All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · ठान्तवर्गः
इति टान्तवर्गः ॥
कठः स्वर ऋचाम्भेदे स्यात्तदध्येतृवेदिनोः ।मुनावपि हठो वारिपर्ण्यां स्यात् प्रसभेऽपि च ॥ १ ॥
1.11.1 · p. 41
अनुष्टुप्
शठो मध्यस्थपुरुषे शठो धुत्तूरधूर्त्तयोः ।शठोऽलसे च मूर्खे च कुण्ठो कर्मण्यमूर्खयोः ॥ २ ॥
1.11.2 · p. 41
अनुष्टुप्
पाठः स्यात् पठने विद्धकर्ण्यां पाठाऽपि पठ्यते ।कण्ठो गले संविधाने ध्वनौ मदनपादपे ॥ ३ ॥
1.11.3 · p. 41
अनुष्टुप्
वण्ठः स्यादकृतोद्वाहे खर्वे कुन्तायुधेऽपि च ।पृष्ठं चरमगात्रे स्याद्देहस्यावयवान्तरे ॥ ४ ॥
1.11.4 · p. 41
अनुष्टुप्
कोष्ठः कुशूले चात्मीये कुक्षेरन्तर्गृहस्य च ।कुष्ठो रोगे सुगन्धे च गोष्ठं गोस्थानकेऽपि च ॥ ५ ॥
1.11.5 · p. 41
अनुष्टुप्
गोष्ठी सभायां संलापे दुष्ठुः स्याद्दुर्बलेऽधमे ।प्रष्ठः श्रेष्ठाग्रयोरुक्तः प्रष्ठा चाण्डालिकौषधौ ॥ ६ ॥
1.11.6 · p. 41
अनुष्टुप्
ज्येष्ठः श्रेष्ठेऽतिवृद्धे च ज्येष्ठो मासान्तरेऽपि च ।गृहगोधर्क्षयोर्ज्येष्ठा श्रेष्ठा वैश्रवणे वरे ॥ ७ ॥
1.11.7 · p. 41
अनुष्टुप्
काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः ।स्याद्दिशि स्थानमात्रे च काष्ठमाख्यातमिन्धने ॥ ८ ॥
1.11.8 · p. 41
अनुष्टुप्
निष्ठा निष्पत्तिनाशान्तयाच्ञानिर्वहणेषु च ।षष्ठी षण्णाञ्च पूरण्यां कात्यायन्यामपीष्यते ॥ ९ ॥
1.11.9 · p. 42
अनुष्टुप्
कमठः कच्छपे भाण्डभेदे च कमठं मतम् ।जरठः कर्कशे पाण्डौ जरठः कठिनेऽन्यवत् ॥ १० ॥
1.11.10 · p. 42
अनुष्टुप्
नर्म्मठश्चूचुके षिङ्गे वैकुण्ठः कृष्णशक्रयोः ।श्रीकण्ठः खण्डपरशौ श्रीकण्ठः कुरुजाङ्गले ॥ ११ ॥
1.11.11 · p. 42
अनुष्टुप्
वरिष्ठः स्यादरुतरे प्रवरे तित्तिरावपि ।वरिष्ठं मरिचे ताम्रे सादिष्ठोऽतिदृढार्य्ययोः ॥ १२ ॥
1.11.12 · p. 42
अनुष्टुप्
अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च ।अम्बष्ठा चाम्ललोण्यां स्यात् पाठायूतिकयोरपि ॥ १३ ॥
1.11.13 · p. 42
अनुष्टुप्
कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा दुर्बलाङ्गुलौ ।लघिष्ठोऽत्यल्पके भेलेऽप्यपष्ठुः कालबालयोः ॥ १४ ॥
1.11.14 · p. 42
अनुष्टुप्
प्रकोष्ठो विस्तृतकरे भूपकक्षान्तरेऽपि च ।कूर्परादधरे चापि प्रतिष्ठा स्थानमात्रके ॥ १५ ॥
1.11.15 · p. 42
अनुष्टुप्
गौरवे यागनिष्पत्तिचतुरक्षरपद्ययोः ।मकुष्ठो व्रीहिभेदे स्यान्मकुष्ठो मन्थरेऽन्यवत् ॥ १६ ॥
1.11.16 · p. 42
अनुष्टुप्
दन्तशठः स्याज्जम्बीरे कपित्थे कर्म्मरङ्गके ।नागरङ्गेऽपि चाङ्गेर्य्या स्मृता दन्तशठा बुधैः ॥ १७ ॥
1.11.17 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न्त (wrong syllable)
सूत्रकण्ठो द्विजे प्रोक्तः खञ्जरीटकपोतयोः ।हारिकण्ठः परभृते हारान्वितगलेऽपि च ॥ १८ ॥
1.11.18 · p. 42
अनुष्टुप्
कालकण्ठस्तु दात्यूहे कलविङ्के च खञ्जने ।सितापा[?]ङ्गे हरे पीते सारके नीलकण्ठवत् ॥ १९ ॥
1.11.19 · p. 42
अनुष्टुप्
कलकण्ठः कलध्वाने हंसे पारावते पिके ।देवकाष्ठन्तु सरलदेवदारुमहीरुहोः ॥ २० ॥
1.11.20 · p. 43
अनुष्टुप्
कालपृष्ठं भवेत् कर्णचापे कोदण्डमात्रके ।कालपृष्ठस्तु सारङ्गविशेषे कङ्कपक्षिणि ॥ २१ ॥
1.11.21 · p. 43
अनुष्टुप्