कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अयव्ययानेकार्थवर्गः · अव्ययानि

इति क्षान्तवर्गः ॥

इति श्रीसकलवैद्यराजचक्रमुक्ताशेखरस्य गद्यपद्यविद्यानिधेः श्रीमहेश्वरस्य कृतौ विश्वप्रकाशे अनेकार्थशब्दपरिच्छेदः प्रथमः ।

अथाव्ययानि वक्ष्यन्ते व्यक्तं पूर्वाक्षरक्रमात् ।अकारादिकमप्यस्ति नाधिकं पूर्वतोऽपि च ॥ १ ॥
2.1.1 · p. 185
अनुष्टुप्
अ स्यादभावे स्वल्पार्थे विष्णावीशे त्वनव्ययम् ।
2.1.2 · p. 185
अनुष्टुप्
आङ् सीमायां परिव्याप्तौ कियायोगेषदर्थयोः ॥ २ ॥
2.1.2 · p. 185
अनुष्टुप्
आ प्रगृज्ञः स्मृतौ वाक्ये आः स्यात् सन्तापकोपयोः ।
2.1.4 · p. 185
अनुष्टुप्
इ खेदे च रुषोक्तौ च कामदेवे त्वनव्ययम् ॥ ३ ॥
2.1.3 · p. 185
अनुष्टुप्
ई दुःसभावने कोपे लक्ष्म्यामीः स्यादनव्ययम् ।
2.1.6 · p. 185
अनुष्टुप्
उ सम्बुद्धौ रुषोक्तौ च शम्भुवाची त्वनव्ययम् ॥ ४ ॥
2.1.4 · p. 185
अनुष्टुप्
ऊ वाक्यारम्भेऽनुकम्पारक्षाहूतिष्वनव्ययम् ।
2.1.8 · p. 185
अनुष्टुप्
ऋ वाक्ये चाऽपि कुत्सायां देवाम्बायान्त्वनव्ययम् ॥ ५ ॥
2.1.5 · p. 185
अनुष्टुप्
ए-ऐ-शब्दौ तु हे-हैवत् स्मृत्यामन्त्रणहूतिषु ।
2.1.10 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ओऔशब्दौ च होहौवत सम्बुद्ध्याह्वानयोर्मतौ ॥ ६ ॥
2.1.6 · p. 185
अनुष्टुप्metre not read in every line
कु पापे चेषदर्थे च कुत्सायाञ्च निवारणे ।मनागल्पे च मन्दे च धिग्निर्भर्त्सननिन्दयोः ॥ ७ ॥
2.1.7 · p. 186
अनुष्टुप्
अङ्ग सम्बोधने हर्षे पुनरर्थे च कीर्त्तितम् ।
2.1.13 · p. 186
अनुष्टुप्
तिर्यक् तिरोऽर्थे वक्रे च विहङ्गादौ त्वनव्ययम् ॥ ८ ॥
2.1.8 · p. 186
अनुष्टुप्
चान्वाचये समाहारेऽप्यन्योन्यार्थे समुच्चये ।पक्षान्तरे तथा पादपूरणेऽप्यवधारणे ॥ ९ ॥
2.1.9 · p. 186
अनुष्टुप्
प्राक प्रभातेऽप्यतीते च दिग्देशकालतः स्मृतम् ।प्रागऽग्रेऽपि च पूर्वस्मिन् भवे प्रागप्यनन्तरे ॥ १० ॥
2.1.10 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ननुच प्रश्नदृष्ट्योक्त्योः सम्यग्गाढप्रशंसयोः ।किञ्चारम्भे च साकल्ये हिरुग्मध्यविनार्थयोः ॥ ११ ॥
2.1.11 · p. 186
अनुष्टुप्
नञऽभावे निषेधे च स्वरूपार्थे व्यतिक्रमे ।ईषदर्थे च सादृश्ये तद्विरुद्धतदन्ययोः ॥ १२ ॥
2.1.12 · p. 186
अनुष्टुप्
सुष्टु प्रशंसनेऽपि स्यादत्यर्थेऽपि च कथ्यते ।अपष्ठु निरवद्ये स्याच्छोभमानेऽपि च स्मृतम् ॥ १३ ॥
2.1.13 · p. 186
अनुष्टुप्
अन्तरेण-पदं विद्याद्विनामध्यार्थयोरपि ।
2.1.20 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्च (wrong syllable)
तु पादपूरणे भेदे समुच्चयेऽवधारणे ॥ १४ ॥
2.1.14 · p. 186
अनुष्टुप्metre not read in every line
अस्तु स्यादभ्यनुज्ञानेऽप्यसूयानीहयोरपि ।किंस्वित् प्रश्ने वितर्के च शश्वत् पुनःसदार्थयोः ॥पश्चात् प्रतीच्यां चरमे साक्षात् प्रत्यक्षतुल्ययोः ।सकृत् सहैकवारे स्यादाराद्दूरसमीपयोः ॥ १५ ॥
2.1.15 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पु (wrong syllable)
यावत् तावत् परिच्छेदे कार्त्स्न्ये मानेऽवधारणे ।पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेऽग्रतः ॥ १६ ॥
2.1.16 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
उत प्रश्ने वितर्के स्यादुताऽप्यर्थविकल्पयोः ।किमुतातिशये प्रश्ने विकल्पे च प्रयुज्यते ॥ १७ ॥
2.1.17 · p. 187
अनुष्टुप्
हन्त हर्षे विषादे च वाक्यारम्भविवादयोः ।स्वस्त्याशीःक्षेमपुण्यादौ तद्वत प्रश्नविकल्पयोः ॥ १८ ॥
2.1.18 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बताऽमन्त्रणसन्तोषखेदानुक्रोपविस्मये ।अहोबताऽनुकम्पायां खेदे सम्बोधनेऽपि च ॥ १९ ॥
2.1.19 · p. 187
अनुष्टुप्
तत आदौ परिप्रश्ने पञ्चम्यर्थे कथान्तरे ।आनन्तर्ये कुतः प्रश्ने पञ्चम्यर्थे च निह्नवे ॥ २० ॥
2.1.20 · p. 187
अनुष्टुप्
अतो भवेत् कारणापदेशनिर्द्देशयोरपि ।पञ्चम्यर्थे ततः प्रोक्तं पञ्चम्यर्थे च शासने ॥ २१ ॥
2.1.21 · p. 187
अनुष्टुप्
सम्भावनावयवयोरन्ततः-पदमिष्यते ।इतो यतश्च नियमे पञ्चम्यर्थविभागयोः ॥ २२ ॥
2.1.22 · p. 187
अनुष्टुप्
इति प्रकरणे हेतौ प्रकाशादिसमाप्तिषु ।निदर्शनप्रकारे स्यादनुकर्षे च सम्मतम् ॥ २३ ॥
2.1.23 · p. 187
अनुष्टुप्
अतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽप्यति ।नितान्तासम्प्रतिक्षेपवाचकोऽप्येष दर्शितः ॥ २४ ॥
2.1.24 · p. 187
अनुष्टुप्
प्रति प्रतिविधौ वीप्सा लक्षणेषु प्रयोगतः ।मात्रार्थे चाभिमुख्ये च प्रतिदानादिषु प्रति ॥ २५ ॥
2.1.25 · p. 187
अनुष्टुप्
अथो अथ च सम्प्रश्ने मङ्गलारम्भयोरपि ।अनन्तरे च कार्त्स्न्ये च संशये च प्रकीर्तितः ॥ २६ ॥
2.1.26 · p. 187
अनुष्टुप्
यथाशब्दस्तु निर्दिष्टस्तुल्ययोगानुमानयोः ।तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चये ॥ २७ ॥
2.1.27 · p. 188
अनुष्टुप्
उभौ चोद्देशनिर्द्देशसादृश्येषु प्रकाशितौ ।कारकस्योऽपपत्तौ च सर्वथा हेतुबाढयोः ॥ २८ ॥
2.1.28 · p. 188
अनुष्टुप्
अन्यथा वितथार्थे स्यादन्यथा चाऽपरार्थके ।वृथा निष्कारणे बन्धे वृथा स्याद्विधिवर्ज्जिते ॥ २९ ॥
2.1.29 · p. 188
अनुष्टुप्
उत् प्रकाशे विभागे च प्राबल्यास्वास्थ्यशक्तिषु ।प्राधान्ये बन्धने भावे मोक्षे लाभोर्द्धकर्मणोः ॥ ३० ॥
2.1.30 · p. 188
अनुष्टुप्
नु स्यात् प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयोः ।ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे ॥ ३१ ॥
2.1.31 · p. 188
अनुष्टुप्
आमन्त्रणे चाऽपि ननु किन्नु प्रश्नवितर्कयोः ।नाना विनार्थेऽपि भवेन्नानाऽनेकोभयार्थयोः ॥ ३२ ॥
2.1.32 · p. 188
अनुष्टुप्
स्थाने तु कारणार्थे च युक्तसादृश्ययोरपि ।अनु हीने सहार्थे च पश्चात् सादृश्ययोरनु ॥ ३३ ॥
2.1.33 · p. 188
अनुष्टुप्
आयामे च नियामे च लक्षणादावनुक्रमे ।नि निवेशभृशार्थाधोभावविन्यासराशिषु ॥ ३४ ॥
2.1.34 · p. 188
अनुष्टुप्
आश्रये बन्धने मोक्षे दारकर्मणि दर्शने ।अन्तर्भावे च सामीप्यकौशलोपरमेषु च ।नित्यार्थे संयमे चाऽपि क्षेपार्थेऽपि च विश्रुतम् ॥ ३५ ॥
2.1.35 · p. 188
अनुष्टुप्
अप स्यादपकृष्टार्थे वर्ज्जनार्थवियोगयोः ।विपर्ययेऽपि विकृतौ चौर्ये निर्द्देशहर्षयोः ॥ ३६ ॥
2.1.36 · p. 188
अनुष्टुप्
उप सामर्थ्यदाक्षिण्यदोषाख्यानात्ययेषु च ।आचार्यकरणे दाने व्याप्तावारम्भपूजयोः ॥ ३७ ॥
2.1.37 · p. 189
अनुष्टुप्
तद्योगेऽपि च लिप्सायां भरणार्थोपमार्थयोः ।उप हीनेऽधिके प्रोक्तोऽप्यासन्नेऽप्युप कीर्त्तितः ॥ ३८ ॥
2.1.38 · p. 189
अनुष्टुप्
अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये ।तथा युक्तपदार्थेषु कामचारक्रियासु च ॥ ३९ ॥
2.1.39 · p. 189
अनुष्टुप्
बशब्द उपमायां स्याद्वरुणे वानुनयेऽपि च ।वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये ॥ ४० ॥
2.1.40 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 द्वरु (syllable split)
वि श्रेष्ठातीतनानार्थे विः स्यात् पक्षिष्वनव्ययम् ।वै स्यात् सम्बोधने पादपूरणेऽनुनयेऽपि च ॥ ४१ ॥
2.1.41 · p. 189
अनुष्टुप्
अभीऽत्थम्भूतकथनेऽप्यभि वीप्साभिमुख्ययोः ।
2.1.49 · p. 189
अनुष्टुप्
स्म पादपूरणेऽतीते सामि निन्दार्द्धयोर्मतम् ॥ ४२ ॥
2.1.42 · p. 189
अनुष्टुप्
अमा सहार्थान्तिकयोर्नूनं निश्चिततर्कयोः ।कामम् प्रकामेऽनुमतावसूयानुगमेऽपि च ॥ ४३ ॥
2.1.43 · p. 189
अनुष्टुप्
नाम प्राकाश्यसम्भाव्यकुत्साभ्युपगमेषु च ।साम्प्रतं चाधुनार्थे स्याद् युक्तार्थेऽपि च साम्प्रतम् ॥ ४४ ॥
2.1.44 · p. 189
अनुष्टुप्
हुं वितर्के परिप्रश्ने हुं रुषोक्त्यनुनीतिषु ।तुम् प्रश्नेऽङ्गीकृतौ रोषे आस्मृतौ चावधारणे ॥ ४५ ॥
2.1.45 · p. 189
अनुष्टुप्
कुं प्रश्नेऽपि रुषोक्तौ च प्राध्वं नम्रानुकूलयोः ।किं प्रश्नेऽपि च कुत्सायां कं शिरःमुखवारिषु ॥ ४६ ॥
2.1.46 · p. 189
अनुष्टुप्
नुमिन्यनुमतौ प्रोक्तं प्रणवे चाऽप्युपक्रमे ।एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥ ४७ ॥
2.1.47 · p. 190
अनुष्टुप्
अलं भूषणपर्याप्तिवारणेषु निरर्थके ।अलं शक्तौ च निर्द्दिष्टं शं कल्याणे सुखेऽपि च ॥ ४८ ॥
2.1.48 · p. 190
अनुष्टुप्
सं सङ्गार्थे प्रकृत्यर्थे शोभनार्थसमर्थयोः ।जोषं सुखे प्रशंसायां तूष्णींलङ्घनयोरपि ॥ ४९ ॥
2.1.49 · p. 190
अनुष्टुप्
तूष्णीकं तु स्मृतं मौने मौनशीले त्वनव्ययम् ।तद्दिनं दिनमध्ये स्यात् तद्दिनं प्रतिवासरे ॥ ५० ॥
2.1.50 · p. 190
अनुष्टुप्
अभीक्ष्णं मुहुरश्रान्ते शीघ्रप्रकर्षयोरपि ।अभीक्ष्णं तु तथा पौनःपुन्ये स्यात् सन्ततेऽपि च ॥ ५१ ॥
2.1.51 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
इदानीं वाक्यभूषायां सम्प्रत्यर्थे च वर्त्तते ।कथं प्रश्ने सम्भ्रमे च प्रकारार्थे च सम्भवे ॥ ५२ ॥
2.1.52 · p. 190
अनुष्टुप्
किमु सम्भावनायां स्याद्विमर्शे च किमु स्मृतम् ।भृशं प्रकर्षे चात्यर्थेऽवश्यं नित्यप्रयत्नयोः ॥ ५३ ॥
2.1.53 · p. 190
अनुष्टुप्
अयि प्रश्नानुनययोः समयान्तिकमध्ययोः ।अये क्रोषे विषादे च सम्भ्रमे स्मरणेऽपि च ॥ ५४ ॥
2.1.54 · p. 190
अनुष्टुप्
प्र प्रकर्षे गताद्यर्थे दुः स्यात् कष्टनिषेधयोः ।पुनरप्रथमे भेदे स्वः स्वर्गपरलोकयोः ॥ ५५ ॥
2.1.55 · p. 190
अनुष्टुप्
परा विमोक्षप्राधान्यप्रतिलोमेषु वर्त्तते ।आभिमुख्ये भृषार्थे च विक्रमे च गतौ वधे ॥ ५६ ॥
2.1.56 · p. 190
अनुष्टुप्
पुरा पुराणे निकटप्रबन्धातीतभाविषु ।परि स्यात् सर्वतोभावे वर्ज्जने लक्षणादिषु ॥ ५७ ॥
2.1.57 · p. 190
अनुष्टुप्
पूजालिङ्गनवीप्सासु भूषणे व्याधिशोकयोः ।दोषाख्यानेऽप्युपरमे व्याप्तौ निवसनेऽपि च ॥ ५८ ॥
2.1.58 · p. 191
अनुष्टुप्
प्रादुः प्राकाश्यवृत्तौ स्यात् सम्भाव्ये च प्रयुज्यते ।निर्निश्चये क्रान्ताद्यर्थे निर्निःशेषनिषेधयोः ॥ ५९ ॥
2.1.59 · p. 191
अनुष्टुप्
अन्तर्मध्ये तथा प्रान्ते स्वीकारार्थेऽपि दृश्यते ।उररी चोररी चोरी विस्तारेऽङ्गीकृतौ त्रयम् ॥ ६० ॥
2.1.60 · p. 191
अनुष्टुप्
अन्तरापि विनार्थे स्यान्मध्यार्थनिकटार्थयोः ।
2.1.69 · p. 191
अनुष्टुप्
किलशब्दस्तु वार्त्तायां सम्भाव्यानुनयार्थयोः ॥ ६१ ॥
2.1.61 · p. 191
अनुष्टुप्
खलु स्याद्वाक्यभूषायां जिज्ञासादौ च सान्तने ।निषेधनेऽपि वीप्सायां समु माने च कीर्त्तितम् ॥ ६२ ॥
2.1.62 · p. 191
अनुष्टुप्
अवाऽलम्बनविज्ञानवियोगव्याप्तिशुद्धिषु ।इषदर्थे परिभवेऽप्येवौपम्येऽवधारणे ॥ ६३ ॥
2.1.63 · p. 191
अनुष्टुप्
उषा रात्रौ तदन्ते स्यादत्रानव्ययमप्युषा ।दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ ॥ ६४ ॥
2.1.64 · p. 191
अनुष्टुप्
निकषा त्वन्तिके मध्ये रक्षोमातर्यनव्ययम् ।सु पूजायां भृषार्थानुमतिकृच्छ्रसमृद्धिषु ॥ ६५ ॥
2.1.65 · p. 191
अनुष्टुप्
पुरतः प्रथमे चाऽग्रेऽप्यग्रतः प्रथमाग्रयोः ।पुरोऽग्रे प्रथमे च स्यादञ्जसा तत्त्वतूर्णयोः ॥ ६६ ॥
2.1.66 · p. 191
अनुष्टुप्
अमितः शीघ्रसाकल्यसम्मुखोभयतोऽन्तिके ।भूयः पुनः पुनः ख्यातं प्रभूतार्थे त्वनव्ययम् ॥ ६७ ॥
2.1.67 · p. 191
अनुष्टुप्
निर्निश्चये निषेधे च साकल्यातीतयोरपि ।तिरोऽन्तर्द्धौ तिर्यगर्थे मिथोऽन्योन्यं मिथो रहः ॥ ६८ ॥
2.1.68 · p. 191
अनुष्टुप्
पूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरे ।शनैः शनैश्चरे स्वैरे नीचैः स्वैराल्पयोर्मतम् ॥ ६९ ॥
2.1.69 · p. 192
अनुष्टुप्
ह स्यात् सम्बोधने पादपूरणेऽनव्ययं शिवे ।हा विषादे च शोके च दुःखार्थेऽपि च कथ्यते ॥ ७० ॥
2.1.70 · p. 192
अनुष्टुप्
हि पादपूरणे हेतौ विशेषेऽप्यवघारणे ।ही दुःखहेतावुद्दिष्टो ही विस्मयविषादयोः ॥ ७१ ॥
2.1.71 · p. 192
अनुष्टुप्
हाहा दुःखं हुहू हर्षे गन्धर्वेऽमू त्वनव्यये ।हे है व्यस्तौ समस्तौ च हूतिसम्बोधनार्थयोः ॥ ७२ ॥
2.1.72 · p. 192
अनुष्टुप्
हो हौ चैवंविधौ ज्ञेयौ सम्बुद्धाह्वानयोरपि ।सह साकल्यसादृश्ययौगपद्यसमृद्धिषु ॥ ७३ ॥
2.1.73 · p. 192
अनुष्टुप्
विद्यमाने च सम्बन्धे सहशब्दः प्रकीर्त्तितः ।अहो धिगर्थे शोके च करुणार्थविषादयोः ॥ ७४ ॥
2.1.74 · p. 192
अनुष्टुप्
आहो उताहो द्वावेतौ परिप्रश्नविचारयोः ।अहशब्दो नियोगार्थे क्षेपार्थेऽपि निगद्यते ।
2.1.84 · p. 192
अनुष्टुप्
मङ्क्षु शीघ्रे भृषार्थे च तत्त्वार्थेऽपि क्वचिन्मतम् ॥ ७५ ॥
2.1.75 · p. 192
अनुष्टुप्

इत्यव्ययानेकार्थवर्गः ॥

यद्यपूर्वतया किञ्चिन्नामात्र प्रतिभाति च ।तत्तदन्विष्यतां सद्भिर्नामपारायणादिषु ॥ १ ॥
2.1.1 · p. 192
अनुष्टुप्
तत्तक्तवीन्द्रैरथ पण्डितेन्द्रैःप्रयोगसम्बोधफलद्वयाप्त्यै ।यैर्नामकण्ण्ठाभरणं कृतं तैःसर्वज्ञता स्वप्रणयीकृतैव ॥ २ ॥
2.1.2 · p. 192
उपजातिः
स्वैरप्रचारैः परिकल्पिताभिःशब्दार्थसम्बोधकथाप्रथाभिः ।व्याख्याभिरप्राप्तमुदां प्रमोद-माधातुमत्रैष परिश्रमो नः ॥ ३ ॥
2.1.3 · p. 193
इन्द्रवज्रा
एतां कृतिं कृतधियः कृतकृत्यभाव-मापादयन्तु सदयं, सदयं तु चेतः ।नित्यं महेश्वरकवेः परिभावयन्तःसन्तः परोन्नतिरता हि भवन्ति लोके ॥ ४ ॥
2.1.4 · p. 193
वसन्ततिलका
रामानलव्योमरूपैः शककालेऽभिलक्षिते ।कोषं विश्वप्रकाशाख्यं निरमाच्छ्रीमहेश्वरः ॥ ५ ॥
2.1.5 · p. 193
अनुष्टुप्