कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · छान्तवर्गः

इति चान्तवर्गः ॥

अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् ।आभिमुख्येऽथ कच्छः स्यादनूपे तुन्नकद्रुमे ॥ १ ॥
1.6.1 · p. 31
अनुष्टुप्
नौकान्ते परिधानस्य पश्चादञ्चलपल्लवे ॥
1.6.2 · p. 31
कच्छा तु चीरिकायाञ्च वाराह्याञ्च निगद्यते ॥ २ ॥
1.6.2 · p. 32
स्याद्गुच्छः स्तबके स्तम्बे हारभेदकलापयोः ।पुच्छः पाश्चात्यभागे स्याल्लाङ्गूले पुच्छमिष्यते ॥ ३ ॥
1.6.3 · p. 32
अनुष्टुप्
म्लेच्छः पापतरे जातिभेदे स्यादपभाषिणि ।पिच्छा तु शाल्मलीवेष्टे मण्डे चाश्वपदामये ॥ ४ ॥
1.6.4 · p. 32
अनुष्टुप्
पङ्क्तौ पूगच्छटाकोशमोचानिजयिनेषु च ।
1.6.6 · p. 32
अनुष्टुप्
पिच्छपुच्छे महाकच्छः समुद्रे च प्रचेतसि ॥ ५ ॥
1.6.5 · p. 32
अनुष्टुप्