप्
मन्त्रभेदेऽप्यवसरो वर्षप्रस्तावयोरपि ।स्मृतः परिसरो मृत्यौ दैवोपान्त्यप्रदेशयोः ॥ २३३ ॥
1.26.233 · p. 144
अनुष्टुप्
दिगम्बरः स्यात् क्षपणे नग्ने तपसि शङ्करे ।पीताम्बरः पद्मनाभे भवेत् पीताम्बरो नटे ॥ २३४ ॥
1.26.234 · p. 144
अनुष्टुप्
कादम्बरन्तु दध्यग्रे मद्यभेदे च शीधुनि ।कादम्बरी परभृताभारतीशारिकासु च ॥ २३५ ॥
1.26.235 · p. 144
अनुष्टुप्
उदुम्बरस्तु देहल्यां वृक्षजातौ च पण्डके ।उदुम्बरं स्मृतं ताम्रे कुष्टभेदेऽप्युदुम्बरः ॥ २३६ ॥
1.26.236 · p. 144
अनुष्टुप्
औदुम्बरः श्राद्धदेवे रोगभेदे च कथ्यते ।नीलाम्बरः प्रलम्बघ्ने कौणपे क्रूरलोचने ॥ २३७ ॥
1.26.237 · p. 144
अनुष्टुप्
आडम्बरः समारम्भे गजगज्जिततूर्ययोः ।निषद्वरस्तु जम्बाले निशायाञ्च निषद्वरी ॥ २३८ ॥
1.26.238 · p. 144
अनुष्टुप्
उपह्वरं समीपे स्यादेकान्ते चाऽप्युपह्वरम् ।इन्दीवरं कुवलये वर्य्यामिन्दीवरी मता ॥ २३९ ॥
1.26.239 · p. 144
अनुष्टुप्