All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
श्रीमहेश्वरसूरि · विश्वप्रकाशः । नाम शब्दकोषः । विद्वद्वरश्रीमहेश्वरसूरिणा प्रणीतः । · Chowkhamba Sanskrit Book-depot, Benaras. Agents - Otto Harrassowitzi Leipzigl Paṇḍita Jyeṣṭharāma Mukundaji, Bombay; Probsthain & Co. Booksellers, London · 1911 A.D. · Śrīśīlaskandha Sthavira, Paṇḍita Ratna Gopāla Bhaṭṭa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · ञान्तवर्गः
इति झान्तवर्गः ॥
चाज्ञस्तु जडमूर्खयोः ।प्रज्ञा बुद्धौ पण्डितेऽपि प्रज्ञो वाच्यवदिष्यते ॥ १ ॥
1.9.1 · p. 35
अनुष्टुप्
संज्ञा नामनि गायत्र्यां चेतनायां रविस्त्रियाम् ।अर्थसूचनिकायाञ्च हस्ताद्यैरपि कथ्यते ॥ २ ॥
1.9.2 · p. 35
अनुष्टुप्
सर्वज्ञः शङ्करे बुद्धे कृतज्ञः कुक्कुरेऽपि च ।दैवज्ञो गणकेऽपि स्यात् क्षेत्रज्ञश्छेक आत्मनि ॥ ३ ॥
1.9.3 · p. 35
अनुष्टुप्