All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · षान्तवर्गः
इति शान्तवर्गः ॥
वृषः स्याद्वासके धर्मे सौरभेये च शुक्रले ।पुंराशिभेदयोः शृङ्ग्यां मूषिकश्रेष्ठयोरपि ॥ १ ॥
1.30.1 · p. 171
अनुष्टुप्
क्रपिकच्छ्वां वृषा प्रोक्ता व्रतिनामासने वृषी ।विषन्तु गरले तोयेऽतिविषायां विषा भवेत् ॥ २ ॥
1.30.2 · p. 171
अनुष्टुप्
तुषो धान्यत्वचि ख्यातो विभीतकतरावपि ।निषश्च स्पर्शने व्याजे तर्षो लिप्सापिपासयोः ॥ ३ ॥
1.30.3 · p. 171
अनुष्टुप्
वर्षं संवत्सरे वृष्टौ जम्बूद्वीपे घने विदुः ।प्रावृट्काले तु वर्षाः तु कर्षः कर्षणमानयोः ॥ ४ ॥
1.30.4 · p. 171
अनुष्टुप्
माषो व्रीह्यन्तरे मूर्खे मानत्वग्दोषभेदयोः ।मेषो राशिविषेषे स्यादुरणे भेषजान्तरे ॥ ५ ॥
1.30.5 · p. 171
अनुष्टुप्
शेषः संकर्षणेऽनन्त उपयुक्ततरे वधे ।प्रसादान्निजनिर्माल्यदाने शेषेऽपि कीर्त्तिता ॥ ६ ॥
1.30.6 · p. 171
अनुष्टुप्
शोषस्तु शोषणे राजयक्ष्मण्यपि निगद्यते ।दोषः स्याद्दूषणे पापे दोषा रात्रौ भुजेऽपि च ॥ ७ ॥
1.30.7 · p. 171
अनुष्टुप्
कोषस्तु कुड्मले पात्रे दिव्ये खड्गपिधानके ।जातिकोषेऽर्थसङ्घाते पेश्यां शबादिसङ्ग्रहे ॥ ८ ॥
1.30.8 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
घोषस्तु घोषके ध्वाने गोपालाभीरपल्लिषु ।घोषा तु शतपुष्पायां घोषः कांस्येऽम्बुदध्वनौ ॥ ९ ॥
1.30.9 · p. 171
अनुष्टुप्
प्रैषः स्यात् प्रेषणे क्लेशे मर्द्दनोन्मानयोरपि ।पौषो मासविशेषे स्यात् पौषन्तु महयुद्धयोः ॥ १० ॥
1.30.10 · p. 171
अनुष्टुप्
त्विट कान्तौ व्यवसाये च जिगीषायां रुचौ गिरि ।विट् व्यापने च विष्ठायां शुषिः शोषे विलेऽपि ॥ ११ ॥
1.30.11 · p. 171
metre not recognisednearly अनुष्टुप्
ऋषिर्वेदे वशिष्ठादौ दीधितावपि पठ्यते ।उषा वाणसुतारात्र्योरुषः कामिनि गुग्गुलौ ॥ १२ ॥
1.30.12 · p. 171
अनुष्टुप्
झषा नागबलायां स्याद्वैसारिणि झषो मतः ।कर्षूः करीपदहने कुल्यायामपि चेष्यते ॥ १३ ॥
1.30.13 · p. 171
अनुष्टुप्
निकषः शाणफलके निकषा यातुमातरि ।नहुषो राज्ञि भुजगे कलुषञ्चाविलैनसोः ॥ १४ ॥
1.30.14 · p. 172
अनुष्टुप्
किल्विषे वृजिने रोगेऽप्यपराधेऽपि किल्विषम् ।निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने ॥ १५ ॥
1.30.15 · p. 172
अनुष्टुप्
परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि ।पुरुषः पूरुषे साङ्ख्यज्ञे च पुन्नागपादपे ॥ १६ ॥
1.30.16 · p. 172
अनुष्टुप्
पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि ।ऊर्द्ध्वविस्तृतदोःपाणिनृमानेऽपि च पौरुषः ॥ १७ ॥
1.30.17 · p. 172
अनुष्टुप्
कल्माषो राक्षसे कृष्णे कल्माषं कृष्णपाण्डुरे ।कुल्माषो यावके प्रोक्तः कुल्माषं काञ्जिकेऽपि च ॥ १८ ॥
1.30.18 · p. 172
अनुष्टुप्
उष्णीषन्तु शिरोवेष्टे किरीटे लक्षणान्तरे ।तरीषः शोभनाकारे भेलेऽब्धिव्यवसाययोः ॥ १९ ॥
1.30.19 · p. 172
अनुष्टुप्
रोहिषं कत्तृणे ज्ञेयं रोहिषो हरिणान्तरे ।विश्लेषः स्याद्विघटने विश्लेषो विधुरेऽपि च ॥ २० ॥
1.30.20 · p. 172
अनुष्टुप्
प्रदोषः कालभेदे स्यात् प्रदोषो दोष इष्यते ।अभीषुः प्रग्रहे रश्मौ प्रत्यूषोऽहर्मुखे वसौ ॥ २१ ॥
1.30.21 · p. 172
अनुष्टुप्
गण्डूषो मुखपूर्त्तौ स्यात् करिहस्ताङ्गुलावपि ।प्रसृतोन्मिते शैलूषः कथितो नटबिल्वयोः ॥ २२ ॥
1.30.22 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ते (wrong syllable)
मारिषः शाकभेदे स्यान्मारिषा दक्षमातरि ।नाट्योक्त्यां मारिषश्चार्ये तारीषः कनकेऽम्बुधौ ॥ २३ ॥
1.30.23 · p. 172
अनुष्टुप्
आमिषं पलले लोभे सम्भोगोत्कोचयोरपि ।आमिषं सुन्दराकारपूपादिविषयेऽपि च ॥ २४ ॥
1.30.24 · p. 172
अनुष्टुप्
आकर्षः शारिफलके पाशके दूत इन्द्रिये ।आकर्षणेऽपि चाऽकर्षः कोदण्डाभ्यासवस्तुनि ॥ २५ ॥
1.30.25 · p. 172
अनुष्टुप्
संहर्षमाहुः स्पर्द्धायां प्रमोदेऽपि प्रभञ्जने ।शुश्रूषा श्रोतुमिच्छायां परिचर्याकथानयोः ॥ २६ ॥
1.30.26 · p. 173
अनुष्टुप्
जिगीषा जेतुमिच्छायां व्यवसायप्रकर्षयोः ।महिषी नृपपत्न्याञ्च सैरिभ्यामोषघीभिदि ॥ २७ ॥
1.30.27 · p. 173
अनुष्टुप्
अनिमिषः सुरे मत्स्येऽप्यनुकर्षोऽनुकर्षणे ।अनुकर्षो रथस्याऽधःस्थिते दारुणि चेष्यते ॥ २८ ॥
1.30.28 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मि (wrong syllable)
अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ।वातरूषस्तु वातूलोत्कोचयोः शक्रकार्म्मुके ॥ २९ ॥
1.30.29 · p. 173
अनुष्टुप्
अम्बरीषं रणे भ्राष्ट्रेऽप्यम्बरीषो नृपान्तरे ।मार्त्तण्डे खण्डपरशावाम्रातककिशोरयोः ॥ ३० ॥
1.30.30 · p. 173
अनुष्टुप्
परिघोषो निनादे स्यादवाच्ये जलदध्वनौ ।नन्दिघोषोऽर्ज्जुनरथे घोषे वन्दिजनस्य च ॥ ३१ ॥
1.30.31 · p. 173
अनुष्टुप्
महाघोषो मतङ्गे च महाघोषोऽतिघोषणे ।स्मृता कर्क्कटशृङ्ग्याञ्च महाघोषा मनीषिभिः ॥ ३२ ॥
1.30.32 · p. 173
अनुष्टुप्
किम्पुरुषः किन्नरे स्याल्लोकभेदेऽप्यलम्बुषः ।छर्द्दनेऽलम्बुषा प्रोक्ता मुण्डीरीस्वर्गवेश्ययोः ॥ ३३ ॥
1.30.33 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
पलङ्कषा गोक्षुरकरास्नागुग्गुलुकिंशुके ।तुण्डीरीलाक्षयोश्चाऽपि राक्षसेऽपि पलङ्कषः ॥ ३४ ॥
1.30.34 · p. 173
अनुष्टुप्