कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · नान्तवर्गः (2/2)

दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि ।भर्म्म स्वर्णे भृतौ भारे चर्म्म स्याद्वल्कलत्वचोः ॥ ११९ ॥
1.19.119 · p. 94
अनुष्टुप्
कर्म्म व्याप्ये क्रियायाञ्च वर्त्मनेत्रच्छदाध्वनोः ।वर्ष्म देहे प्रमाणातिसुन्दराकारयोरपि ॥ १२० ॥
1.19.120 · p. 95
अनुष्टुप्
सद्म स्यान्मन्दिरे नीरे छद्म साध्यापदेशयोः ।धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः ॥ १२१ ॥
1.19.121 · p. 95
अनुष्टुप्
प्रेम नर्म्मणि च स्नेहे व्योम वारिविहायसोः ।पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि ॥ १२२ ॥
1.19.122 · p. 95
अनुष्टुप्
लक्ष्मि[?] चिह्ने प्रधाने स्यादशनिः पविविद्युतोः ।अरत्निः कफणौ हस्ते सप्रकोष्ठतताङ्गुलौ ॥ १२३ ॥
1.19.123 · p. 95
अनुष्टुप्
सेनानीः कार्त्तिकेये स्यात्तथा सेनापतावऽपि ।ह्ला[?]दिनी वज्रतडितोः कामिनी भीरुवन्दयोः ॥ १२४ ॥
1.19.124 · p. 95
अनुष्टुप्
वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः ।वर्त्तनी तर्कुपिण्डे स्याद्वर्त्तनी मलिने पथि ॥ १२५ ॥
1.19.125 · p. 95
अनुष्टुप्
बोधनी बोधपिप्पल्योर्बोधनं गन्धबोधने ।वाणिनी नर्त्तकीमत्तविदग्धवनितासु च ॥ १२६ ॥
1.19.126 · p. 95
अनुष्टुप्
रजनी नीलिकालाक्षाहरिद्रायामिनीषु च ।नलिनी पद्मिनीपद्मव्योमसिन्धुसरोवरे ॥ १२७ ॥
1.19.127 · p. 95
अनुष्टुप्
नलिकायाञ्च नलिनी नलिनं कमले जले ।मालिनी वृत्तभेदे स्यान्मालाकारस्त्रियामपि ॥ १२८ ॥
1.19.128 · p. 95
अनुष्टुप्
चम्पानगर्य्यां गौर्य्याञ्च मन्दाकिन्याञ्च मालिनी ।शङ्खिनी श्वेतपुन्नागे चौरपुष्प्यां वधूभिदि ॥ १२९ ॥
1.19.129 · p. 95
अनुष्टुप्
पद्मिनी स्त्रीविशेषे स्यात् सरस्यामम्बुजेऽपि च ।हस्तिनी गजयोषायां नारीभेदे च हस्तिनी ॥ १३० ॥
1.19.130 · p. 95
अनुष्टुप्
सन्धिनी तु वृषाक्रान्ताकालदुग्धगवोः स्मृता ।भट्टिनी द्विजभार्य्यायां नाट्योक्तौ राजयोषिति ॥ १३१ ॥
1.19.131 · p. 95
अनुष्टुप्
रेचनी त्रिवृतादन्ती गुडरोचनिकासु च ।अर्शोघ्नी तालमूल्यां स्यादर्शोघ्नः शूरणेऽपि च ॥ १३२ ॥
1.19.132 · p. 96
अनुष्टुप्
शतघ्नी शस्त्रभेदे स्याद् वृश्चिकाल्यां करञ्जके ।असिक्नी स्यादवृद्धान्तःपुरप्रेष्यस्त्रियां धुनौ ॥ १३३ ॥
1.19.133 · p. 96
अनुष्टुप्
सूचना[?]व्यधने दृष्टौ गन्धनेऽभिनयेऽपि च ।भावना लेपने ध्याने वेदना ज्ञानदुःखयोः ॥ १३४ ॥
1.19.134 · p. 96
अनुष्टुप्
कुहना दम्भचर्य्यायामीर्ष्यालौ कुहनः पुनः ।पूतना राक्षसीभेदे हरीतक्याञ्च पूतना ॥ १३५ ॥
1.19.135 · p. 96
अनुष्टुप्
पृतनाऽनीकनीसेना चमूसैन्यान्तरेऽपि च ।चेतना संविदि प्रोक्ता वाच्यवत् प्राणिनि स्मृता ॥ १३६ ॥
1.19.136 · p. 96
अनुष्टुप्
प्रसन्ना मदुरायाञ्च प्रसादसहितेऽन्यवत् ।ललना नाडिकाभेदे जिह्वायां वरयोषिति ।श्लेष्मघ्नी कथिता मल्ल्यां कम्पिल्लकफणिज्जयोः ॥ १३७ ॥
1.19.137 · p. 96
अनुष्टुप्
महाधनं महालये सुवस्त्रे सिल्हकेऽपि च ।तपोधनस्तापसे स्यान्मुण्डीर्य्याञ्च तपोधना ॥ १३८ ॥
1.19.138 · p. 96
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ल (wrong syllable)
आराधनं तोषणे स्यात् प्राप्तौ च पचनेऽपि च ।उपधानं विशेषे च गेडुके प्रणयेऽपि च ॥ १३९ ॥
1.19.139 · p. 96
अनुष्टुप्
प्रणिधानं प्रयत्ने स्यात् प्रवेशे च समाहितौ ।आयोधनं वधे युद्धेऽवलग्नो मध्यलग्नयोः ॥ १४० ॥
1.19.140 · p. 96
अनुष्टुप्
अभिजनः कुले ख्यातौ जन्मभूम्यां कुलध्वजे ।भवेत् पुण्यजनो यक्षे राक्षसे सज्जनेऽपि च ॥ १४१ ॥
1.19.141 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)
विसर्जनं परित्यागे दाने सम्प्रेषणेऽपि च ।पृथग्जनः स्मृतो नीचे मूर्खे चाऽथ प्रयोजने ॥ १४२ ॥
1.19.142 · p. 96
अनुष्टुप्
कार्य्यहेत्वोर्निधुवनं सुरते कम्पनेऽपि च ।अनूचानो विनीते स्यात् साङ्गवेदविचक्षणे ॥ १४३ ॥
1.19.143 · p. 96
अनुष्टुप्
अपाचीनमवागर्थे विपर्यस्ते च वाच्यवत् ।प्रवचनं स्मृतं वेदे प्रकृष्टवचनेऽपि च ॥ १४४ ॥
1.19.144 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 च (wrong syllable)
वैरोचनस्तु सुगते बलिदैत्यार्कपुत्रयोः ।विरोचनोऽर्के दहने चन्द्रे प्रह्लादनन्दने ॥ १४५ ॥
1.19.145 · p. 97
अनुष्टुप्
आतञ्चनं प्रतीवापजवनाप्यायनेषु च ।अभिपन्नोऽपराध्येऽभिद्रुते ग्रस्ते विपद्गते ॥ १४६ ॥
1.19.146 · p. 97
अनुष्टुप्
प्रतिपन्नः स्मृतो धीरैर्विज्ञातेऽङ्गीकृतेऽपि च ।समापन्नं समासे स्यात् प्राप्ते क्लिष्टे वधेऽपि च ॥ १४७ ॥
1.19.147 · p. 97
अनुष्टुप्
भवेत् प्रजननं योनौ जन्मनि प्रगमेऽपि च ।आकलनं विबन्धे स्यादाकाङ्क्षापरिसङ्ख्ययोः ॥ १४८ ॥
1.19.148 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
सम्मूर्च्छनमभिव्याप्तौ सम्मूर्च्छामोहयोरपि ।निर्यातनं वैरशुद्धौ दाने न्यासार्पणे मतौ ॥ १४९ ॥
1.19.149 · p. 97
अनुष्टुप्
कपीतनं गर्द्दभाण्डशिरीषाम्रातकेषु च ।अश्वत्थे च समुत्थानमुद्यमे रोगनिर्णये ॥ १५० ॥
1.19.150 · p. 97
अनुष्टुप्
आच्छादनं सम्पिधाने स्मृतं वस्त्रे प्रवारणे ।राजादनं क्षीरिकायां प्रियाले किंशुकेऽपि च ॥ १५१ ॥
1.19.151 · p. 97
अनुष्टुप्
क्रौञ्चादनस्तु पिप्पल्यां चिञ्चोटकमृणालयोः ।उत्सादनं समुल्लेखोद्वाहनोद्वर्त्तनेषु च ॥ १५२ ॥
1.19.152 · p. 97
अनुष्टुप्
वृक्षादनश्चलदले मधुक्षुद्रकुठारयोः ।वृक्षादनी स्मृता वन्दाविदारीगन्धयोरपि ॥ १५३ ॥
1.19.153 · p. 97
अनुष्टुप्
सदादानोऽभ्रमातङ्गे हेरम्बे गन्धहस्तिनि ।अवदानमितिवृत्ते कर्मखण्डनयोरपि ॥ १५४ ॥
1.19.154 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
कुचन्दनञ्च पत्राङ्गे द्रुभेदे रक्तचन्दने ।आस्कन्दनं तिरस्कारे रणे संशोषणेऽपि च ॥ १५५ ॥
1.19.155 · p. 97
अनुष्टुप्
संवननं समालोचे वशीकारे प्रकीर्त्तितम् ।विहेठनन्तु हिंसायां मर्द्दने च विडम्बने ॥ १५६ ॥
1.19.156 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
जलाटनो लोहपृष्ठे जलौकायां जलाटनी ।प्रस्फोटनं भवेत् सूर्ये ताडने च प्रकाशने ॥ १५७ ॥
1.19.157 · p. 98
अनुष्टुप्
उत्पतनं समुत्पत्तौ तथार्द्धगमनेऽपि च ।उद्वर्तनं सोत्पतनेऽप्यपावृत्तौ विलेपने ॥ १५८ ॥
1.19.158 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
समादानं समीचीनग्रहणे नित्यकर्मणि ।संयमनी व्रते पुर्य्यां संयमनी यमस्य च ॥ १५९ ॥
1.19.159 · p. 98
अनुष्टुप्metre not read in every line
निशमनं स्तुतौ दृष्टौ दृष्ट्यालोचे निशामनम् ।प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ॥ १६० ॥
1.19.160 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
अभिमानः स्मृतो ज्ञाने वर्गे प्रणयहिंसयोः ।अधिष्ठानं पुरेचक्रे प्रभावेऽध्यासनेऽपि च ॥ १६१ ॥
1.19.161 · p. 98
अनुष्टुप्
वर्द्धमानः पुष्टिभेदे शरावैरण्डविष्णुषु ।मालुधानश्चित्रसर्पे मालुधानी लतान्तरे ॥ १६२ ॥
1.19.162 · p. 98
अनुष्टुप्
प्रतियत्नस्तु संस्कारलिप्सोपग्रहणेषु च ।भवेदुदयनो वत्सराजेऽगस्त्यमुनावऽपि ॥ १६३ ॥
1.19.163 · p. 98
अनुष्टुप्
विहननं विघाते स्यात् पिञ्जने तूलधूनने ।संवाहनं वाहनेऽपि भारादेरङ्गमर्द्दने ॥ १६४ ॥
1.19.164 · p. 98
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
उद्वाहनं दिशीत्ये स्याद्रज्जावुद्वाहिनी मता ।महासेनो विशाखे स्यान्महासैन्यपतावपि ॥ १६५ ॥
1.19.165 · p. 98
अनुष्टुप्
रसायनं विडङ्गे स्याद्राजव्याधिजितौषधे ।रसायनः पक्षिराजे विषेऽपि च रसायनम् ॥ १६६ ॥
1.19.166 · p. 98
अनुष्टुप्
कात्यायनो वररुचौ गौर्यां कात्यायनी मता ।काषायवस्त्रविधवाऽर्द्धजरत्यामपीष्यते ॥ १६७ ॥
1.19.167 · p. 98
अनुष्टुप्
सुदर्शनो हरेश्चक्रेऽमरावत्यां सुदर्शना ।आज्ञायामोषधीभेदे मरुजम्ब्वां सुदर्शना ॥ १६८ ॥
1.19.168 · p. 98
अनुष्टुप्
निर्भर्त्सनं खलीकारेऽलक्तके च समापनम् ।परिच्छेदे समाप्तौ च समाधाने प्रमापणे ॥ १६९ ॥
1.19.169 · p. 99
अनुष्टुप्
अन्वासनं स्नेहवस्तावुपास्तावनुशोचने ।उपासनं शराभ्यासे शुश्रूषायाञ्च हिंसने ॥ १७० ॥
1.19.170 · p. 99
अनुष्टुप्
निरसनं निरासे स्याद्वधे निष्ठीवनेऽपि च ।निर्वासनं हिंसने च नगरादेर्बहिष्कृतौ ॥ १७१ ॥
1.19.171 · p. 99
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ।सारसनं मेखलायामुरस्त्रे च तनुत्रिणाम् ॥ १७२ ॥
1.19.172 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
प्रहसनं भवेद्भङ्गे प्रहासाक्षेपयोरपि ।वारासनं वाःसदने शूल्मपद्वारपालयोः ॥ १७३ ॥
1.19.173 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
घनाघनो घातुकमत्तदन्तिनो-निरन्तरे वासववर्षुकाब्दयोः ।सनातनः शाश्वतकंसवैरिणोःशिवे पितॄणामतिथौ सुनिश्चले ॥ १७४ ॥
1.19.174 · p. 99
वंशस्थम्
सुयामुनो वत्सराजे प्रसादेऽभ्यन्तरेऽच्युते ।विस्मापनाख्या कुहके गन्धर्वनगरे स्मरे ॥ १७५ ॥
1.19.175 · p. 99
अनुष्टुप्
सुकर्मा ग्रहयोगे स्यात् सुकर्मा देवशिल्पिनि ।दुर्नामाख्यातिगुदजदीर्घकोशिकयोरपि ॥ १७६ ॥
1.19.176 · p. 99
अनुष्टुप्
द्विजन्मा दशने विप्रे भूतात्मा पुद्गले विधौ ।आर्यमा सूर्यभक्तायां सूर्ये च पितृदैवते ॥ १७७ ॥
1.19.177 · p. 99
अनुष्टुप्
सुदामा भूधरे मेघे विश्वग्ज्ञाऽनलचन्द्रयोः ।सुधन्वा प्रौढधानुष्के सुधन्वा विश्वकर्मणि ॥ १७८ ॥
1.19.178 · p. 99
अनुष्टुप्
वनश्वा गन्धमार्ज्जारे बन्धकव्याघ्रयोरपि ।परिश्वा क्रतुकर्मज्ञे याज्ञिके परिचारके ॥ १७९ ॥
1.19.179 · p. 99
अनुष्टुप्
अथर्वा ब्राह्मणे वेदे त्वऽथर्व परिकीर्तितम् ।सुपर्वा त्रिदशे वंशे शरे धूमेऽपि पर्वणि ॥ १८० ॥
1.19.180 · p. 100
अनुष्टुप्
ललाम च ललामञ्च लाञ्छनध्वजवाजिषु ।शृङ्गे प्रधाने भूषायां रम्ये बालधिपुण्ड्रयोः ॥ १८१ ॥
1.19.181 · p. 100
अनुष्टुप्
प्रभावे च कलापी तु प्लक्षबर्हिणयोरपि ।प्रत्यर्थी कथितः शत्रौ प्रत्यर्थी प्रतिवादिनि ॥ १८२ ॥
1.19.182 · p. 100
अनुष्टुप्
केशरी तुरगे सिंहे पुन्नागे नागकेशरे ।शिखरी पादपे शैले तथाऽपामार्गकोट्टयोः ॥ १८३ ॥
1.19.183 · p. 100
अनुष्टुप्
शृङ्गारी तु सुवेशे स्यात् क्रमुके च मतङ्गजे ।विलासी भोगिनि व्याले पलाशी वृक्षरक्षसोः ॥ १८४ ॥
1.19.184 · p. 100
अनुष्टुप्
शिखण्डी तु मयूरे स्याद्बाणक्षत्रियभेदयोः ।कलापे चाऽथ गुञ्जायां यूथिकायां शिखण्डिनी ॥ १८५ ॥
1.19.185 · p. 100
अनुष्टुप्
विषयि त्विन्द्रिये ख्यातं वाच्यवद्विषयान्विते ।व्यवायी कामपे द्रव्यविशेषे च समीरितः ॥ १८६ ॥
1.19.186 · p. 100
अनुष्टुप्
तपस्वी तापसे चानुकम्पके च तपस्विनी ।मांसिका कटुरोहिण्योस्तरस्वी वेगिशूरयोः ॥ १८७ ॥
1.19.187 · p. 100
अनुष्टुप्
लाङ्गली बलभद्रे स्यान्नारिकेले च लाङ्गली ।कुण्डली वरुणे केकिभोगिनोश्च सकुण्डले ॥ १८८ ॥
1.19.188 · p. 100
अनुष्टुप्
चोलकी तु करीरे स्यान्नारङ्गे किष्कुपर्वणि ।फलकी स्यादल्लिसाख्यमत्स्ये फलकपाणिके ॥ १८९ ॥
1.19.189 · p. 100
अनुष्टुप्
कञ्चुकी भुजगे षिङ्गे मल्ले जाङ्गलिकद्रुमे ।सामयोनिस्तु सामोत्थे सामयोनिर्गजे विधौ ॥ १९० ॥
1.19.190 · p. 100
अनुष्टुप्
कुम्भयोनिरगस्त्ये स्यादर्ज्जुनस्य गुरावपि ।आत्मयोनिर्विधौ कामे चित्रभानुः खगेऽनले ॥ १९१ ॥
1.19.191 · p. 100
अनुष्टुप्
महामुनिरगस्त्ये स्याद्धन्याकागस्त्ययोरपि ।कलध्वनिः कोकिले स्यात् पारावतमयूरयोः ॥ १९२ ॥
1.19.192 · p. 100
अनुष्टुप्
गदयित्नुः स्मृतः कामे जल्पके कामुकेऽपि च ।मदयित्नुर्भवेत् सीधौ मद्ये स्यान्मदयित्नु च ॥ १९३ ॥
1.19.193 · p. 101
अनुष्टुप्
हर्षयित्नु सुते हेम्नि घोषयित्नुर्द्विजे पिके ।स्तनयित्नुः पयोवाहे तद्ध्वनौ मृत्युरोगयोः ॥ १९४ ॥
1.19.194 · p. 101
अनुष्टुप्
विष्वक्सेना फलिन्यां स्याद्विश्वक्सेनो जनार्द्दने ।देवसेनेन्द्रवाहिन्यां सेनायाञ्च दिवौकसाम् ॥ १९५ ॥
1.19.195 · p. 101
अनुष्टुप्
नागाङ्गना नागयष्टिकरिमुद्गरिकाख्ययोः ।श्लेष्मघना मल्लिकायां केतक्यामपि कथ्यते ॥ १९६ ॥
1.19.196 · p. 101
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 घ (wrong syllable)
प्रसाधिनी कङ्कतिका सिद्धौ वेशे प्रसाधनम् ।सामिधेनी ऋचि प्रोक्ता सामधेनी समिध्यऽपि ॥ १९७ ॥
1.19.197 · p. 101
अनुष्टुप्
सरोजिनी स्यात् कासारे पद्मिनीपद्मयोस्तथा ।विलेपनी स्यात्तुरला सुवेशाङ्गनयोरपि ॥ १९८ ॥
1.19.198 · p. 101
अनुष्टुप्
मातुलानी कलापे स्थाद्भङ्गायां मातुलस्त्रियाम् ।पयस्विनी तु गोधेन्वां विभावर्यां पयस्विनी ॥ १९९ ॥
1.19.199 · p. 101
अनुष्टुप्
गवादनीन्द्रवारुण्या गवां घोषादनाश्रये ।सौदामिन्यऽप्सरोभेदे तडित्तद्भेदयोरपि ॥ २०० ॥
1.19.200 · p. 101
अनुष्टुप्
पीतचन्दनमित्येतत् कालीयकहन्द्रियोः ।वरचन्दनमाख्यातं कालीये देवदारुणि ॥ २०१ ॥
1.19.201 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे ।ज्योत्स्नायां कुङ्कुमे चाऽतिसर्ज्जनं वधदानयोः ॥ २०२ ॥
1.19.202 · p. 101
अनुष्टुप्
मधुसूदनसंज्ञा च भ्रमरे वनमालिनि ।स्यान्मृत्युवञ्चनः शम्भौ श्रीफलद्रोणकाकयोः ॥ २०३ ॥
1.19.203 · p. 101
अनुष्टुप्
स्यादपवर्ज्जनं मोक्षे परित्यागे विहायिते ।अपसर्ज्जनमास्नाते परिवर्ज्जनदानयोः ॥ २०४ ॥
1.19.204 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः ।स्यात् प्रतिपादनं दाने प्रतिपत्तौ च बोधने ॥ २०५ ॥
1.19.205 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
गन्धमादनमित्याहुर्गन्धके वानरान्तरे ।अद्रिभेदे च भृङ्गे च सुरायां गन्धमादनी ॥ २०६ ॥
1.19.206 · p. 102
अनुष्टुप्
स्यादनुवासनं स्नेहकर्म्मधूपनयोरपि ।श्वेतवाहन इत्याख्या सुधाधाम्नि धनञ्जये ॥ २०७ ॥
1.19.207 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नु (wrong syllable)
हरिवाहन इत्युक्तः शचीपतिविवस्वतोः ।अभिनिष्ठानशब्दोऽपि विसर्ज्जनीयेऽक्षरे मतः ॥ २०८ ॥
1.19.208 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धूमकेतनमिच्छन्ति हुताशग्रहभेदयोः ।स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि ॥ २०९ ॥
1.19.209 · p. 102
अनुष्टुप्
शिवकीर्त्तननामाऽपि भृङ्गरीटेऽसुरद्विषि ।शालङ्कायनशब्दः स्यादृषिभेदे च नन्दिनि ॥ २१० ॥
1.19.210 · p. 102
अनुष्टुप्
स्यात्पद्मलाच्छनाभिख्या विधौ लोकेश्वरार्कयोः ।धनदे च सरस्वत्यां तारालक्ष्म्योरपि स्मृता ॥ २११ ॥
1.19.211 · p. 102
अनुष्टुप्
स्यात् षष्ठहायनो धान्यविशेषेऽपि मतङ्गजे ।जानीयादुपसम्पन्नं निहिते च सुसंस्कृते ॥ २१२ ॥
1.19.212 · p. 102
अनुष्टुप्
विश्वकर्मा देवशिल्पिमुनिभेदोष्णरश्मिषु ।कृष्णवर्त्मा हुताशे स्याद् दुराचारे विधुन्तुदे ॥ २१३ ॥
1.19.213 · p. 102
अनुष्टुप्
अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतः ।श्वेतधामा कलानाथे घनसाराब्धिभेदयोः ॥ २१४ ॥
1.19.214 · p. 102
अनुष्टुप्
तिक्तपर्वा तु यष्ट्याह्वगुडूचीहिलमोचिषु ।विष्कुपर्वा भवेद्वेणाविक्षौ पोटगलेऽपि च ॥ २१५ ॥
1.19.215 · p. 102
अनुष्टुप्
वृषपर्वा हरे दैत्ये शृङ्गारुणि कसेरुणि ।व्योमचारी खगे देवे चिरजीवी द्विकाकयोः ॥ २१६ ॥
1.19.216 · p. 102
अनुष्टुप्
कारन्धमे कांस्यकारे धातुवादरतेऽपि च ।वनमाली तु गोविन्दे वाराह्यां वनमालिनी ॥ २१७ ॥
1.19.217 · p. 103
अनुष्टुप्
प्रचलाकी भुजङ्गे स्याच्चित्रमेखलकेऽपि च ।सम्प्रयोगी कलाकेलौ कामुके सुप्रयोजके ॥ २१८ ॥
1.19.218 · p. 103
अनुष्टुप्
अन्तेवासी भवेच्छिष्ये चाण्डाले प्रान्तगेऽपि च ।विघ्नकारी स्मृतो घोरदर्शनेऽपि विघातिनि ॥ २१९ ॥
1.19.219 · p. 103
अनुष्टुप्
कामचारी तु कमने स्वच्छन्दकलविङ्कयोः ।हृष्टशृङ्गी भवेद्दंशे नारीषण्डे वृकोदरे ॥ २२० ॥
1.19.220 · p. 103
अनुष्टुप्
शकुलादन्यऽभिख्या तु मांसीपिचुलिकाह्वयोः ।कटुकाजलपिप्पल्योः कथ्यते शकुलादिनी ॥ २२१ ॥
1.19.221 · p. 103
अनुष्टुप्
स्याद्वरवर्णिनी लाक्षाहरिद्रारोचनासु ।स्त्रीरत्ने च फलिन्याञ्च दृश्यते वरवर्णिनी ॥ २२२ ॥
1.19.222 · p. 103
अनुष्टुप्metre not read in every line
अन्तावसायी श्वपचे मुनिभेदे च नापिते ।जायानुजीवी तु नटे दुर्गताश्विनयोर्बके ॥ २२३ ॥
1.19.223 · p. 103
अनुष्टुप्
सहस्रवेधी स्यादम्लवेतसे रामटेऽपि च ।कलानुनादी रोलम्बे कलविङ्के कपिञ्जले ॥ २२४ ॥
1.19.224 · p. 103
अनुष्टुप्