कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · यान्तवर्गः (2/2)

अधःशय्या मृतौ भूमिशय्यायाम्पितृकानने ।उपकार्य्या वस्त्रसद्मन्युपकारोचितेऽन्यवत् ॥ १२० ॥
1.25.120 · p. 124
अनुष्टुप्
दुग्धतालीयमित्येतद् दुग्धाम्रे दुग्धफेणके ।भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि ॥ १२१ ॥
1.25.121 · p. 124
अनुष्टुप्
कालानुसार्य्यं कालीये शैलेये शिंशपाद्रुमे ।वृषाकपायी श्रीगौर्य्योर्जीवन्त्याञ्च शतावरी ॥ १२२ ॥
1.25.122 · p. 124
अनुष्टुप्
प्रत्युद्गमनीयमुपस्थेये स्याच्च धौतांशुकद्वये ।विश्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषघावपि ॥ १२३ ॥
1.25.123 · p. 124
अनुष्टुप्metre not read in every line