All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · रान्तवर्गः (1/3)
इति यान्तवर्गः ॥
रः पावके च तीक्ष्णे च राः स्मृतः स्वर्णवित्तयोः ।स्रुः स्रवे निर्ज्झरे चाऽपि द्रूः स्वर्णे कामरूपिणि ॥ १ ॥
1.26.1 · p. 125
अनुष्टुप्
श्रीर्वेशरचनाशोभाभारतीसरलद्रवे ।लक्ष्म्यां त्रिवर्गसम्पत्तौ वेशोपकरणे मता ॥ २ ॥
1.26.2 · p. 125
अनुष्टुप्
अरं शीघ्रे च च चक्राङ्गे शीघ्रगे पुनरन्यवत ।करो वर्षोपले पाणौ शुण्डाप्रत्ययरश्मिषु ॥ ३ ॥
1.26.3 · p. 125
अनुष्टुप्metre not read in every line
खरः स्याद्गर्दभे देवताडे तीक्ष्णाग्रकेऽपि च ।गरो व्याधावुपविषे विषे च करणे गरम् ॥ ४ ॥
1.26.4 · p. 125
अनुष्टुप्
वरो द्यूतप्रभेदे स्याच्चारजङ्गमयोश्चले ।नरं तु रामकर्पूरे नरोऽजे मानवेऽर्ज्जुने ॥ ५ ॥
1.26.5 · p. 125
अनुष्टुप्
परः स्यादुत्तमानात्मवैरिदूरेषु केवले ।परमव्ययमिच्छन्ति भरोऽतिशयभारयोः ॥ ६ ॥
1.26.6 · p. 125
अनुष्टुप्
वरोऽभीष्टे देवतादेर्वरो जामातृषिङ्गयोः ।श्रेष्ठेऽन्यवत् परिवृतौ वरं काश्मीरजे मतम् ॥ ७ ॥
1.26.7 · p. 125
अनुष्टुप्
त्रिफलायां वरा प्रोक्ता शतावर्य्यां वरी वरम् ।अव्ययन्तु मनागिष्टे सरो दध्यग्रबाणयोः ॥ ८ ॥
1.26.8 · p. 125
अनुष्टुप्
स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ ।उदात्तादिष्वपि प्रोक्तः स्वरो नासासमीरणे ॥ ९ ॥
1.26.9 · p. 125
अनुष्टुप्
शरं नीरे शरः काण्डे शरस्तेजनकेऽपि च ।धरस्तु शैले कार्पासतूलके कमठाधिपे ।धरा मेधसि भूम्याञ्च स्त्रीणां गर्भाशयेऽपि च ॥ १० ॥
1.26.10 · p. 125
अनुष्टुप्
क्षरं नीरे क्षरो मेघे दरः साध्वसगर्त्तयोः ।कन्दरे तु दरीमाहुरीषर्थे दराव्ययम् ॥ ११ ॥
1.26.11 · p. 126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे ।पुरं पाटलिपुत्रे स्यागृहोपरिगृहे पुरम् ॥ १२ ॥
1.26.12 · p. 126
अनुष्टुप्
पुरं पुरि शरीरे च गुग्गुलौ कथितः पुरः ।पुराऽव्ययं पूर्वकाले खुरः कोलदले शफे ॥ १३ ॥
1.26.13 · p. 126
अनुष्टुप्
सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्वचित् ।कारो वधे निश्चये च बलौ यत्ने यतावपि ॥ १४ ॥
1.26.14 · p. 126
अनुष्टुप्
कारस्तुषारशैले च कारा दूत्यां प्रसेवके ।बन्धने बन्धनागारे केमकारिकयोरपि ॥ १५ ॥
1.26.15 · p. 126
अनुष्टुप्
चारः प्रियालवृक्षे स्याद्गतौ बन्धापसर्पयोः ।पारम्परतटे प्रान्ते पारी पात्रीतडागयोः ॥ १६ ॥
1.26.16 · p. 126
अनुष्टुप्
गर्गरीपूरयोः पारी पादरज्ज्वाञ्च दन्तिनः ।वारः सूर्यादिदिवसे वारोऽवसरवृन्दयोः ॥ १७ ॥
1.26.17 · p. 126
अनुष्टुप्
कुब्जवृक्षे हरेर्वारं द्वारे मद्यस्य भाजने ।तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके ॥ १८ ॥
1.26.18 · p. 126
अनुष्टुप्
तारञ्च रजतेऽप्युच्चस्वरेऽप्यन्यवदीरितम् ।ऋक्षाक्षिमध्ययोस्तारा सुग्रीवगुरुयोषितोः ॥ १९ ॥
1.26.19 · p. 126
अनुष्टुप्
बुद्धदेव्यां मता तारा शारः शबलवातयोः ।भारस्तु वीवधे स्वर्णपलानामयुतद्वये ॥ २० ॥
1.26.20 · p. 126
अनुष्टुप्
मारो मृत्यौ वृषेऽनङ्गे मारी चण्ड्यां जनक्षये ।स्फारः स्याद्विकटे स्फारः कनकादेश्च बुद्बुदे ॥ २१ ॥
1.26.21 · p. 126
अनुष्टुप्
क्षारो रसान्तरे धूर्त्ते लवणे काचभस्मनोः ।हारो मुक्तारलौ युद्धेऽप्यारः क्षितिसुतेऽर्कजे ।आरा चर्म्मप्रभेदिन्यां नारस्तर्णकनीरयोः ॥ २२ ॥
1.26.22 · p. 126
अनुष्टुप्
सारो बले मज्जनि च स्थिरांशेन्याय्ये च नीरे च धने च सारम् ।वरेऽन्यवत् सारमुदाहरन्तिद्वारं पुनर्निर्गमनेऽप्युपाये ॥ २३ ॥
1.26.23 · p. 127
उपजातिः
पूरो जलप्रवाहे स्याद् व्रणसंशुद्धिखाद्ययोः ।चिरन्तु गोस्तने हस्ते चूडायां सीसकेऽपि च ॥ २४ ॥
1.26.24 · p. 127
अनुष्टुप्
क्रूरस्तु कठिने घोरे नृशंसे त्वऽभिधेयवत् ।सूरश्चारभटे सूर्य्ये चोरश्चौरसुगन्धयोः ॥ २५ ॥
1.26.25 · p. 127
अनुष्टुप्
तीरं तटे त्रपौ तीरः सीरस्तिग्मकरे हले ।चीरी कच्छूरिकाझिल्योः स्वैरः स्वच्छन्दमन्दयोः ॥ २६ ॥
1.26.26 · p. 127
अनुष्टुप्
जीरः खड्गे वणिग्द्रव्ये मीरस्तोयदशैलयोः ।क्षीरं नीरे च दुग्धे च कीरो जनपदे शुके ॥ २७ ॥
1.26.27 · p. 127
अनुष्टुप्
गौरः पीतेऽरुणे श्वेते विशुद्धे चाऽभिधेयवत् ।गौरन्तु विशदे पद्मकेशरे सितसर्षपे ॥ २८ ॥
1.26.28 · p. 127
अनुष्टुप्
गौरः शशिनि गौरी तु नग्नकन्योमयोः स्मृता ।रोचनी रजनीपिङ्गाप्रियङ्गुवसुधासु च ॥ २९ ॥
1.26.29 · p. 127
अनुष्टुप्
नदीभेदेऽपि गौरी स्याद्वरुणस्य च योषिति ।पौरन्तु कत्तृणे पौरः स्मृतः पुरभवेऽन्यवत् ॥ ३० ॥
1.26.30 · p. 127
अनुष्टुप्
वेरं शरीरे काश्मीरे वेरं वातिङ्गणेऽपि च ।घोरं भीमे हरे घोरष्टारो लङ्गतुरङ्गयोः ॥ ३१ ॥
1.26.31 · p. 127
अनुष्टुप्
होरा लग्नेऽपि राश्यर्द्धे शास्त्ररेखाभिदोरपि ।हीरा पिपीलिकालक्ष्म्योर्हीरः शङ्करवज्रयोः ॥ ३२ ॥
1.26.32 · p. 127
अनुष्टुप्
गोत्रं नाम्नि कुले क्षेत्रे कानने चित्तवर्त्मनोः ।सम्भावनीयबोधेऽपि गोत्रः क्षोणीधरे मतः ॥ ३३ ॥
1.26.33 · p. 127
अनुष्टुप्
गोसमूहभुवोर्गोत्रा गात्रमङ्गे कलेवरे ।स्तम्बेरमाग्रजङ्घायां विभागेऽपि समीरितम् ॥ ३४ ॥
1.26.34 · p. 128
अनुष्टुप्
पत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षिणाम् ।पात्रञ्च भाजने योग्ये पात्रं तीरद्वयान्तरे ॥ ३५ ॥
1.26.35 · p. 128
अनुष्टुप्
पात्रं स्रुवादौ पर्णेऽपि राजमन्त्रिणि चेष्यते ।पोत्रं वस्त्रे मुखाग्रे च शूकरस्य हलस्य च ॥ ३६ ॥
1.26.36 · p. 128
अनुष्टुप्
चित्रं स्यादद्भुतालेख्यतिलकेषु विहायसि ।चित्राऽऽखुपर्णीगोदुग्धीसुभद्रादन्तिकासु च ॥ ३७ ॥
1.26.37 · p. 128
अनुष्टुप्
ऋक्षाप्सरोऽहिभेदेषु कर्बुरे चाभिधेयवत् ।चैत्रं मृतकचित्ये स्याच्चैत्रो मासाद्रिभेदयोः ॥ ३८ ॥
1.26.38 · p. 128
अनुष्टुप्
वृत्रो रिपौ घने ध्वान्ते शैले शक्रे च दानवे ।सत्रमाच्छादने यज्ञे सदादाने च कैतवे ॥ ३९ ॥
1.26.39 · p. 128
अनुष्टुप्
सूत्रन्तु सूचनायां स्यात् मूत्रं तन्तुव्यवस्थयोः ।मित्रं सुहृदि मित्रोऽर्के शास्त्रं ग्रन्थनिदेषयोः ॥ ४० ॥
1.26.40 · p. 128
अनुष्टुप्
मात्रं चाऽवधृतौ कार्त्स्न्ये मात्रा कर्णविभूपणे ।अक्षरावयवे वृत्ते मानेऽल्पे च परिच्छदे ॥ ४१ ॥
1.26.41 · p. 128
अनुष्टुप्
शस्त्रं लोहास्त्रयोः शस्त्री छुरिकायाञ्च विश्रुता ।अस्त्रं प्रहरणे चापे वक्त्रं छन्दोऽन्तरे मुखे ॥ ४२ ॥
1.26.42 · p. 128
अनुष्टुप्
नेत्रं मन्थिगुणे वस्त्रे तरुमूले विलोचने ।नेत्रं रथे च नाड्याञ्च नेत्रो नेतरि वाच्यवत् ॥ ४३ ॥
1.26.43 · p. 128
अनुष्टुप्
क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः ।रेत्रं रेतसि पीयूषे पटवासेऽपि सूतके ॥ ४४ ॥
1.26.44 · p. 128
अनुष्टुप्
मन्त्रो वेदप्रभेदे स्याद्देवादीनाञ्च साधने ।गुप्तवादे च तोत्रन्तु प्राजने वल्लवेऽपि च ॥ ४५ ॥
1.26.45 · p. 128
अनुष्टुप्
तन्त्रं कुटुम्बकृत्ये स्यात् कारणे च परिच्छदे ।शास्त्रे प्रधाने सिद्धान्ते तन्तुवाये गदोत्तमे ॥ ४६ ॥
1.26.46 · p. 128
अनुष्टुप्
तत्त्वादिसाधनोपाये श्रुतिशाखान्तरेऽपि च ।इतिकर्त्तव्यतायाञ्च तन्त्री वीणागुणे तनोः ॥ ४७ ॥
1.26.47 · p. 129
अनुष्टुप्
शिरायाममृतायाञ्च छत्रमातपवारणे ।छत्रा मधुरिकायां स्यात् कुस्तुम्बुरुशिलीन्द्रयोः ॥ ४८ ॥
1.26.48 · p. 129
अनुष्टुप्
चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोः ।ग्रामजाले कुलालस्य भाण्डे राष्टास्रयोरपि ॥ ४९ ॥
1.26.49 · p. 129
अनुष्टुप्
अम्भसामपि चाऽवर्त्ते चुक्रस्त्वम्लेऽम्लवेतसे ।चुक्री चाङ्गेरिकायां स्याद्वृक्षाम्ले चुक्रमिष्यते ॥ ५० ॥
1.26.50 · p. 129
अनुष्टुप्
शुक्रः काव्येऽनले ज्येष्ठे शुक्रो रेतोऽक्षिरोगयोः ।शुक्रं शक्रो महेन्द्रे स्यात् कुटजार्ज्जुनभूरुहोः ॥ ५१ ॥
1.26.51 · p. 129
अनुष्टुप्
नक्रः कुम्भीरके नक्रं नासायामग्रदारुणि ।वक्रः स्यात् कुटिले क्रूरे पुटभेदे शनैश्चरे ॥ ५२ ॥
1.26.52 · p. 129
अनुष्टुप्
अग्रमालम्बने व्राते परिमाणे पलस्य च ।प्रान्ते पुरस्तादधिके प्रधाने प्रथमोर्द्ध्वयोः ॥ ५३ ॥
1.26.53 · p. 129
अनुष्टुप्
उग्रः शूद्रासुते क्षत्त्राच्छ्रीकण्ठे चोत्कटेऽन्यवत् ।उग्रा वचाछिक्किकयोर्व्यग्रो व्यासक्त आकुले ॥ ५४ ॥
1.26.54 · p. 129
अनुष्टुप्
भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्तरे ।भद्रो रुद्रे वृषे रामचन्द्रे मेरुकदम्बयोः ॥ ५५ ॥
1.26.55 · p. 129
अनुष्टुप्
हस्तिजात्यन्तरे भद्रो वाच्यवच्छ्रेष्ठसाधुनोः ।भद्रा मन्दाकिनीरास्नाकृत्स्नानन्तासु कट्फले ॥ ५६ ॥
1.26.56 · p. 129
अनुष्टुप्
क्षुद्रः स्यादधमे क्रूरे कृपणेऽल्पे च वाच्यवत् ।क्षुद्रा वेश्यानटीकण्टकारिकासरघासु च ॥ ५७ ॥
1.26.57 · p. 129
अनुष्टुप्
चाङ्गेरी बृहतीहिंस्रा मक्षिकामात्रकेषु च ॥
1.26.58 · p. 129
क्षौद्रं मधुनि पानीये वध्रं त्रपुवरत्रयोः ॥ ५८ ॥
1.26.58 · p. 129
गृध्रः खगान्तरे प्रोक्तो वाच्यवच्चार्थलुब्धके ।रोध्रः सावरके रोध्रमपराधेऽपि किल्विषे ॥ ५९ ॥
1.26.59 · p. 130
अनुष्टुप्
नीध्रं नेमौ वलीकेन्द्वो रेवतीभे च कानने ।राष्ट्रमुद्दिष्टमुत्पाते तथा स्यादुपवर्त्तने ॥ ६० ॥
1.26.60 · p. 130
अनुष्टुप्
कृच्छ्रमाख्यातमाभीले तपःसान्तपनादिनोः ।चन्द्रः सुधांशुकर्पूरकाम्पिल्लस्वर्णवारिषु ॥ ६१ ॥
1.26.61 · p. 130
अनुष्टुप्
इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः ।इन्द्रा फणिज्झके सान्द्रो घनकाननयोर्मृदौ ॥ ६२ ॥
1.26.62 · p. 130
अनुष्टुप्
गुन्द्रस्तेजनके गुन्द्रा प्रियङ्गौ भद्रमुस्तके ।कैवर्त्तीमुस्तके चाऽपि रौद्रो नाट्यरसान्तरे ॥ ६३ ॥
1.26.63 · p. 130
अनुष्टुप्
रौद्रोऽतिभीषणे तीव्रे रौद्रा स्कन्दस्य मातरि ।उड्रो जने जपावृक्षे उड्रा जनपदान्तरे ॥ ६४ ॥
1.26.64 · p. 130
अनुष्टुप्
पितृकेदारयोर्वप्रो वप्रः प्राकाररोधसोः ।पुण्ड्रो दैत्यविशेषेक्षुभेदयोरतिमुक्तके ॥ ६५ ॥
1.26.65 · p. 130
अनुष्टुप्
चित्रे कृमौ पुण्डरीके पुण्ड्राः स्युर्नीवृदन्तरे ।वज्रं हीरकदम्भोलिबालकामलकेषु च ॥ ६६ ॥
1.26.66 · p. 130
अनुष्टुप्
वज्रा गुडूचिकायां स्यात् ताम्रं शुल्वेऽरुणेऽन्यवत् ।तीव्रमत्युष्णकटुकनितान्तेष्वन्यवन्मतम् ॥ ६७ ॥
1.26.67 · p. 130
अनुष्टुप्
तीव्रा च कटुरोहिण्यामासुरीगण्डदूर्वयोः ।अस्रः कोणे शिरसिजे चाऽस्रमश्रुणि शोणिते ॥ ६८ ॥
1.26.68 · p. 130
अनुष्टुप्
दस्रः खरे चाऽश्विनयोर्घस्रो दिवसहिंस्रयोः ।वाश्रोऽपि दिवसे वाश्रं मन्दिरे च चतुष्पथे ॥ ६९ ॥
1.26.69 · p. 130
अनुष्टुप्
शीघ्रं द्रुतगतौ शीघ्रं चक्राङ्गोशीरयोरपि ।व्याघ्रो दीपिनि विख्यातः शुक्लैरण्डकरञ्जयोः ।व्याघ्री निदिग्धिकायाञ्च श्रेष्ठे स्यादुत्तरस्थितः ॥ ७० ॥
1.26.70 · p. 130
अनुष्टुप्
अभ्रं नभः स्वर्गबलाहकेषुशुभ्रं प्रदीप्ते धवलेऽभ्रके च ।बभ्रुर्विशाले नकुले कृशानौवज्रे मुनौ शूलिनि पिङ्गले च ॥ ७१ ॥
1.26.71 · p. 131
इन्द्रवज्रा
शिग्रुः शोभाञ्जने शाके शरुः कुलिशकोपयोः ।स्वरुर्वज्रेऽध्वरे वाणे यूपखण्डेऽपि च स्वरुः ॥ ७२ ॥
1.26.72 · p. 131
अनुष्टुप्
खरुर्दन्ते हरे दर्पे हये श्वेते तु वाच्यवत् ।चरुर्भाण्डे च हव्यान्ने भरुर्भर्त्तरि काञ्चने ॥ ७३ ॥
1.26.73 · p. 131
अनुष्टुप्
गुरुर्निपेकादिकरे पित्रादौ सुरमन्त्रिणि ।दुर्ज्जरालधुनोः प्रोक्तो गुरुर्महति वाच्यवत् ॥ ७४ ॥
1.26.74 · p. 131
अनुष्टुप्
रुरुर्मृगे दैत्यभेदे कारुः कारकशिल्पिनोः ।विश्वकर्मणि शिल्पे च कुरुः श्रीकण्ठजाङ्गले ॥ ७५ ॥
1.26.75 · p. 131
अनुष्टुप्
उन्दने नृपभेदे च पुरुः प्राज्यपरागयोः ।पुरुः स्वर्लोकनृपयोर्मरुर्भूधरधन्वनोः ॥ ७६ ॥
1.26.76 · p. 131
अनुष्टुप्
आरुस्तरुविशेषे स्यादारुः कर्कटदंष्ट्रिणोः ।कद्रूर्मातरि नागानां कद्रुः कनकपिङ्गले ॥ ७७ ॥
1.26.77 · p. 131
अनुष्टुप्
हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु ।सिंहाश्वकपिभेकाहिशुकलोकान्तरेषु च ॥ ७८ ॥
1.26.78 · p. 131
अनुष्टुप्
हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः ।भूरिर्ब्रह्माच्युतेशेषु भूरिप्राज्यसुवर्णयोः ॥ ७९ ॥
1.26.79 · p. 131
अनुष्टुप्
गिरिर्गीर्णौ गिरियके क्रीडाकन्दुकशैलयोः ।नेत्रामयविशेषेऽपि मत्स्ये तु गिरिरन्यवत् ॥ ८० ॥
1.26.80 · p. 131
अनुष्टुप्
वारिः स्मृत्या सरस्वत्यां वारि ह्रीवेरनीरयोः ।वारी घटीभबन्धन्यो रङ्घ्रिः स्यात् पादबुध्नयोः ॥ ८१ ॥
1.26.81 · p. 131
अनुष्टुप्
शारिस्त्वक्षोपकरणे तथा शकुनिकान्तरे ।युद्धार्थगजपर्याणे व्यवहारेऽपि च क्वचित् ॥ ८२ ॥
1.26.82 · p. 131
अनुष्टुप्
कारिः क्रियायामाख्याता नापितादिकशिल्पिनि ।अद्रिः शैलद्रुमार्केषु ऐन्द्रिः काकजयन्तयोः ॥ ८३ ॥
1.26.83 · p. 132
अनुष्टुप्
ऐन्द्रिरम्भोधरे जिष्णौ तन्द्री निद्राप्रमीलयोः ।धात्री जनन्यामलकीवसुमत्युपमातृषु ॥ ८४ ॥
1.26.84 · p. 132
अनुष्टुप्
उष्ट्री गोलकिकायां स्यात् करभस्य च योषिति ।क्रोष्ट्री शृगालिकाक्षीरविदारीलाङ्गलीषु च ॥ ८५ ॥
1.26.85 · p. 132
अनुष्टुप्
तरिर्नावि दशायाञ्च वस्त्रादीनाञ्च पेटके ।जारी स्यादोषधीभेदे जारस्तूपपतावपि ॥ ८६ ॥
1.26.86 · p. 132
अनुष्टुप्
इरा वारिसुराभूमिभारतीषु मयुज्यते ।स्थिरा भूमौ शालपर्ण्यां स्थिरो निश्चलमोक्षयोः ॥ ८७ ॥
1.26.87 · p. 132
अनुष्टुप्
धारा सैन्याग्रिमस्कन्धसन्तत्योः पत्तनान्तरे ।द्रवद्रव्यप्रपातेऽपि तुरङ्गगतिपञ्चके ॥ ८८ ॥
1.26.88 · p. 132
अनुष्टुप्
खड्गादीनाञ्च निशितमुखे धाराऽपि कीर्त्यते ।धारः क्वचिद्घनासारवर्षणे स्यादृणेऽपि च ॥ ८९ ॥
1.26.89 · p. 132
अनुष्टुप्
वीरा स्यात् क्षीरकाकोलितामलक्येलवालुषु ।पतिपुत्रवतीरम्भागम्भीरामदिरासु च ॥ ९० ॥
1.26.90 · p. 132
अनुष्टुप्
गोष्ठोदुम्बरिकाक्षीरविदारीदुग्धिकासु च ।वीरस्तु सुभटे श्रेष्ठे वीरं शृङ्ग्यां नतेऽपि च ॥ ९१ ॥
1.26.91 · p. 132
अनुष्टुप्
आर्द्रा नक्षत्रभेदे स्यादार्द्रं क्लिन्नेऽभिधेयवत् ।यात्रा तु यापनोपाये गतौ देवार्च्चनोत्सवे ॥ ९२ ॥
1.26.92 · p. 132
अनुष्टुप्
उस्रा गव्युपचित्रायामुस्रस्तु किरणे स्मृतः ।हिंस्रा काकादने मत्स्यो हिंस्रः स्याद्घातकेऽन्यवत् ॥ ९३ ॥
1.26.93 · p. 132
अनुष्टुप्
अमरस्त्रिदशेऽप्यस्थिसंहारे कुलिज्ञद्रुमे ।दूर्वाऽमरावतीस्थूणा गुडूचीष्वऽमरा मता ॥ ९४ ॥
1.26.94 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 लि (wrong syllable)
अपरन्त्वधुनार्थे स्यात् पश्चाद्गात्रे च दन्तिनाम् ।अर्वाचीने परं प्राहुर्जरायौ चापरामपि ॥ ९५ ॥
1.26.95 · p. 133
अनुष्टुप्
अधरो दन्तवसनेऽनूर्द्ध्वे हीनेऽधरोऽन्यवत ।अध्वरो वसुभेदे स्यात् सावधाने कृतावपि ॥ ९६ ॥
1.26.96 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अन्तरन्तु परीधाने भेदे रन्ध्रावकाशयोः ।आत्मान्तर्द्धिविनात्मीयबहिर्मध्यावधिष्वपि ॥ ९७ ॥
1.26.97 · p. 133
अनुष्टुप्
तादर्थ्येऽवसरे चोक्तमवरं चरमेऽन्यवत् ।गजान्त्यजङ्घादेशे च भवान्यामवरा मता ॥ ९८ ॥
1.26.98 · p. 133
अनुष्टुप्
उत्तरं प्रतिवाक्ये स्यादूर्द्ध्वोदीच्योत्तमेऽन्यवत् ।उत्तरस्तु विराटस्य तनये दिशि चोऽत्तरा ॥ ९९ ॥
1.26.99 · p. 133
अनुष्टुप्
इतरः पामरेऽन्यस्मिन्नक्षरं ब्रह्मवर्णयोः ।ऋक्षरं वारिधारायामृक्षरश्चर्त्विजि स्मृतः ॥ १०० ॥
1.26.100 · p. 133
अनुष्टुप्
प्रवरं सन्ततौ गोत्रे श्रेष्ठे तु प्रवरोऽन्यवत् ।शबरो वारिचण्डालभेदयोः शङ्करेऽपि च ॥ १०१ ॥
1.26.101 · p. 133
अनुष्टुप्
अम्बरं वाससि व्योम्नि कार्पासे च सुगन्धके ।शम्बरं सलिले चित्तबौद्धव्रतविशेषयोः ॥ १०२ ॥
1.26.102 · p. 133
अनुष्टुप्
शम्बरो दैत्यहरिणमत्स्यशैलजिनान्तरे ।ओषधौ शम्बरीमाहुः प्रखरोऽश्वतरे शुनि ॥ १०३ ॥
1.26.103 · p. 133
अनुष्टुप्
तुरङ्गानाञ्च सन्नाहे प्रखरोऽतिभृशस्वरे ।शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु ॥ १०४ ॥
1.26.104 · p. 133
अनुष्टुप्
पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ।खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारिवालके ॥ १०५ ॥
1.26.105 · p. 133
अनुष्टुप्
खिखीरा तद्बहुत्वे च विष्टरस्तु महीरुहे ।आसने कुशमुष्टौ च द्विरदस्कन्धपीठयोः ॥ १०६ ॥
1.26.106 · p. 133
अनुष्टुप्
कवटे चाऽथ पिठरो मुस्तमन्थानदण्डयोः ।पिठरः स्यादुखायाञ्च जठरः कठिनेऽन्यवत् ॥ १०७ ॥
1.26.107 · p. 134
अनुष्टुप्
कुक्षौ वृद्धे च जठरं वण्ठरस्तालपल्लवे ।करीरकोशेऽप्यररं कपाटे छदनेऽपि च ॥ १०८ ॥
1.26.108 · p. 134
अनुष्टुप्
क्रकरः क्रकचे दीने करीरे च खगान्तरे ।कदरः श्वेतखदिरे क्षुद्ररोगेऽपि भाषितः ॥ १०९ ॥
1.26.109 · p. 134
अनुष्टुप्
बदरं कोलकार्पास्योः फले स्याद्बदरी तयोः ।एलापर्ण्यान्तु बदरा विष्णुक्रान्तौषधावपि ॥ ११० ॥
1.26.110 · p. 134
अनुष्टुप्
प्रदरो रोगभेदे स्यात् प्रदरः शरभङ्गयोः ।मकरो यादसि ज्ञेयो निधिराशिप्रभेदयोः ॥ १११ ॥
1.26.111 · p. 134
अनुष्टुप्
निकरो निवहे सारे न्यायदेयधनान्तरे ।शीकरं शबले वातसृताम्बुकणयोर्विदुः ॥ ११२ ॥
1.26.112 · p. 134
अनुष्टुप्
प्रकरश्चोपकारश्च विकीर्णकुसुमादिषु ।संहतौ चोपकृत्यायां यथासङ्ख्यमवस्थितौ ॥ ११३ ॥
1.26.113 · p. 134
अनुष्टुप्
जोङ्गके प्रकरं प्रोक्तं प्रकरी चत्वरावनौ ।विस्तरस्तु प्रपञ्चे स्याद्विस्तारे प्रणयेऽपि च ॥ ११४ ॥
1.26.114 · p. 134
अनुष्टुप्
संस्तरप्रस्तरावेतौ संस्तराध्वरयोरपि ।मणिपाषाणयोश्चाऽपि यथाक्रममुदीरितौ ॥ ११५ ॥
1.26.115 · p. 134
अनुष्टुप्
टगरष्टङ्कणक्षारे हेलाविभ्रमगोचरे ।वाच्यवत् केकराक्षे तु मुद्गरं मल्लिकाभिदि ॥ ११६ ॥
1.26.116 · p. 134
अनुष्टुप्
लोष्ट्रादिभेदनेऽपि स्यादुदरं जठरे युधि ।प्रसरः प्रणये वेगे सङ्गरे चाऽथ मत्सरः ॥ ११७ ॥
1.26.117 · p. 134
अनुष्टुप्
असह्यपरसम्पत्तौ मात्सर्य्यं कृपणे युधि ।मत्सरा मक्षिकायाञ्च विसरः प्रसरे व्रजे ॥ ११८ ॥
1.26.118 · p. 134
अनुष्टुप्
कुहरः कोठरे छिद्रे नागराजविशेषयोः ।दहरो मूषिकायाञ्च स्वल्पभ्रातरि बालके ॥ ११९ ॥
1.26.119 · p. 134
अनुष्टुप्