All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · जान्तवर्गः
इति छान्तवर्गः ॥
जो जन्यो जातमात्रे च मृत्युञ्जये जनार्द्दने ।जूराकाशे सरस्वत्यां पिशल्या जवनेऽपि च ॥ १ ॥
1.7.1 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्ज (wrong syllable)
कञ्जः केशे विरिञ्चौ च कञ्जः पीयूषपद्मयोः ।अजो हरौ हरे कामे विधौ छागे रघोः सुते ॥ २ ॥
1.7.2 · p. 32
अनुष्टुप्
व्रजो गोष्ठाध्ववृन्देषु निजमात्मीयनित्ययोःध्वजं चिह्ने पताकायां ध्वजः शौण्डिकशेफयोः ॥ ३ ॥
1.7.3 · p. 32
अनुष्टुप्
खड्वाङ्गे च स्वजं रक्ते स्वजः प्रस्वेदपुत्रयोः ।द्विजो विप्रेऽण्डजे दन्ते भार्गीरेणुकयोर्द्विजा ॥ ४ ॥
1.7.4 · p. 32
अनुष्टुप्
बीजं रेतसि तत्त्वे च हेतावङ्कुरकारणे ।आधानेऽपि च सज्जः स्यात् सन्नद्धे सम्भूतेऽपि च ॥ ५ ॥
1.7.5 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 म्भू (wrong syllable)
वाजं घृतेऽपि यज्ञान्ने वाजो निःस्वनपक्षयोः ।वाजं जले मुनौ वाजो व्याजः शाठ्यापदेशयोः ॥ ६ ॥
1.7.6 · p. 32
अनुष्टुप्
भुजः पाणौ च बाहौ च कुजः स्यान्नरकारयोः ॥
1.7.7 · p. 32
अब्जो धन्वन्तरौ चन्द्रे निचुले शङ्खपद्मयोः ॥ ७ ॥
1.7.7 · p. 33
अब्जं स्यादथ कुब्जोऽपि न्युब्जः स्यात् पादपान्तरे ।न्युब्जस्तु कर्णरोगे स्यान्न्युब्जः प्रोक्तः कुशस्रुचि ॥ ८ ॥
1.7.8 · p. 33
अनुष्टुप्
अधोमुखे च कुब्जे च न्युब्जो वाच्यवदिष्यते ।आजिः समावनौ युद्धे राजिः स्यात् पङ्क्तिरेफयोः ॥ ९ ॥
1.7.9 · p. 33
अनुष्टुप्
लाजाः स्युर्भृष्टभान्येषु लाजः स्यादार्द्रतण्डुले ।उशीरे लाजमुद्दिष्टं प्रजासन्तानलोकयोः ॥ १० ॥
1.7.10 · p. 33
अनुष्टुप्
गुञ्जाऽपि पटहे प्रोक्ता काकचिञ्च्यां कलध्वनौ ।गञ्जा खानौ सुरागेहे स्याद्भाण्डागाररीढयोः ॥ ११ ॥
1.7.11 · p. 33
अनुष्टुप्
गञ्जः कुञ्जो निकुञ्जेऽपि हनौ दन्ते च दन्तिनाम् ।सञ्जः प्रजापतौ रुद्रे लञ्जः स्यात् पट्टकच्छयोः ॥ १२ ॥
1.7.12 · p. 33
अनुष्टुप्
भर्ज्जा बले महोत्साहे खजा मन्थप्रहस्तयोः ।पिञ्जा तूले हरिद्रायां पिञ्जस्तु व्याकुलेऽन्यवत् ॥ १३ ॥
1.7.13 · p. 33
अनुष्टुप्
पिञ्जो बले चये पिञ्जं रज्जुर्वेण्यां गुणे स्मृता ।खर्ज्जूः कण्ड्वाञ्च कीटे च खर्जूरीपादपेऽपि च ।मर्ज्जूः स्याद्रजके शुद्धौ सर्जूर्वणिजविद्युति ॥ १४ ॥
1.7.14 · p. 33
अनुष्टुप्
करजस्तु करञ्जे स्यान्नखे व्याघ्रनखेऽपि ।कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि ॥ १५ ॥
1.7.15 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सहजस्तु निसर्गे स्यात् सहोत्थे पुनरन्यवत् ।नीरजं कमले कुष्ठे जलजं शङ्खपद्मयोः ॥ १६ ॥
1.7.16 · p. 33
अनुष्टुप्
वलजं गोक्षुरे क्षेत्रे सस्यसङ्गरयोरपि ।वलजा वरयोषायां वसुमत्यामपि स्मृता ॥ १७ ॥
1.7.17 · p. 33
अनुष्टुप्
कारुजः शिल्पिनाञ्चित्रे कलभे नागकेशरे ।स्वयञ्जाततिले फेने वल्मीके गैरिकेऽपि च ॥ १८ ॥
1.7.18 · p. 33
अनुष्टुप्
बाहुजः क्षत्रिये कीरे स्वयञ्जाततिलेऽपि च ।वनजो मुस्तके पद्मे वनजं वनजो गजे ॥ १९ ॥
1.7.19 · p. 34
अनुष्टुप्
वनजा मुद्गपर्ण्याञ्च वणिग्वाणिज्यजीविनि ।वणिक् करणभेदे च वणिज्यायामपीष्यते ॥ २० ॥
1.7.20 · p. 34
अनुष्टुप्
सामजस्तु गजे प्रोक्तः सामोत्थे पुनरन्यवत् ।भूमिजो नरकेऽङ्गारे सीतायामपि भूमिजा ॥ २१ ॥
1.7.21 · p. 34
अनुष्टुप्
गिरिजञ्चाभ्रके ख्यातं शिलाजतुसुगन्धयोः ।लोहेऽपि गिरिजा गौरीमातुलुङ्ग्यो[?]रुदीरिता ॥ २२ ॥
1.7.22 · p. 34
अनुष्टुप्
कम्बोजो हस्तिभेदे स्याच्छङ्खदेशविशेषयोः ।अङ्गजं रुधिरेऽनङ्गपुत्रकेशमदेऽङ्गजः ॥ २३ ॥
1.7.23 · p. 34
अनुष्टुप्
काम्बोजस्तुरगे सोमवल्के पुन्नागपादपे ।काम्बोजी मासपर्ण्याञ्च हिङ्गुपर्ण्यामपि क्वचित् ॥ २४ ॥
1.7.24 · p. 34
अनुष्टुप्
अण्डजः कृकलासे स्यात् खगे मीने भुजङ्गमे ।कस्तूर्यामण्डजा प्रोक्ता परञ्जस्तैलयन्त्रके ॥ २५ ॥
1.7.25 · p. 34
अनुष्टुप्
फेने च करवाले च परञ्जः क्षुरिकाफले ।हिमजाऽपि शचीगौर्योर्मैनाके हिमजः स्मृतः ॥ २६ ॥
1.7.26 · p. 34
अनुष्टुप्
जघन्यजोऽनुजे शूद्रे भारद्वाजः स्मृतो मुनौ ।द्रोणे च वनकार्पास्यां भारद्वाजी च कथ्यते ॥ २७ ॥
1.7.27 · p. 34
अनुष्टुप्
भारद्वाजो गुरोः पुत्रे व्याघ्राकाख्यविहङ्गमे ।काश्मीरजाख्याऽतिविषा कुष्ठकुङ्कुमपौष्करे ॥ २८ ॥
1.7.28 · p. 34
अनुष्टुप्
क्षीराब्धिजं तु सामुद्रलवणे मौक्तिके क्वचित् ।क्षीराब्धिजा श्रियां प्रोक्ता चन्द्रे क्षीराब्धिजो भवेत् ॥ २९ ॥
1.7.29 · p. 34
अनुष्टुप्
द्विजराजः शशधरे सुपर्णेऽनन्तभोगिनि ।धर्मराजो यमे बुद्धे धर्मराजो युधिष्ठिरे ॥ ३० ॥
1.7.30 · p. 34
अनुष्टुप्
राजराजः कुबेरेऽपि सार्वभौमे सुधाकरे ।भृङ्गराजस्तु मधुपे मार्कवे विहगान्तरे ॥ ३१ ॥
1.7.31 · p. 35
अनुष्टुप्
ग्रहराजो रवौ चन्द्रेऽप्यहिभुक्केकितार्क्ष्ययोः ।यक्षराट् त्र्यम्वकसरवे मल्लानां रङ्गचत्वरे ॥ ३२ ॥
1.7.32 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मुनिभेषजमागस्त्ये हरीतक्याञ्च लङ्घने ।वृषभध्वजशब्दोऽसौ शङ्करे चार्हदन्तरे ॥ ३३ ॥
1.7.33 · p. 35
अनुष्टुप्