All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · लान्तवर्गः (2/2)
इल्वला तारकाभेदे इल्वलो दैत्यमत्स्ययोः ।पिच्छिला शाल्मलीसिन्धुभेदपोतकिकामु च ॥ १२१ ॥
1.27.121 · p. 158
अनुष्टुप्
पिच्छिला शिंशपायाञ्च पिच्छिलो विज्जलेऽन्यवत् ।सप्तला पाटलौ गुञ्जानवमालिकयोरपि ॥ १२२ ॥
1.27.122 · p. 159
अनुष्टुप्
भवेच्चर्म्मकशायाञ्च महिला भीरुगुन्द्रयोः ।सिध्मला मत्स्यचूर्णे स्यात सिध्मलश्च किलासिनि ॥ १२३ ॥
1.27.123 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सन्धिला तु सुरुङ्गायां नदीमन्दिरयोरपि ।रसाला मार्ज्जितायां स्याज्जिह्वादूर्वाविदारिषु ।रसालं सिह्लके वोले रसालश्चेक्षुचूतयोः ॥ १२४ ॥
1.27.124 · p. 159
अनुष्टुप्
विमला शीतलायां स्याद् भुवो भेदे च निर्म्मले ।विमले चाऽमला लक्ष्म्यामऽमलं विशदेऽभ्रके ॥ १२५ ॥
1.27.125 · p. 159
अनुष्टुप्
श्रीफली नीलिकाधात्र्योर्मालूरे श्रीफलः स्मृतः ।खण्डाली तैलमाने स्यात् सरसीकामुकस्त्रियोः ॥ १२६ ॥
1.27.126 · p. 159
अनुष्टुप्
पातली वागुरायां स्यान्नारीमृत्पात्रभेदयोः ।जाङ्गली शूकशिम्ब्यां स्याज्जाङ्गलश्च कपिञ्जले ॥ १२७ ॥
1.27.127 · p. 159
अनुष्टुप्
लाङ्गली गजपिप्पल्यां लाङ्गलं कुसुमान्तरे ।सीरेऽपि लाङ्गलं तालगृहदारुविशेषयोः ॥ १२८ ॥
1.27.128 · p. 159
अनुष्टुप्
अङ्गुली करशाखायां कर्णिकायां गजस्य च ।जाङ्गुली विषविद्यायां जाङ्गुलं जालिनीफले ॥ १२९ ॥
1.27.129 · p. 159
अनुष्टुप्
कदली वैजयन्त्याञ्च रम्भायां हरिणान्तरे ।कदला शाल्मलीब्राह्मीडिम्बिकासु च कथ्यते ॥ १३० ॥
1.27.130 · p. 159
अनुष्टुप्
नकुली कुक्कुटीमांस्योर्नकुलः पाण्डवे पशौ ।नाकुली कुक्कुटीकन्दे नाकुली चव्यरास्नयोः ॥ १३१ ॥
1.27.131 · p. 159
अनुष्टुप्
नैपाली नवमालीमनःशिलासुवहासु च ।ताम्बूली नागवल्ल्याञ्च ताम्बूलं क्रमुकेऽपि च ॥ १३२ ॥
1.27.132 · p. 159
अनुष्टुप्
पञ्चाली पुत्रिकागीत्योः पञ्चालो जनदेशयोः ।शाल्मली तरुभेदे स्याद्दीपभेदे च शाल्मली ॥ १३३ ॥
1.27.133 · p. 159
अनुष्टुप्
केवलो ज्ञानभेदे स्यात् केवलश्चैककृत्स्नयोः ।निर्णीते केवलञ्चोक्तं केवलः कुहने क्वचित् ॥ १३४ ॥
1.27.134 · p. 160
अनुष्टुप्
काहली तु तरुण्यां स्यात् काहलं भृशशुष्कयोः ।वाद्यभाण्डविशेषे तु काहला काहले खले ॥ १३५ ॥
1.27.135 · p. 160
अनुष्टुप्
गन्धोली वरटाभद्राशटीषु कथिता बुधैः ।अञ्जली कुडवे विद्यादञ्जलिः करसम्पुटे ॥ १३६ ॥
1.27.136 · p. 160
अनुष्टुप्
मदकलः स्यान्मत्तेभे मदेनाव्यक्तवाचि च ।भवेत् कलकलः सर्ज्जरसे कोलाहलेऽपि च ॥ १३७ ॥
1.27.137 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 द (wrong syllable)
स्मृतो विचिकिलो मल्लीप्रभेदे मदनेऽपि च ।बृहन्नलो गुडाकेशे महापोटगले मतः ॥ १३८ ॥
1.27.138 · p. 160
अनुष्टुप्
परिमलो विमर्शे च स्यान्मनोहरगन्धवत् ।रतोपमर्द्दविकसद्देहरागादिसौरभे ॥ १३९ ॥
1.27.139 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
यवफलः स्मृतो वेणौ मांसीकुटजयोरपि ।मुचाफलन्तु कर्पूरे मौक्तिके लवलीफले ॥ १४० ॥
1.27.140 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)
सदाफलः स्कन्दफले नारिकेलेऽप्युदुम्बरे ।विदुः कर्मफलं कर्मरङ्गकर्मविपाकयोः ॥ १४१ ॥
1.27.141 · p. 160
अनुष्टुप्
मृत्युफलो महाकाले कदल्यां मृत्युफल्यऽपि ।भवेद्वायुफलं शक्रकार्मुके करकेऽपि च ॥ १४२ ॥
1.27.142 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)
हलाहलो विषे ज्येष्ठ्यां हयलालाह्वयोरगे ।कुतूहलं कौतुके स्यात् प्रशस्तेऽपि कुतूहलम् ॥ १४३ ॥
1.27.143 · p. 160
अनुष्टुप्
दलामलं दमनके तथा मरुवकेऽपि च ।महाबलं सीसके स्याद् बलाह्येऽपि महाबला ॥ १४४ ॥
1.27.144 · p. 160
अनुष्टुप्
वेदतिबलायाञ्च खतमालो बलाहके ।धूमेऽपि कन्दरालः स्यात् पर्कटीगर्द्दभाण्डयोः ॥ १४५ ॥
1.27.145 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
महाकालस्त्रिनयने किम्पाके प्रमथान्तरे ।महानीलो भृङ्गराजे मणिनागविशेषयोः ॥ १४६ ॥
1.27.146 · p. 161
अनुष्टुप्
भवेद्बहुफलाभिख्याऽऽमलकीनीपवृक्षयोः ।जलाञ्चलं स्वतोवारिनिर्गमे शैवलेऽपि च ॥ १४७ ॥
1.27.147 · p. 161
अनुष्टुप्
गण्डशैलो ललाटे स्याच्च्युते स्थूलोपले गिरेः ।उलूखलं गुग्गुले स्यात् कण्डन्यर्थे उलूखलम् ॥ १४८ ॥
1.27.148 · p. 161
अनुष्टुप्
चक्रवालोऽद्रिभेदे स्याच्चक्रवालन्तु मण्डले ।स्मृतः पोटगलः काशे नले पोटगलो झषे ॥ १४९ ॥
1.27.149 · p. 161
अनुष्टुप्
हस्तिमल्लोऽभ्रमातङ्गे हस्तिमल्लो विनायके ।भस्मतूलं ग्रामकूटे पांशुवर्षे हिमेऽपि च ॥ १५० ॥
1.27.150 · p. 161
अनुष्टुप्
वातकेलिः कलालापे पिङ्गानां दन्तलेखने ।कमण्डलुः स्यात् करके पर्कटीपादपेऽपि च ॥ १५१ ॥
1.27.151 · p. 161
अनुष्टुप्
अक्षमालाऽक्षसूत्रे स्यादरुन्धत्यामपि स्मृता ।मणिमाला स्मृता हारे स्त्रीणां दन्तक्षतान्तरे ॥ १५२ ॥
1.27.152 · p. 161
अनुष्टुप्
ध्वनिलीला स्मृता वेणौ काहलावीणयोरपि ।रजस्वला पुष्पवत्यां सैरिभेऽपि रजस्वलः ॥ १५३ ॥
1.27.153 · p. 161
अनुष्टुप्
एकाष्टीलामपि प्राहुः शिवमल्लौषधीभिदोः ।अतिबला बलाभेदे प्रवालेऽतिबलो मतः ॥ १५४ ॥
1.27.154 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ब (wrong syllable)
भद्रकाली तु गन्धोल्यामुमायामोषधीभिदि ।हरिताली नभोररेवादूर्वाखड्गलतासु च ॥ १५५ ॥
1.27.155 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अन्धपाली स्मृता कोट्यां धात्रिकापरिरम्भयोः ।गन्धफली प्रियङ्गौ स्यात् कोरके चम्पकस्य च ॥ १५६ ॥
1.27.156 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)
आसुतीबल इत्याख्या कन्यापालकयज्वनोः ।स्यात् पण्डुकम्वलः श्वेतकम्बले च शिलान्तरे ॥ १५७ ॥
1.27.157 · p. 161
अनुष्टुप्
एककुण्डल इत्येष सौनन्दिनि धनाधिपे ।भवेदुद्दण्डपालस्तु सर्पमत्स्यप्रभेदयोः ॥ १५८ ॥
1.27.158 · p. 162
अनुष्टुप्
कृपीटपालमिच्छन्ति केनिपातसमुद्रयोः ।भवेत् सुरतताली तु दूतिकायां शिरःस्रजि ॥ १५९ ॥
1.27.159 · p. 162
अनुष्टुप्