All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · टान्तवर्गः
इति ञान्तवर्गः ॥
कटः श्रोणौ क्रियाकारे किलिञ्जेऽतिशये शवे ।समये गजगण्डे च पिप्पल्याश्च कटी मता ॥ १ ॥
1.10.1 · p. 36
अनुष्टुप्
खटोऽन्धकूपकफयोः प्रहारान्तरटङ्कयोः ।भटः पामरभेदे च वीरे च प्रगमे भटिः ॥ २ ॥
1.10.2 · p. 36
अनुष्टुप्
कुटः कोटे घटे गेहे शिलाकुट्टकपूरुषे ।स्याच्छुटी कुम्भदास्याञ्च सुरायाञ्चित्रमुस्तके ॥ ४ ॥
1.10.4 · p. 36
अनुष्टुप्
पटः प्रियालवृक्षे च सुचेले च पुरस्कृतौ ।पटः प्रमादवचनदोषयोरप्युदाहृतः ॥ ५ ॥
1.10.5 · p. 36
अनुष्टुप्
वटो गोले गुले भक्ष्ये वटो साम्यवराटयोः ।वटः कपर्द्दे न्यग्रोधे शुम्बरक्तिकयोर्वटी ॥ ६ ॥
1.10.6 · p. 36
अनुष्टुप्
विटोऽद्रौ लवणे षिङ्गे मूषके खदिरेऽपि च ।स्फुटो व्यक्ते प्रफुल्ले च व्याप्ते च कलितेऽन्यवत् ॥ ७ ॥
1.10.7 · p. 36
अनुष्टुप्
निर्भिन्नकर्क्कटीसस्ये पादस्फोटे स्फुटिर्मता ।कूटं यन्त्रेऽनृते राशौ निश्चले लोहमुद्गरे ॥ ८ ॥
1.10.8 · p. 36
अनुष्टुप्
मायाद्रिशृङ्गयोस्तुच्छे सीरावयवदम्भयोः ।पुरद्वारे च शंसन्ति लाटो देशेंऽशुकेऽपि च ॥ ९ ॥
1.10.9 · p. 36
अनुष्टुप्
झाटो निकुञ्जे कान्तारे व्रणसम्मार्ज्जनेऽपि च ।वटो वृतौ च मार्गेऽपि वाटी तु गृहनिष्कुटे ॥ १० ॥
1.10.10 · p. 36
अनुष्टुप्
चटुश्चाटौ पिचण्डे च व्रतिनामासनान्तरे ।कटुः सुगन्धे तीक्ष्णे स्यादकार्ये मक्षरे रसे ॥ ११ ॥
1.10.11 · p. 36
अनुष्टुप्
कटुः प्रियङ्गुकटुका राजिकास्वथ दूषणे ।कटु प्रोक्तं पटुस्तीक्ष्णे नीरोगे चतुरेऽन्यवत् ॥ १२ ॥
1.10.12 · p. 36
अनुष्टुप्
पटुः पटोलपत्रेऽपि छत्रालवणयोः पटुः ।खेटः कफे ग्रामभेदे निन्दिते वसुनन्दके ॥ १३ ॥
1.10.13 · p. 37
अनुष्टुप्
अट्टं भक्ते च शुष्के च क्षौमेऽत्यर्थे गृहान्तरे ।पट्टः पेषणपाषाणे व्रणादीनाञ्च वन्धने ॥ १४ ॥
1.10.14 · p. 37
अनुष्टुप्
चतुष्पथे च राजादिशासनान्तरपीठयोः ।पट्टी ललाटभूषायां पट्टी लाक्षाप्रसाधने ॥ १५ ॥
1.10.15 · p. 37
अनुष्टुप्
क्रुष्टञ्च रोदने रावे कष्टं गहनकृच्छयोः ।इष्टमाशंसिते पूज्यतमे प्रियतमेऽन्यवत् ॥ १६ ॥
1.10.16 · p. 37
अनुष्टुप्
इष्टं संस्कारयोगे च यागे च क्रतुकर्मणि ।रिष्टं क्षेमाशुभाभावकृपाणेषु प्रचक्ष्यते ॥ १७ ॥
1.10.17 · p. 37
अनुष्टुप्
म्लिष्टमव्यक्तवाचि स्यान्म्लिष्टं म्लानेऽन्यवन्मतम् ।दिष्टं दैवे च काले स्याद्दिष्टः सृष्टं तु निर्मिते ॥ १८ ॥
1.10.18 · p. 37
अनुष्टुप्
युक्तनिश्चितयोः प्राज्ये हृष्टो हृषितवन्मतः ।रोमाञ्चिते प्रहसिते जातदर्पे च विस्मिते ॥ १९ ॥
1.10.19 · p. 37
अनुष्टुप्
व्युष्टं दिने प्रभाते च फले पर्युषितेऽपि च ।त्वष्टा शिल्पिनि देवानां तथा वर्द्धकिसूर्ययोः ॥ २० ॥
1.10.20 · p. 37
अनुष्टुप्
इष्टिः स्यादभिलाषेऽपि सङ्ग्रहश्लोकयागयोः ।विष्टिः कर्मकरे भद्रे प्रेषणे वेतनेऽपि च ॥ २१ ॥
1.10.21 · p. 37
अनुष्टुप्
दिष्टिः परीमाणमुदोर्दृष्टिर्विदर्शनाक्षिषु ।रिष्टिः खड्गे समृद्धौ च कृष्टिः स्यात् कर्षणे बुधे ॥ २२ ॥
1.10.22 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्वि (wrong syllable)
सृष्टिः स्वभावे निर्माणे पुष्टिर्वृद्धौ च पोषणे ।यष्टिर्हारलताशस्त्रभेदयोर्ध्वजदण्डके ॥ २३ ॥
1.10.23 · p. 37
अनुष्टुप्
भाण्ड्याञ्च मधुयष्ट्याञ्च मुष्टिर्बद्धकरे पले ।व्युष्टिः स्याद्घर्षणे विष्णुक्रान्तास्पर्द्धाकिरिष्वपि ॥ २४ ॥
1.10.24 · p. 37
अनुष्टुप्
जटालग्नकचे मूले प्लक्षमाक्षिकयोर्जटी ॥
1.10.25 · p. 37
सटा जटाकेशरयोः फटा च फणदम्भयोः ॥ २५ ॥
1.10.25 · p. 38
घोण्टा स्याद्बदरे पूगे घटीखण्डे च वाससः ।परीक्षार्थतुलायाञ्च घटः सूरिभिरिष्यते ॥ २६ ॥
1.10.26 · p. 38
अनुष्टुप्
पटिः पटविशेषेऽपि द्वाशुले कुष्टिकाद्रुमे ।स्यात् कोटिरश्रौ चापाग्रे सङ्ख्याभेदप्रकर्षयोः ॥ २७ ॥
1.10.27 · p. 38
अनुष्टुप्
स्यात् त्रुटिः संशये लेशे सूक्ष्मैलाकालमानयोः ।त्रोटिः स्यात् कट्फले चञ्च्वां खगमीनविशेषयोः ॥ २८ ॥
1.10.28 · p. 38
अनुष्टुप्
खाटिः किणे शवरथे खाटिरेकग्रहे स्मृता ।नटी हट्टविलासिन्यां शोणके नर्त्तके नटः ॥ २९ ॥
1.10.29 · p. 38
अनुष्टुप्
अवटः स्यात् खिले गर्ते कूपे कुहकजीविनि ।विकटः सुन्दरे प्रोक्तो विशालविकरालयोः ॥ ३० ॥
1.10.30 · p. 38
अनुष्टुप्
करटो गजगण्डे स्यात् कुसुम्भे निन्दजीविनि ।एकादशाहसार्द्धेऽपि दुर्दुरूढेऽपि वायसे ॥ ३१ ॥
1.10.31 · p. 38
अनुष्टुप्
करटो वाद्यभेदेऽपि निर्द्दटो निर्द्दये स्मृतः ।परापवादसंरक्ते निर्द्दटो निष्प्रयोजने ॥ ३२ ॥
1.10.32 · p. 38
अनुष्टुप्
चिपिटः खाद्यभेदेऽपि चिपिटो विस्तृतेऽन्यवत् ।जकुटो यमले ख्यातो वार्त्ताककुसुमे शुनि ॥ ३३ ॥
1.10.33 · p. 38
अनुष्टुप्
निष्कुटस्तु गृहोद्याने केदारककपाटयोः ।हर्म्मुटः कच्छपे सूर्येऽप्युत्कटस्तीव्रमत्तयोः ॥ ३४ ॥
1.10.34 · p. 38
अनुष्टुप्
चर्पटः स्फारविपुलचपेटे पर्पटेऽपि च ।पर्पटः पिष्टविकृतौ पर्पटो भेषजान्तरे ॥ ३५ ॥
1.10.35 · p. 38
अनुष्टुप्
पिच्चटो नेत्ररोगे स्यात् पिच्चटं त्रपुसीसयोः ।सम्पाटं शिक्यभेदेऽपि धौताञ्जन्यामपि स्मृतम् ॥ ३६ ॥
1.10.36 · p. 38
अनुष्टुप्
कर्द्दटः करहाटे स्यात् पङ्कपङ्कारयोरपि ॥
1.10.38 · p. 38
कृपीटमुदरे[ ]नीरे कार्पटो जतुकार्यिणोः ॥ ३७ ॥
1.10.37 · p. 39
कुक्कुटस्ताम्रचूडे स्यात् कुक्कुभेऽग्निकणेऽपि च ।निषादशूद्रयोः पुत्रे तालमध्ये तु कुक्कुटम् ॥ ३८ ॥
1.10.38 · p. 39
अनुष्टुप्
रसो नस्यप्रभेदे स्यादुच्चटा दम्भचर्च्चयोः ।केकटः श्रोणके विष्णावऽर्गटोऽन्तर्गले गले ॥ ३९ ॥
1.10.39 · p. 39
अनुष्टुप्
कर्कटः करणे स्त्रीणां राशिभेदे कुलीरयोः ।शाल्मलीफलवालुक्योः कर्क्कटी कर्कटः खगे ॥ ४० ॥
1.10.40 · p. 39
अनुष्टुप्
कीकटस्तुरगे निःस्वे देशभेदे मितम्पचे ।मोचाटः कृष्णजीरे स्याद्रम्भास्थ्नि मलयोद्भवे ॥ ४१ ॥
1.10.41 · p. 39
अनुष्टुप्
चक्राटो विषवैद्येऽपि धूर्त्तदीनारयोरपि ।वर्णाटो गायने चित्रकारे स्त्रीकृतजीविनि ॥ ४२ ॥
1.10.42 · p. 39
अनुष्टुप्
भावाटो भावके साधुनिवेशे कामुकेऽपि च ।शैलाटो देवले सिंहे शुक्लकाचकिरातयोः ॥ ४३ ॥
1.10.43 · p. 39
अनुष्टुप्
द्वोहाटः कयितो गाथाप्रभेदे मृगलुब्धके ।वैडालवृत्तिकेऽपि स्याद्धाराटश्चातकाश्वयोः ॥ ४४ ॥
1.10.44 · p. 39
अनुष्टुप्
मोरटस्तु भवेदिक्षुमूलाङ्कोटप्रसूनयोः ।सप्तरात्रात् परे क्षीरे मूर्विकायान्तु मोरटा ॥ ४५ ॥
1.10.45 · p. 39
अनुष्टुप्
वेकटः स्याद्वैकटिके तथा सञ्जातयौवने ।वेरटो मिश्रिते नीचे वेरटं बदरीफले ॥ ४६ ॥
1.10.46 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वै (wrong syllable)
त्रिकूटं सिन्धुलवणे त्रिकूटश्च सुवेलके ।भाकूटः कथ्यते मीनभेदे शैलान्तरेऽपि च ॥ ४७ ॥
1.10.47 · p. 39
अनुष्टुप्
अरिष्टः फेनिले निम्बे लशुने काककङ्कयोः ।अरिष्टं सूतिकागारे तक्रे चिह्ने शुभाशुभे ॥ ४८ ॥
1.10.48 · p. 39
अनुष्टुप्
संसृष्टं तद्गते विद्यात् संशुद्धे वसनादिना ।अवटुः कथितो घाटा कूपगर्त्तेषु सूरिभिः ॥ ४९ ॥
1.10.49 · p. 39
अनुष्टुप्
परीष्टिः परिचर्यायां प्राक्राम्येऽपि गवेषणे ।वरटा हंसयोषायां गन्धोल्यां वरटाऽपि च ॥ ५० ॥
1.10.50 · p. 40
अनुष्टुप्
त्रिपुटा मल्लिकायाञ्च सूक्ष्मैलात्रिवृतोरपि ।सतीलके च तीरे च त्रिपुटः समुदाहृतः ॥ ५१ ॥
1.10.51 · p. 40
अनुष्टुप्
बर्वटी व्रीहिभेदे स्याद्रघटीपण्ययोरपि ।पर्क्कटी नूतनफले पूगादेः प्लक्षपादपे ॥ ५२ ॥
1.10.52 · p. 40
अनुष्टुप्
मर्कटी वानरीशूकशिम्ब्योः स्यात् करजान्तरे ।मर्क्कटस्तूर्णनाभेऽपि कपौ स्त्रीकरणेऽपि च ॥ ५३ ॥
1.10.53 · p. 40
अनुष्टुप्
कुरुण्टी दारुपुत्र्याञ्च कुरुण्टो झिण्टिकान्तरे ।चिरण्टी तु सुवासिन्यां स्याद्द्वितीयवयःस्त्रियाम् ॥ ५४ ॥
1.10.54 · p. 40
अनुष्टुप्
श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः ।उच्चिङ्गटो मीनभेदे तथा कोपनपूरुषे ॥ ५५ ॥
1.10.55 · p. 40
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
कुटन्नटस्तु शोणाके कैवर्त्तौ मुस्तकेऽपि च ।स्यात् खञ्जरीटः फलकासिधाराव्रतचारिणोः ॥ ५६ ॥
1.10.56 · p. 40
अनुष्टुप्
कुण्डकीटस्तु चार्वाकवचनाभिज्ञपूरुषे ।जारजब्राह्मणीपुत्रदासीकामुकयोरपि ॥ ५७ ॥
1.10.57 · p. 40
अनुष्टुप्
नारकीटोऽश्मकूटे स्यात् स्वदत्ताश्मविहन्तरि ।कार्यकूटस्तु कृपणोन्मत्तानर्थकरेष्वपि ॥ ५८ ॥
1.10.58 · p. 40
अनुष्टुप्
कामकूटस्तु वेश्यायाः प्रियविभ्रमयोर्मतः ।चक्रवाटः क्रियारोहे पर्यन्ते च शिखातरौ ॥ ५९ ॥
1.10.59 · p. 40
अनुष्टुप्
वर्कराटः कटाक्षे स्यात् तरुणादित्यरोचिषि ।स्त्रीणां पयोधरोत्सङ्गकान्तदत्तनखेऽपि च ॥ ६० ॥
1.10.60 · p. 40
अनुष्टुप्
करहाटोऽब्जकन्दे स्यात् पुष्पवृक्षप्रभेदयोः ।परपुष्टः परभृते परपुष्टाऽऽपणस्त्रियाम् ॥ ६१ ॥
1.10.61 · p. 40
अनुष्टुप्
प्रतिकृष्टं मतं गुह्ये द्विरावृत्त्या च कर्षिते ।प्रतिकृष्टः प्रेषिते स्यात् प्रत्याख्याते च वाच्यवत् ॥ ६२ ॥
1.10.62 · p. 41
अनुष्टुप्
शिपिविष्टस्तु खलतौ शिवे दुश्चर्मणि स्मृतः ।चतुःषष्टिर्बह्वृचेऽपि चतुःषष्टिकलास्वपि ॥ ६३ ॥
1.10.63 · p. 41
अनुष्टुप्