कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · कान्तवर्गः (1/2)

को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च ।पावके च मयूरे च सुखशीर्षजलेषु कम् ॥ २४ ॥
1.1.24 · p. 4
अनुष्टुप्
अकं पापे च दुःखे च शको राजन्यदेशयोः ।वकस्तु वकपुष्पे स्यात् कष्टे श्रीदे च रक्षसि ॥ २५ ॥
1.1.25 · p. 4
अनुष्टुप्
शुको व्याससुते कीरे रावणस्य च मन्त्रिणि ।ग्रन्थिपर्णे शिरीषे च शुकं स्याच्छोणके क्वचित् ॥ २६ ॥
1.1.26 · p. 4
अनुष्टुप्
द्विकः काके च कोके च सृको बाणानिलोत्पले ।अर्कोऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ ॥ २७ ॥
1.1.27 · p. 4
अनुष्टुप्
कर्कः कर्के राशिभेदे शुक्लाश्वे दर्पणे घटे ।तर्कः काङ्क्षावितर्कोहकर्मभेदेषु कीर्त्यते ॥ २८ ॥
1.1.28 · p. 4
अनुष्टुप्
श्लोको यशसि पद्ये च लोकस्तु भुवने जने ।स्तोकोऽल्पे चातके तोकमपत्यपुत्रयोरपि ॥ २९ ॥
1.1.29 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्य (wrong syllable)
कोकश्चक्रे वृके ज्येष्ठ्यां खर्ज्जूरीद्रुमभेकयोः ॥
1.1.7 · p. 4
रोको दीप्तौ विले रोकं नौकाक्रयणभेदयोः ॥ ३० ॥
1.1.30 · p. 5
बेको विदग्धे छेकश्च विश्वस्तमृगपक्षिणोः ।रेको विरेके शङ्कायां रेकः स्यादवमेऽपि च ॥ ३१ ॥
1.1.31 · p. 5
अनुष्टुप्
काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि ।शिरोबक्षालिने मानविशेषदीपभेदयोः ॥ ३२ ॥
1.1.32 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
काका स्यात् काकनासायां काकोलीकाकजङ्घयोः ।रक्ते कायां मलप्वाञ्च काकमाच्याञ्च कीर्त्तिता ॥ ३३ ॥
1.1.33 · p. 5
अनुष्टुप्
काकं स्त्रीरतरबन्धे स्यात् काकानामपि संहतौ ।पाकः शिशौ जरानिष्ठापचनक्लेदनेषु च ॥ ३४ ॥
1.1.34 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शाको द्वीपान्तरे शक्तौ नृपद्रुमविशेषयोः ।शाकं हरितके चापि नाकः स्वर्गान्तरिक्षयोः ॥ ३५ ॥
1.1.35 · p. 5
अनुष्टुप्
मूकोऽप्यवाङ्मतौ दीने शूकोऽनुक्रोशशृङ्गयोः ।भूकश्छिद्रे च काले च भेको मण्डूकमेघयोः ॥ ३६ ॥
1.1.36 · p. 5
अनुष्टुप्
एकन्तु केवलं श्रेष्ठ इतरस्मिंश्च वाच्यवत् ।शौकं शुकसमूहे च स्त्रीणाञ्च करणान्तरे ॥ ३७ ॥
1.1.37 · p. 5
अनुष्टुप्
अङ्कः स्थानेऽन्तिके मन्तौ रूपकोत्सङ्गलक्ष्मसु ।नाटिकादिपरिच्छेदे चित्रयुद्धे च भूषणे ॥ ३८ ॥
1.1.38 · p. 5
अनुष्टुप्
कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः ।वङ्कः पर्य्याणभागे स्यान्नदीपात्रे च भङ्गुरे ॥ ३९ ॥
1.1.39 · p. 5
अनुष्टुप्
टङ्कः कपित्थभेदे स्यान्मानान्तरखनित्रयोः ।कोपेऽसिकोशे जङ्घायां टङ्कणे ग्रावदारणे ॥ ४० ॥
1.1.40 · p. 5
अनुष्टुप्
रङ्कस्तु कृपणे मल्ले पङ्कः कर्द्दमपापयोः ।न्यङ्कुर्मृगे ऋषौ नाकुर्वामलूरे गिरौ मुनौ ॥ ४१ ॥
1.1.41 · p. 5
अनुष्टुप्
शङ्कुः कीले शिवेऽस्त्रे च संख्यायादप्रभेदयोः ।कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि ॥ ४२ ॥
1.1.42 · p. 5
अनुष्टुप्
वल्कन्तु वल्कले खण्डे शल्कं शकलवल्कयोः ।शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च ॥ ४३ ॥
1.1.43 · p. 6
अनुष्टुप्
निष्कमष्टाधिकस्वर्णशते दीनारकर्षयोः ।वक्षो[ष्को]ऽलङ्करणे हेमपात्रे हेमपलेऽपि च ॥ ४४ ॥
1.1.44 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मुष्कोऽण्डकोशे सङ्घाते मुष्को मोक्षे च पादपे ।किष्कुर्वितस्तौ हस्ते च प्रकोष्ठे कुत्सितेऽपि च ॥ ४५ ॥
1.1.45 · p. 6
अनुष्टुप्
त्रिकाकूपस्य नेमौ स्यात् त्रिकं पृष्ठाधरे त्रये ।लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च ॥ ४६ ॥
1.1.46 · p. 6
अनुष्टुप्
शङ्का त्रासे वितर्के च राका तु सरिदन्तरे ।कच्छूनवरजकन्यापूर्णेन्दुपूर्णिमासु च ॥ ४७ ॥
1.1.47 · p. 6
अनुष्टुप्metre not read in every line
कनकं चम्पके स्वर्णे किंशुके नागकेशरे ।धुत्तूरे काञ्चनारे च कालीयेऽपि क्वचिन्मतम् ॥ ४८ ॥
1.1.48 · p. 6
अनुष्टुप्
करकस्तु करङ्के स्याद्दाडिमे च कमण्डलौ ।पक्षिभेदे करे चापि करका च घनोपले ॥ ४९ ॥
1.1.49 · p. 6
अनुष्टुप्
नरको निरये दैत्ये सरकः सीधुभाजने ।अच्छिन्नाध्वगपङ्क्तौ च सीधुपाने च सीधुनि ॥ ५० ॥
1.1.50 · p. 6
अनुष्टुप्
खनकश्चित्ततत्त्वज्ञे सन्धिचौरे च मूषिके ।जनकः पितृराजर्ष्योर्युतकं संशये युगे ॥ ५१ ॥
1.1.51 · p. 6
अनुष्टुप्
यौतके चलनाग्रे च स्त्रीवस्त्राञ्चलयुक्तयोः ।कृषकः कषर्के फाले रजको धावके शुके ॥ ५२ ॥
1.1.52 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
मधुको वन्दिभेदे स्याज्ज्येष्ठ्याह्वे विहगान्तरे ।मधुकं मधुपर्ण्यां स्यादनुको निपुणाल्पयोः ॥ ५३ ॥
1.1.53 · p. 6
अनुष्टुप्
वसुकः शिवमल्ल्यां स्यादर्क्कपर्णे च रोमके ।शिशुकः शिशुमारे स्याद्बालकोलूपिनोरपि ॥ ५४ ॥
1.1.54 · p. 6
अनुष्टुप्
क्रमुकः पट्टिकालोध्रे भद्रे मुस्तकपूगयोः ।फले कार्पासिकायाश्च क्रमुको ब्रह्मदारुणि ॥ ५५ ॥
1.1.55 · p. 7
अनुष्टुप्
बहुकः कर्क्कटेऽर्के च दात्यूहे जलखातके ।धनिकः साधुघन्याकधवेषु धनिका स्त्रियाम् ॥ ५६ ॥
1.1.56 · p. 7
अनुष्टुप्
प्रियकः पीतशाले स्यान्नीपे चित्रमृगेऽलिनि ।कुङ्कुमे च प्रियङ्गौ च पृथुकश्चिपिटे शिशौ ॥ ५७ ॥
1.1.57 · p. 7
अनुष्टुप्
यमकं यमजे शब्दालङ्कारे संयमेऽपि च ।मशकः कथ्यते क्षुद्ररोगजन्तुविशेषयोः ॥ ५८ ॥
1.1.58 · p. 7
अनुष्टुप्
कुलकन्तु पटोले स्याच्छ्लोकसम्बन्धगुच्छके ।कुलकः स्यात् कुलश्रेष्ठे वल्मीके काकतिन्दुके ॥ ५९ ॥
1.1.59 · p. 7
अनुष्टुप्
तिलकं चित्रके प्राहुर्ललामे तिलकालके ।रोगविद्रुमभेदेषु लोम्नि सौवर्चलेऽपि च ॥ ६० ॥
1.1.60 · p. 7
अनुष्टुप्
कुलिको नागभेदे स्याद् द्रुभेदे कुलसत्तमे ।कुशिकः स्यान्मुनौ तैलशेषे सर्ज्जाक्षवृक्षयोः ॥ ६१ ॥
1.1.61 · p. 7
अनुष्टुप्
चषकन्तु सुरापात्रे मधुमद्यप्रभेदयोः ।चटकः कलविङ्के स्याच्चटका तत्स्त्र्यपत्ययोः ॥ ६२ ॥
1.1.62 · p. 7
अनुष्टुप्
कटकं वलये सानौ राजधानीनितम्बयोः ।सामुद्रलवणे दन्तमण्डले दन्तिनामपि ॥ ६३ ॥
1.1.63 · p. 7
अनुष्टुप्
कटुका कटुरोहिण्यां व्योषेऽपि कटुकं स्मृतम् ।चुलुकः प्रसुतौ भाण्डभेदे चुलुकवन्मतः ॥ ६४ ॥
1.1.64 · p. 7
अनुष्टुप्
पुलकः कृमिभेदे स्याद्गुच्छार्क्कमणिदोषयोः ।गजान्नपिण्डे रोमाञ्चे हरिताले शिलान्तरे ॥ ६५ ॥
1.1.65 · p. 7
अनुष्टुप्
रुचकं मङ्गलद्रव्ये ग्रीवाभरणदन्तयोः ।उत्कटे बीजपूरे च सौवर्चलविड[ह]ङ्गयोः ॥ ६६ ॥
1.1.66 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्चल (syllable split)
रोचनायाञ्च रुचकमश्वाभरणमाल्ययोः ॥
1.1.45 · p. 7
क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे ॥ ६७ ॥
1.1.67 · p. 8
कामुकः कमनेऽशोकपादपे चातिमुक्तके ।पातुकः पातयालौ स्यात् प्रपातजलहस्तिनोः ॥ ६८ ॥
1.1.68 · p. 8
अनुष्टुप्
आनकः पटहे भेर्य्यां मृदङ्गे स्वनदम्बुदे ।आढकं मानभेदे स्यात् तुवर्य्यामाढकी मता ॥ ६९ ॥
1.1.69 · p. 8
अनुष्टुप्
कारकः कर्त्तरि प्रोक्तः कर्म्मादावपि कारकम् ।चारकः पालकेऽश्वादेः स्यात् सञ्चारकवन्धयोः ॥ ७० ॥
1.1.70 · p. 8
अनुष्टुप्
तारकः कर्णधारे स्याद्दैत्ये च दृशि तारकम् ।कनीनिकाया नक्षत्रे तारकं तारकेति च ॥ ७१ ॥
1.1.71 · p. 8
अनुष्टुप्
वारकोऽश्वगतावश्वविशेषे च निषेधके ।जाहको घोङ्खमार्ज्जारखट्वाकारुण्डिकासु च ॥ ७२ ॥
1.1.72 · p. 8
अनुष्टुप्
पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके ।भल्लातके विडङ्गे च सायकः शरखड्गयोः ॥ ७३ ॥
1.1.73 · p. 8
अनुष्टुप्
नायको नेतरि श्रेष्ठे हारमध्यमणावपि ।प्राणकः सत्त्वजातीये जीवकद्रुमवेलयोः ॥ ७४ ॥
1.1.74 · p. 8
अनुष्टुप्
जालकं कोरके प्रोक्तं कुलाये जालिनीफले ।आनाये दम्भभेदे च वस्त्रभेदे च जालिका ॥ ७५ ॥
1.1.75 · p. 8
अनुष्टुप्
बालकोऽग्रे शिशौ केशे वाजिवारणवालधौ ।अङ्गुलीयकहीवेरपारिहार्य्येषु वालकम् ॥ ७६ ॥
1.1.76 · p. 8
अनुष्टुप्
वार्द्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्म्यणि ।मामकं ममतायुक्ते मातुले मामकः स्मृतः ॥ ७७ ॥
1.1.77 · p. 8
अनुष्टुप्
याजको याजिनि ख्यातो याजको राजकुञ्जरे ।ग्राहको घातविहगे व्यालानाञ्च ग्रहीतरि ॥ ७८ ॥
1.1.78 · p. 8
अनुष्टुप्
दारको भेदकेऽपत्ये रात्रकं पञ्चरा[त्र]के ।येन वेश्यागृहे नीतो वत्सरस्तत्र रात्रकः ॥ ७९ ॥
1.1.79 · p. 8
अनुष्टुप्
लासकोऽलसके लास्यकारिण्यपि मयूरके ।शार्ककः शर्करापिण्डे दुग्धफेने च शार्ककः ॥ ८० ॥
1.1.80 · p. 9
अनुष्टुप्
हारकः कितवे चौरे गद्यविज्ञानभेदयोः ।स्थासकाख्या च चार्च्चिक्ये जलादेरपि बुद्बुदे ॥ ८१ ॥
1.1.81 · p. 9
अनुष्टुप्
द्रावकस्तु शिलाभेदे विदग्धे मोषकेऽपि च ।भ्रामको जम्बुके धूर्ते सूर्यावर्ताश्मभेदयोः ॥ ८२ ॥
1.1.82 · p. 9
अनुष्टुप्
पिण्याकः सिह्लके हिङ्गौ तिलचूर्णेऽपि कुङ्कुमे ।पिनाको हरकोदण्डे पांशुवर्षत्रिशूलयोः ॥ ८३ ॥
1.1.83 · p. 9
अनुष्टुप्
कावृकः कृकवाकौ स्यापी[त्पी]तमुस्तककोकयोः ।क्षारकः पक्षिमत्स्यादिपिटके जालकेऽपि च ॥ ८४ ॥
1.1.84 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पाटकः स्यान्महाकिष्कौ कटकान्तरवाद्ययोः ।अक्षादिचालने मूलद्रव्योपचयवेधसोः ॥ ८५ ॥
1.1.85 · p. 9
अनुष्टुप्
{अत्रादर्शे एकाङ्कस्यानिर्देशात् त्रुटिः संभाव्यते । }वराकः सङ्गरे शोच्ये पराको व्रतखड्गयोः ।पुलाकस्तुच्छधान्ये स्यात् सङ्क्षेपे भक्तसिक्थके ॥ ८६ ॥
1.1.86 · p. 9
अनुष्टुप्metre not read in every line
विपाकः कीर्त्त्यते स्वादौ परिणामे च दुर्गतौ ।विपाकः पचने स्वेदेऽप्यसत्कर्म्मफलेऽपि च ॥ ८७ ॥
1.1.87 · p. 9
अनुष्टुप्
लम्पाको लम्पटे देशे शिम्फाकः शफमूर्खयोः ।सम्पाकस्तार्किके धृष्टे सम्पाकश्चतुरङ्गुले ॥ ८८ ॥
1.1.88 · p. 9
अनुष्टुप्
मोचकः कदलीशिग्रुनिर्म्मोचकविरागिषु ।पेचको गजलाङ्गूलमूलपर्य्यन्तघूकयोः ॥ ८९ ॥
1.1.89 · p. 9
अनुष्टुप्
मेचको बर्हिचन्द्रे स्यान्मेचकः श्यामलेऽपि च ।तिमिरे कृष्णवर्णे तु मेचकं वाच्यवद्भवेत् ॥ ९० ॥
1.1.90 · p. 9
अनुष्टुप्
सूचकः सीवनद्रव्ये बोधके वृषदंशके ।पिशुने शुनि काके च केचकः सेक्तृमेघयोः ॥ ९१ ॥
1.1.91 · p. 9
अनुष्टुप्
लोचको मांसपिण्डे स्यादक्ष्णि तारे च कङ्गुले ।ललाटाभरणे स्त्रीणां कदलीनीलवस्त्रयोः ॥ ९२ ॥
1.1.92 · p. 10
अनुष्टुप्
निर्बुद्धौ कर्णपूरे च मौर्व्यां भूश्लथचर्म्मणि ।मोदको हर्षके ज्ञेयः खाद्यभेदे च मोदकम् ॥ ९३ ॥
1.1.93 · p. 10
अनुष्टुप्
खोलकः पाकवल्मीकपूगकोषशिरस्त्रके ।गोलको विधवापुत्रे जाराच्च मणिके गुडे ॥ ९४ ॥
1.1.94 · p. 10
अनुष्टुप्
कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे ।उदपाने चितायाञ्च कूपिकाऽम्भोगतोपले ॥ ९५ ॥
1.1.95 · p. 10
अनुष्टुप्
कूलकः कृमिशैले च प्रतीरस्तूपयोरपि ।रूपकं नाटके धूर्ते काव्यालङ्करणे विदुः ॥ ९६ ॥
1.1.96 · p. 10
अनुष्टुप्
चूतकः कूपकेऽप्याम्रे सूतकं रसजन्मनोः ।लूनकः स्यात् पशौ भिन्ने शूचकः प्रावटे रसे ॥ ९७ ॥
1.1.97 · p. 10
अनुष्टुप्
कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे ।कीटकः कृमिभेदे स्यान्निष्ठुरे कीटकोऽन्यवत् ॥ ९८ ॥
1.1.98 · p. 10
अनुष्टुप्
जीवकः पीतशाले स्यात् क्षपणे वृद्धजीविनि ।सेविनि प्राणकेऽप्याहितुण्डिके पादपान्तरे ॥ ९९ ॥
1.1.99 · p. 10
अनुष्टुप्
आजीवे जीविकामाहुर्जीवन्त्यामपि कुत्रचित् ।दीपकं वागलङ्कारे दीपको दीप्तिकारके ॥ १०० ॥
1.1.100 · p. 10
अनुष्टुप्
चीरको धिक्क्रियालेरवे पतङ्ग्यां[?] चीरिका मता ।सेवकस्तु प्रसेवे स्यादनुजीविनि चान्यवत् ॥ १०१ ॥
1.1.101 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अशोको वञ्चुले माने द्रुमनिःशोकयोर्मतः ।अशोका कटुरोहिण्यामशोकं पादपे स्मृतम् ॥ १०२ ॥
1.1.102 · p. 10
अनुष्टुप्
आलोको दर्शने द्योते आलोको वन्दिभाषणे ।पेटकं पुस्तकादीनां मञ्जूषाणां कदम्बके ॥ १०३ ॥
1.1.103 · p. 10
अनुष्टुप्
हेरको बुद्धभेदे स्यान्महाकालगणेऽपि च ॥
1.1.83 · p. 10
धेनुकं करणे स्त्रीणां धेनूनामपि संहतौ ॥ १०४ ॥
1.1.104 · p. 11
विवेकः स्याज्जलद्रोण्यां विचारेऽपि रहस्यपि ।गैरिकं कनके धातौ प्रसेकः सेचने च्युतौ ॥ १०५ ॥
1.1.105 · p. 11
अनुष्टुप्
वैजिके शिग्रुतैले च हेतौ सद्योऽङ्कुरेऽपि च ।कोरकं कुड्मले विद्यात् कक्कोलकमृणालयोः ॥ १०६ ॥
1.1.106 · p. 11
अनुष्टुप्
कौतुकञ्चाभिलाषे स्यादुत्सवे नर्म्महर्षयोः ।परम्परासमायातमङ्गले च कुतूहले ॥ १०७ ॥
1.1.107 · p. 11
अनुष्टुप्
विवरे सूत्रगीतादिभोगकाब्दे च स्मृतम् ।कौशिको नकुले व्यालग्राहे गुग्गुलुशक्रयोः ॥ १०८ ॥
1.1.108 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विश्वामित्रे च कोशाग्र्योकृकयोरपि कौशिकः ।कौशिकी चण्डिकायाञ्च नदीभेदे च कौशिकी ॥ १०९ ॥
1.1.109 · p. 11
अनुष्टुप्
प्रतीकोऽवयवे प्रोक्तः प्रतिकूलविलोमयोः ।भूतीकमपि भूनिम्बदीप्यकर्पूरकत्तृणे[?] ॥ ११० ॥
1.1.110 · p. 11
अनुष्टुप्
अभीकः कामुके क्रूरे कवौ च भयवर्जिते ।वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः ॥ १११ ॥
1.1.111 · p. 11
अनुष्टुप्
अनीकन्तु प्रिये प्रोक्तं व्यलीको नागरे स्मृतः ।व्यलीकमप्रियाकार्य्ये वैलक्ष्येष्वपि पीडने ॥ ११२ ॥
1.1.112 · p. 11
अनुष्टुप्
नालीकं शरखण्डेऽब्जे नालीकः शरशल्ययोः ।अलीकमप्रिये प्रोक्तमलीकमनृतेऽपि च ॥ ११३ ॥
1.1.113 · p. 11
अनुष्टुप्
अनूकन्तु कुले शीलेऽप्यनूको गतजन्मनि ।उलूकः कुरविन्दे स्यात् पेचके जम्भभेदिनि ॥ ११४ ॥
1.1.114 · p. 11
अनुष्टुप्
शम्बूको गजकुम्भान्ते दैत्यभेदे च घोङ्गके ।बन्धूको बन्धुजीवे स्याद् बन्धूकः पीतशालके ॥ ११५ ॥
1.1.115 · p. 11
अनुष्टुप्
मण्डूकं बन्धुभेदेऽपि दर्दुरे शोणके विदुः ।मण्डूकपर्ण्यां मण्डूकी वर्णकश्चारणे स्मृतः ॥ ११६ ॥
1.1.116 · p. 11
अनुष्टुप्
विलेपने चन्दने च वर्णकं स्यादथार्भकः ।डिम्भे मूर्खे कृशे चूणे वर्तकोऽश्वखुरे खगे ॥ ११७ ॥
1.1.117 · p. 12
अनुष्टुप्
पुष्पकं प्रीतिकानेत्ररोगयो रत्नकङ्कणे ।कुबेरस्य विमाने च काशीशे च रसाञ्जने ॥ ११८ ॥
1.1.118 · p. 12
अनुष्टुप्
लोहे कांस्ये मृदङ्गारशकट्यामपि पुष्पकम् ।पूर्णकः स्वर्णचूडे स्यान्नासाच्छिन्न्यान्तु पूर्णिका ॥ ११९ ॥
1.1.119 · p. 12
अनुष्टुप्
दर्शकः स्यात् प्रतीहारे दर्शयितृप्रवीणयोः ।पद्मकं पद्मकाष्टेभविन्दुजालकयोरपि ॥ १२० ॥
1.1.120 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
दीप्यकञ्चाजमोदे स्याद्यवानीबर्हिचूडयोः ।सस्यकः स्यान्मणौ खड्गे नारिकेलस्य चान्तरे ॥ १२१ ॥
1.1.121 · p. 12
अनुष्टुप्
रक्तको म्लानबन्धूकरक्तवस्त्रानुरागिषु ।चित्रकः स्यात्तरुव्याघ्रभेदयोर्भेषजान्तरे ॥ १२२ ॥
1.1.122 · p. 12
अनुष्टुप्
वृश्चिकस्तु द्रुणे[?] राशौ शूककीटे तथौषधे ।अंशुकं सूक्ष्मवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ॥ १२३ ॥
1.1.123 · p. 12
अनुष्टुप्
अन्तिकं निकटे चुल्ल्यामन्तिका शीतलौषधे ।तथा ज्येष्ठभगिन्याञ्च नाट्योक्तौ कीर्त्त्यतेऽन्तिका ॥ १२४ ॥
1.1.124 · p. 12
अनुष्टुप्
स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः ।पिष्टकस्य विकारे च स्वस्तिको रजतालिके ॥ १२५ ॥
1.1.125 · p. 12
अनुष्टुप्
कञ्चुको वारबाणे स्यान्निर्म्मोके कवचेऽपि [च] ।वर्द्धापकगृहीताङ्गस्थितवस्त्रे च चोलके ॥ १२६ ॥
1.1.126 · p. 12
अनुष्टुप्
औषधौ कञ्चुकी चाथ वञ्चकः खलधूर्त्तयोः ।जम्बूके गृहबभ्रौ च गुह्यकश्छेकनिघ्नयोः ॥ १२७ ॥
1.1.127 · p. 12
अनुष्टुप्
बन्धक स्याद्विनिमये पुँश्चल्यां स्याच्च बन्धकी ।गान्धिकं लेखके प्राहुः सुगन्धिव्यवहारिणि ॥ १२८ ॥
1.1.128 · p. 12
अनुष्टुप्
ग्रन्थिकं पिप्पलीमूले ग्रन्थिकं गुग्गुलुद्रुमे ॥
1.1.109 · p. 12
माद्रेये च करीरे च दैवज्ञे च प्रकीर्त्तितम् ॥ १२९ ॥
1.1.129 · p. 13
बाह्लिको देशभेदेऽश्वे बाह्निकं धीरहिङ्गुनोः ।अनयोरपि वाहीको याज्ञिको याजके कुशे ॥ १३० ॥
1.1.130 · p. 13
अनुष्टुप्
वार्षिकं त्रायमाणे स्याद्वर्षाकालभवेऽन्यवत् ।खङ्गिको महिषीक्षीरे फेनसौनिकयोरपि ॥ १३१ ॥
1.1.131 · p. 13
अनुष्टुप्
आह्निकं दिननिर्वर्त्ये भोजने नित्यकर्मणि ।गुण्डको मलिने धूलौ कलोक्तिस्नेहपात्रयोः ॥ १३२ ॥
1.1.132 · p. 13
अनुष्टुप्
गण्डकः खड्गिनि ख्यातः सङ्ख्याविद्याप्रभेदयोः ।अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे ॥ १३३ ॥
1.1.133 · p. 13
अनुष्टुप्
तण्डकः खञ्जने फेने समासप्रायवाचि च ।गृहदारौ तरुस्कन्धमायाबहुलयोरपि ॥ १३४ ॥
1.1.134 · p. 13
अनुष्टुप्
कण्टकः क्षुद्रशत्रौ च कर्म्मस्थानकदोषयोः ।रोमाञ्चे च द्रुमाङ्गे च कण्टको मकरेऽपि च ॥ १३५ ॥
1.1.135 · p. 13
अनुष्टुप्
तक्षकः फणिभेदे च वर्द्धकिद्रुमभेदयोः ।पक्षकः पार्श्वमात्रे च पक्षद्वारे च पक्षकः ॥ १३६ ॥
1.1.136 · p. 13
अनुष्टुप्
शङ्खकं वलये कम्बौ शिरोरोगे च शङ्खकः ।नन्दको हरिरवड्गे स्याद्धर्षके कुलपालके ॥ १३७ ॥
1.1.137 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शीतकः शीतकाले च सुस्थिते दीर्घसूत्रिणि ।उष्णकस्तु निदाघे स्याद्दातुरे क्षिप्रकारिणि ॥ १३८ ॥
1.1.138 · p. 13
अनुष्टुप्
दुच्छको गन्धकुट्यां स्याद्विहाराभ्यवकाशयोः ।दुन्दुकः शोणके क्रूरे क्षुल्लकः स्वल्पनीचयोः ॥ १३९ ॥
1.1.139 · p. 13
अनुष्टुप्