All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · थान्तवर्गः
इति तान्तवर्गः ॥
रथः स्यात् स्यन्दने काये चरणे वेतसेऽपि च ।कुथः प्रवेणीकुशयोः पीथोऽर्के पीथमम्भसि ॥ १ ॥
1.16.1 · p. 75
अनुष्टुप्
कोथस्तु शठिते नेत्ररुग्भेदे मन्थनेऽपि च ।प्रोथोऽध्वगेऽश्वघोणायां कटीस्त्रीगर्भयोरपि ॥ २ ॥
1.16.2 · p. 75
अनुष्टुप्
क्वाथः स्याद्द्रवनिष्पाके दुःखव्यसनयोरपि ।सिक्थं नील्यां मधूच्छिष्टे सिक्थ ओदनसम्भवे ॥ ३ ॥
1.16.3 · p. 75
अनुष्टुप्
पृथुर्नृपे कृष्णजीरे वाप्यां पृथु महत्यपि ।दुःस्थः स्याद्दुर्गते मूर्खे प्रस्थः शिखरमानयोः ॥ ४ ॥
1.16.4 · p. 75
अनुष्टुप्
तुत्थोऽग्नावञ्जने तुत्था नीलीसूक्ष्मैलयोरपि ।मन्थः साक्तवमन्थाननेत्रामयदिवाकरे ॥ ५ ॥
1.16.5 · p. 75
अनुष्टुप्
ग्रन्थो धने स्यात् सन्दर्भे द्वात्रिंशद्वर्णनिर्म्मितौ ।ग्रन्थिः पर्वणि कौटिल्ये ग्रन्थिपर्णे गदान्तरे ॥ ६ ॥
1.16.6 · p. 75
अनुष्टुप्
अर्थः प्रकारे विषये वित्तकारणवस्तुषु ।अभिधेयेऽपि शब्दानां निवृत्तौ च प्रयोजने ॥ ७ ॥
1.16.7 · p. 75
अनुष्टुप्
तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु ॥
1.16.8 · p. 75
अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतम् ॥ ८ ॥
1.16.8 · p. 76
सार्थो वणिक्समूहे स्यादऽपि सङ्घातमात्रके ।पार्थस्तु ककुभे जिष्णौ गाथावाग्भेदवृत्तयोः ॥ ९ ॥
1.16.9 · p. 76
अनुष्टुप्
कन्था मृन्मयभित्तौ स्यात् कन्था प्रावरणान्तरे ।आस्था चाऽलम्बनास्थानयत्नापेक्षासु कथ्यते ॥ १० ॥
1.16.10 · p. 76
अनुष्टुप्
संस्था स्थितौ चरे नाशे व्यक्तिसादृश्ययोरपि ।वीथी गृहाङ्गे पङ्क्तौ च नाट्यरूपकवर्त्मनोः ॥ ११ ॥
1.16.11 · p. 76
अनुष्टुप्
यूथी पुष्पप्रभेदे स्यान्मागध्याञ्च कुरण्टके ।यूथं तिर्यक्समूहे स्याद्वृन्दमात्रे च भाषितम् ॥ १२ ॥
1.16.12 · p. 76
अनुष्टुप्
मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे ।उन्माथः कूटयन्त्रे स्यान्मारणे घातकेऽपि च ॥ १३ ॥
1.16.13 · p. 76
अनुष्टुप्
प्रमथोऽपि गणे प्रोक्तः पथ्यायां प्रमथा भवे ।निशीथोऽप्यर्द्धरात्रे स्यान्निशीथो रात्रिमात्रके ॥ १४ ॥
1.16.14 · p. 76
अनुष्टुप्
विदिथो योगिकृतिनोरुद्रथः शुनिकुक्कुटे ।शमथः सचिवे शान्तौ दमथो दमदण्डयोः ॥ १५ ॥
1.16.15 · p. 76
अनुष्टुप्
वरूथो रथगुप्तौ स्याद्वरूथं चर्मवेश्मनोः ।अतिथिः कुशपुत्रेऽपि कोपे प्राघुणकेऽपिच ॥ १६ ॥
1.16.16 · p. 76
अनुष्टुप्
वमथुर्वमनेऽपि स्याद् गजस्य करशीकरे ।क्षवथुः कथितः काशे हिक्कायामपि दृश्यते ॥ १७ ॥
1.16.17 · p. 76
अनुष्टुप्
समर्थोऽपि हिते शक्ते सम्बद्धार्थेऽपि सम्मतः ।सिद्धार्थः शाक्यसिंहे स्यात् सिद्धार्थः सितसर्षपे ॥ १८ ॥
1.16.18 · p. 76
अनुष्टुप्
कायस्थोऽपि नृजातेः स्यात् प्रभेदे परमात्मनि ।कायस्था तु हरीतक्यामामलक्याञ्च दर्शिता ॥ १९ ॥
1.16.19 · p. 76
अनुष्टुप्
वयःस्थो वाच्यवद्यूनि वयःस्था शाल्मलीद्रुमे ।ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकीषु च ॥ २० ॥
1.16.20 · p. 76
अनुष्टुप्
अश्वत्थो गर्द्दभाण्डे स्यात् पिप्पले पूर्णिमातिथौ ।उपस्थो मेण्ढ्र उत्सङ्गे भगे पायौ च कथ्यते ॥ २१ ॥
1.16.21 · p. 77
अनुष्टुप्
निर्ग्रन्थो नग्नकेऽपि स्यान्निःस्वबालिशयोरपि ।गोग्रन्थिस्तु करीषे स्याद् गोष्ठे गोजिह्विकौषधे ॥ २२ ॥
1.16.22 · p. 77
अनुष्टुप्
अव्यथा तु हरीतक्यां पन्नगे निर्व्यथेऽपि च ।षङ्ग्रन्थाऽपि वचासिंह्योः षड्ग्रन्थोऽपि प्रकीर्त्यते ॥ २३ ॥
1.16.23 · p. 77
अनुष्टुप्
चित्ररथः स्याद्गन्धर्वे रवौ विद्याधरान्तरे ।चतुष्पथश्चतुर्मार्गसङ्गमेऽपि द्विजेऽपि च ॥ २४ ॥
1.16.24 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त्र (wrong syllable)
वानप्रस्थो मधूके स्यात् किंशुके चाश्रमान्तरे ।दशमीस्थं नष्टबीजे स्थविरेऽपि प्रचक्ष्यते ॥ २५ ॥
1.16.25 · p. 77
अनुष्टुप्
अनीकस्थो रणखले गजशिक्षाविचक्षणे ।राजरक्षिषु चिह्ने ब वीरमर्द्दनकेऽपि च ॥ २६ ॥
1.16.26 · p. 77
अनुष्टुप्
भवेदितिकथा नष्टधर्मेऽपार्थे वचस्यऽपि ।अश्रद्धेयेऽप्युदरथिः समुद्रे च वियन्मणौ ॥ २७ ॥
1.16.27 · p. 77
अनुष्टुप्