कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · गान्तवर्गः

इति खान्तवर्गः ॥

गौः स्वर्गे वृषभे रश्मौ वज्रे चन्द्रमसि स्मृतः ।अर्ज्जुने नेत्रदिग्बाणभूवाग्वारिषु गौर्मता ॥ १ ॥
1.3.1 · p. 24
अनुष्टुप्
अगः शैले द्रुमे भानौ नगवत्पवनासने ।खगः सूर्ये ग्रहे देवे मार्गणे च विहङ्गमे ॥ २ ॥
1.3.2 · p. 24
अनुष्टुप्
भगमैश्वर्थ्यमाहात्म्यज्ञानवैराग्ययोनिषु ।यशोवीर्य्यप्रयत्नेच्छाश्रीधर्म्मरविमुक्तिषु ॥ ३ ॥
1.3.3 · p. 24
अनुष्टुप्
युगं हस्तचतुष्केऽपि रथसीराङ्गयोर्युगः ।युगं कृतादौ युगले वृद्धिनामौषधेऽपि च ॥ ४ ॥
1.3.4 · p. 24
अनुष्टुप्
मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः ।याच्ञायां मृगयायाञ्च मृगी स्याद्वनितान्तरे ॥ ५ ॥
1.3.5 · p. 24
अनुष्टुप्
भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि ।भागे रूपार्द्धके प्रोक्तो भागधेयैकदेशयोः ॥ ६ ॥
1.3.6 · p. 24
अनुष्टुप्
नागन्तु सीसके रङ्गे स्त्रीबन्धे करणान्तरे ।नागः पन्नगमातङ्गक्रूरचारिषु तोयदे ॥ ७ ॥
1.3.7 · p. 24
अनुष्टुप्
नागकेशरपुन्नागनागदन्तकमुस्तके ।देहानिलप्रभेदेऽथ श्रेष्ठे स्यादुत्तरस्थितः ॥ ८ ॥
1.3.8 · p. 24
अनुष्टुप्
रागोऽनुरक्तौ मात्सर्य्ये क्लेशादौ लोहितादिषु ।गान्धारादौ नृपे रागस्त्यागो वर्ज्जनदानयोः ॥ ९ ॥
1.3.9 · p. 24
अनुष्टुप्
भोगः सुखे धने चाहेः शरीरफणयोर्मतः ।पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥ १० ॥
1.3.10 · p. 24
अनुष्टुप्
योगोऽपूर्वार्थसम्प्राप्तौ सङ्गतिध्यानयुक्तिषु ।वपुस्थैर्य्ये प्रयोगे च विष्कम्भादिषु भेषजे ॥ ११ ॥
1.3.11 · p. 24
अनुष्टुप्
विश्रब्धघातिनि द्रव्योपायसंनहनेष्वपि ।कार्म्मणेऽपि च योगः स्याद्रोगः कुष्ठौषधे गदे ॥ १२ ॥
1.3.12 · p. 24
अनुष्टुप्
वेगो जवे प्रवाहे च महाकालफलेऽपि च ।पूगस्तु क्रमुके वृन्दे चङ्गः शोभनदक्षयोः ॥ १३ ॥
1.3.13 · p. 25
अनुष्टुप्
अङ्गं गात्रान्तिकोपायप्रतीकेष्वप्रधानके ।अङ्गा देशविशेषे स्युरङ्ग सम्वोधनेऽव्ययम् ॥ १४ ॥
1.3.14 · p. 25
अनुष्टुप्
इङ्गः स्यादद्भुते ज्ञाने जङ्गमेङ्गितयोरपि ।टङ्गः कृपाणभेदे स्याज्जङ्घायाञ्च खनित्रके ॥ १५ ॥
1.3.15 · p. 25
अनुष्टुप्
तुङ्गः पुन्नागनगयोस्तुङ्गः स्यादुन्नतेऽन्यवत् ।वर्वरानिशयोस्तुङ्गी तङ्गं सीसकरङ्गयोः ॥ १६ ॥
1.3.16 · p. 25
अनुष्टुप्
वङ्गः कार्पासवार्त्ताकदेशभेदेषु भाषितः ।लङ्गः सङ्गे च षिङ्गे च व्यङ्गो हीनाङ्गभेकयोः ॥ १७ ॥
1.3.17 · p. 25
अनुष्टुप्
भङ्गस्तरङ्गे रुग्भेदे भेदे जयविपर्यये ।भङ्गा शणाख्यसस्येऽपि भृङ्गो धूम्याटषिङ्गयो ॥ १८ ॥
1.3.18 · p. 25
अनुष्टुप्
मधुव्रतेऽपि भृङ्गन्तु केशराजगुडत्वचोः ।रङ्गो रणे खले रागे नृत्ये रङ्गं त्रपुन्यपि ॥ १९ ॥
1.3.19 · p. 25
अनुष्टुप्
लिड्गं चिह्नेऽनुमानेऽपि साङ्ख्योक्तप्रकृतावपि ।शिवमूर्तिविशेषेऽपि मेहने च प्रचक्षते ॥ २० ॥
1.3.20 · p. 25
अनुष्टुप्
शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके ।विषाणोत्कर्षयोश्चाय शङ्गः स्यात्कूर्च्चशीर्षके ॥ २१ ॥
1.3.21 · p. 25
अनुष्टुप्
शृङ्गी विषायामृषभे स्वर्णमीनविशेषयोः ।गाङ्गस्तु गङ्गासम्भूते भीष्मे शक्तिधरेऽपि च ॥ २२ ॥
1.3.22 · p. 25
अनुष्टुप्
पिङ्गः पिशङ्गे पिङ्गी तु शम्यां पिङ्गन्तु बालके ।रामटे नाडिकायाञ्च पिङ्गा गोरोचनोमयोः ॥ २३ ॥
1.3.23 · p. 25
अनुष्टुप्
खड्गो गण्डकशृणःगासिबुद्धभेदेषु गण्डके ।दुर्गः स्याद्दुर्गमे दुर्गा गौरीनीलकयोरपि ॥ २४ ॥
1.3.24 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु ।मार्गो मृगमदे मासप्रभेदेऽन्वेषणाध्वनोः ॥ २५ ॥
1.3.25 · p. 26
अनुष्टुप्
शार्ङ्गं कार्म्मुकमात्रेऽपि विष्णोरपि शरासने ।वल्गु छागे मनोज्ञे च वल्गुभाषितमन्यवत् ॥ २६ ॥
1.3.26 · p. 26
अनुष्टुप्
फल्गुः प्रोक्तो मले सारे निःसारे फल्गु वाच्यवत् ।शुङ्गी वटाम्रातकयोः पर्कट्यामपि विश्रुता ॥ २७ ॥
1.3.27 · p. 26
अनुष्टुप्
पन्नगः पद्मकाष्ठे स्यात् पन्नगोऽपि भुजङ्गमे ।प्लवगो वानरे भेके सारथौ चोष्णदीधितेः ॥ २८ ॥
1.3.28 · p. 26
अनुष्टुप्
जिह्मगो मन्दगे सर्पे विहगश्चाग्रजे खगे ।सर्वगं सलिले ख्यातं सर्वगः शङ्करे विभौ ॥ २९ ॥
1.3.29 · p. 26
अनुष्टुप्
आभोगो वारुणच्छत्रे पूर्णतायत्नयोरपि ।आयोगो व्यापृतौ रोधगन्धमाल्योपहारयोः ॥ ३० ॥
1.3.30 · p. 26
अनुष्टुप्
अयोगो विधुरे कूटे विश्लेषे कठिनोद्यमे ।आशुगो मारुते बाणेऽप्युद्वेगं क्रमुकीफले ॥ ३१ ॥
1.3.31 · p. 26
अनुष्टुप्
उद्वेगोऽप्युद्वाहुलकोद्वेजनाकोद्गमेऽपि च ।सम्भोगः सुरते भोगे सम्भोगो जिनशासने ॥ ३२ ॥
1.3.32 · p. 26
अनुष्टुप्
परागः पुष्परजसि धूलीस्नानीययोरपि ।गिरिप्रभेदे विख्यातावुपराग च चन्दने ॥ ३३ ॥
1.3.33 · p. 26
अनुष्टुप्
प्रयागस्तीर्थभेदे स्याद्यज्ञे शतमखाश्वयोः ।प्रयोगः कार्मणे प्रोक्तः प्रयुक्तौ च निदर्शने ॥ ३४ ॥
1.3.34 · p. 26
अनुष्टुप्
वातिगः कथितो भण्ट्यां धातुवादिनि वातिगः ।तडागस्तु जलाधारविशेषे कटकेऽपि च ॥ ३५ ॥
1.3.35 · p. 26
अनुष्टुप्
पुन्नागः पुरुषश्रेष्ठे पाण्डुनागे सितोत्पले ।जातीफले च पुन्नागो निसर्गः सर्गशीलयोः ॥ ३६ ॥
1.3.36 · p. 26
अनुष्टुप्
विसर्गस्त्यागवद्दाने विसर्गो मलनिर्गमे ।विसर्ज्जनीयेऽप्ययनप्रभेदेऽपि विभावसोः ॥ ३७ ॥
1.3.37 · p. 27
अनुष्टुप्
उत्सर्गो वर्ज्जने त्यागे सामान्यन्यायदानयोः ।त्रिवर्गो धर्मकामार्थे त्रिफलायां कटुत्रिके ॥ ३८ ॥
1.3.38 · p. 27
अनुष्टुप्
वृद्धिस्थानक्षये सत्त्वरजस्तमसि चेष्यते ।तातगुः क्षुद्रताते स्याज्जनयित्रीहितेऽपि च ॥ ३९ ॥
1.3.39 · p. 27
अनुष्टुप्
अनङ्गो मदनेऽनङ्गमाकाशमनसोः स्मृतम् ।मृदङ्गः पटहे घोषे भुजङ्गः षिङ्गसर्पयोः ॥ ४० ॥
1.3.40 · p. 27
अनुष्टुप्
पतङ्गः शलभे शालिप्रभेदे विहगे रवौ ।पतङ्गं पारदे क्वापि नरङ्गन्तु वरण्डके ॥ ४१ ॥
1.3.41 · p. 27
अनुष्टुप्
शेफे नरङ्गमप्याहु निषङ्गः सङ्गतूणयोः ।विडङ्गं कृमिघ्ने ख्यातं विडङ्गो नागरेऽन्यवत् ॥ ४२ ॥
1.3.42 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मि (wrong syllable)
कलिङ्गः पूतिकरजे धूम्याटे नीवृदन्तरे ।कलिङ्गं कौटजफले कलिङ्गा योषिति स्मृता ॥ ४३ ॥
1.3.43 · p. 27
अनुष्टुप्
अपाङ्गमङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च ।वराङ्गं योनिमातङ्गमस्तकेषु गुडत्वचि ॥ ४४ ॥
1.3.44 · p. 27
अनुष्टुप्
पत्राङ्गं पद्मके भूर्ज्जे पत्राङ्गं रक्तचन्दने ।रथाङ्गश्चक्रवाकेऽपि रथाङ्गञ्चक्र इष्यते ॥ ४५ ॥
1.3.45 · p. 27
अनुष्टुप्
रक्ताङ्गं विद्रुमे भौमे विद्यात् कम्पिल्लधीरयोः ।रक्ताङ्गश्चापि जीवन्त्यां मातङ्गः श्वपचे गजे ॥ ४६ ॥
1.3.46 · p. 27
अनुष्टुप्
कालिङ्गो भूमिकर्कारौ दन्तावलभुजङ्गयोः ।कालिङ्गी राजकर्कट्यां धारङ्गः खड्गतीर्थयोः ॥ ४७ ॥
1.3.47 · p. 27
अनुष्टुप्
हेमाङ्गो द्रुहिणे तार्क्ष्ये नारङ्गं पिप्पलीरसे ।नागरङ्गे विटे जन्तौ यमजेऽपि प्रकीर्त्तितम् ॥ ४८ ॥
1.3.48 · p. 27
अनुष्टुप्
सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे ॥
1.3.49 · p. 27
पक्षभेदे च सारङ्गः सारङ्गः शबलेऽन्यवत् ॥ ४९ ॥
1.3.49 · p. 28
प्रियङ्गुः फलिनीकङ्गुपिप्पलीराजिकासु च ।नीलाङ्गुः कृमिभेदे स्याद्भ्रमरालीमुसारयोः ॥ ५० ॥
1.3.50 · p. 28
अनुष्टुप्
तुरङ्गी चाश्वगन्धायां तुरङ्गश्चित्तवाजिनोः ।चक्राङ्गी कटुरोहिण्यां चक्राङ्गो मानसौकसि ॥ ५१ ॥
1.3.51 · p. 28
अनुष्टुप्
ईहामृगो वृके जन्तो प्रभेदे रूपकस्य च ।मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि ॥ ५२ ॥
1.3.52 · p. 28
अनुष्टुप्
उपरागः परीवादे राहुग्रस्तार्क्कचन्द्रयोः ।दुर्नये ग्रहकल्लोलेऽपवर्गस्त्यागमोक्षयोः ॥ ५३ ॥
1.3.53 · p. 28
अनुष्टुप्
क्रियावसानसाफल्येऽप्यपवर्गः प्रयुज्यते ।उपसर्गः स्मृतो रोगभेदोपप्लवयोरपि ॥ ५४ ॥
1.3.54 · p. 28
अनुष्टुप्
समायोगस्तु संयोगे समवाये प्रयोजने ।सम्प्रयोगं रते विद्यादन्विते कार्म्मणेऽपि च ॥ ५५ ॥
1.3.55 · p. 28
अनुष्टुप्
दीर्घाध्वगः शङ्खलके लेखहारे तु भेद्यवत् ।अभिषङ्गस्तु शपथे स्यादाक्रोशे पराभवे ॥ ५६ ॥
1.3.56 · p. 28
अनुष्टुप्
छत्रभङ्गोऽपि वैधव्ये स्वातन्त्र्यनृपनाशयोः ।कटभङ्गस्तु सस्यानां हस्तच्छेदे नृपात्यये ॥ ५७ ॥
1.3.57 · p. 28
अनुष्टुप्
कथाप्रसङ्गो वातूले विषवैद्ये च वाच्यवत् ।नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥ ५८ ॥
1.3.58 · p. 28
अनुष्टुप्