All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · डान्तवर्गः
इति ठान्तवर्गः ॥
गुडः स्याद्गोलके हस्ते सन्नाहेक्षुविकारयोः ।गुडा स्नुहीगुडिकयोर्गडो मीनान्तराययोः ॥ १ ॥
1.12.1 · p. 43
अनुष्टुप्
जडो मूर्खे हिमग्रस्ते शूकशिम्ब्यां जडा मता ।गडुः पुष्टगुडे कुब्जे षडः पेयान्तरे भिदि ॥ २ ॥
1.12.2 · p. 43
अनुष्टुप्
व्याडो हिंस्रपशौ सर्पे ताडस्ताडनघोषयोः ।मुष्टिमेयतृणादौ च ताडी तालीदलद्रुमे ॥ ३ ॥
1.12.3 · p. 43
अनुष्टुप्
नीडं स्थाने कुलाये च सकारपूर्वकोऽन्तिके ।क्रोडः सूकरपातङ्ग्यो क्रोडं क्रौडे च वक्षसि ॥ ४ ॥
1.12.4 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
चोडो देशविशेषे स्याच्चोडः प्रावरणान्तरे ।क्ष्वेडः कर्णामये ध्वाने गरले कुटिलेऽपि च ॥ ५ ॥
1.12.5 · p. 43
अनुष्टुप्
लोहितार्कफले क्ष्वेडं घोषपुष्पे दुरासदे ।योधानां सिंहनादे तु क्ष्वेडा स्याद्वंशशल्यके ॥ ६ ॥
1.12.6 · p. 43
अनुष्टुप्
अण्डं खगादिकोशे स्यान्मुष्के वीर्येऽपि च क्वचित् ।स्यात् खण्डः शकले चेक्षुविकारमणिदोषयोः ॥ ७ ॥
1.12.7 · p. 43
अनुष्टुप्
गण्डः कपोले पिटके योगभेदे च गण्डके ।गण्डः प्रवीरे चिह्ने स्यादश्वभूपणबुद्रुदे ॥ ८ ॥
1.12.8 · p. 43
अनुष्टुप्
चण्डो दैत्यान्तरे तीव्रे चण्डो दासे यमस्य च ।चण्डा धनहरीशङ्खपुष्प्योश्चण्डोऽतिकोपने ॥ ९ ॥
1.12.9 · p. 43
अनुष्टुप्
चण्डी कात्यायनीहिंस्राकोपनस्त्रीषु सम्मता ।षण्डं पद्मादिसङ्घाते खण्डः स्याद्गोपतावपि ॥ १० ॥
1.12.10 · p. 44
अनुष्टुप्
कुण्डं देवजलाधारे पिठरेऽथ कमण्डलौ ।कुण्डी कुण्डः स्मृतो जारात् पतिवत्नीसुतेऽपि च ॥ ११ ॥
1.12.11 · p. 44
अनुष्टुप्
दण्डी यमे मानभेदे लगुडे दमसैन्ययोः ।व्यूहभेदे प्रकाण्डेऽश्वे कोणमन्थानयोरपि ॥ १२ ॥
1.12.12 · p. 44
अनुष्टुप्
अभिमाने ग्रहे दण्डश्चण्डांशोः पारिपार्श्विके ।गौडः पामरजातौ च वृद्धनाभौ च वाच्यवत् ॥ १३ ॥
1.12.13 · p. 44
अनुष्टुप्
पिण्डं सान्द्रे बलं[ले] वोले गृहांशे जीवनायसोः ।पिण्डो देहे जवापुष्पे निवापे सिह्लकेऽपि च ॥ १४ ॥
1.12.14 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पिण्डी स्यात्तगरेऽलावुररुर्न्दरीभेदयोरपि ।पण्डः षण्डे धियां पण्डा पाण्डुः कुन्तीपतौ सिते ॥ १५ ॥
1.12.15 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मण्डं मस्तुनि शाके च मण्डः स्यात् सारपिच्छयोः ।एरण्डे भूषणे चाथ मण्डा धात्र्यामुदीरिता ॥ १६ ॥
1.12.16 · p. 44
अनुष्टुप्
मुण्डो दैत्यान्तरे राहौ मूर्द्धमुण्डितयोरपि ।शौण्डो मत्तेऽपि विख्यातः शौण्डा पिप्पलिचर्ययोः ॥ १७ ॥
1.12.17 · p. 44
अनुष्टुप्
काण्डं नाले तरुस्कन्धे बाणेऽवसरनीरयोः ।कुत्सिते रहसि स्तम्बे काण्डं गर्वेऽप्युदाहृतम् ॥ १८ ॥
1.12.18 · p. 44
अनुष्टुप्
भाण्डं भूषणमात्रेऽपि भाण्डं मूलवणिग्धने ।नदीपात्रे तुरङ्गाणां भूषणे भाजनेऽपि च ॥ १९ ॥
1.12.19 · p. 44
अनुष्टुप्
इडा वाचि गवि क्षोणाविडा च बुधयोषिति ।क्रीडा केलिप्रकारे स्यात् खेलावज्ञानयोरपि ॥ २० ॥
1.12.20 · p. 44
अनुष्टुप्
चूडा शिखायां वलभौ चूडा वाहुविभूषणे ।पीडा कृपाशिरोमालापमर्द्दसरलद्रुषु ॥ २१ ॥
1.12.21 · p. 44
अनुष्टुप्
नाडी नाले शिरागण्डदूर्वयोः स्याद्गुणान्तरे ॥
1.12.22 · p. 45
नाडी षट्क्षणकालेऽपि चर्य्यायां कुहनस्य च ॥ २२ ॥
1.12.22 · p. 45
रण्डा मूषिकपर्ण्याञ्च रण्डा विधवयोषिति ।वण्डाऽपि पांसुलायां स्याद्वण्डो हस्तादिवर्ज्जिते ॥ २३ ॥
1.12.23 · p. 45
अनुष्टुप्
शुण्डाऽपि जलहस्तिन्यां मदिराकरिहस्तयोः ।नलिन्यां वारयोषायां शुण्डस्तु मदनिर्झरे ॥ २४ ॥
1.12.24 · p. 45
अनुष्टुप्
गारुडं स्यान्मरकते विषशास्त्रेऽपि गारुडम् ।द्राविडः स्याज्जानपदे वेधमुख्यकशङ्खयोः ॥ २५ ॥
1.12.25 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्जा (wrong syllable)
प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि ।पिचण्डमुदरे विद्यात् पशोरवयवेऽपि च ॥ २६ ॥
1.12.26 · p. 45
अनुष्टुप्
तरण्डो बडिशीसूत्रबद्धवस्तुनि मेलके ।वरण्डोऽप्यन्तरावेदौ सन्दोहमुखरोगयोः ॥ २७ ॥
1.12.27 · p. 45
अनुष्टुप्
पूत्यण्डो गन्धकीटेऽपि तथा गन्धमृगे स्मृतः ।मार्त्तण्डस्तपने क्रोडे शिखण्डो बर्हचूडयोः ॥ २८ ॥
1.12.28 · p. 45
अनुष्टुप्
प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः ।कोदण्डो भ्रूलतायां स्याद्देशभेदे च कार्मुके ॥ २९ ॥
1.12.29 · p. 45
अनुष्टुप्
सरण्डः सरटे धूर्ते सरण्डो भूषणान्तरे ।मारुण्डोऽण्डे भुजङ्गीनां मार्गे गोमयमण्डले ॥ ३० ॥
1.12.30 · p. 45
अनुष्टुप्
करण्डो मधुकोशासिकारण्डवदलाढके ।कूष्माण्डो गणभेदे स्याद्भ्रूणे करर्क्कारुकेऽपि च ॥ ३१ ॥
1.12.31 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कूष्माण्डो चौषधीगौर्व्योर्भेरुण्डो भीमदर्शने ।भेरुण्डो देवताभेदे पक्षिणो भिदि चेष्यते ॥ ३२ ॥
1.12.32 · p. 45
अनुष्टुप्
वारुण्डः सेकपात्रे स्यान्मले दृक्कर्णयोरपि ।गणिस्थराजे वारुण्डी द्वारपिण्ड्यामुदीरिता ॥ ३३ ॥
1.12.33 · p. 45
अनुष्टुप्
तिन्तिडी भूरुहे कालदामे दैत्यान्तरेऽपि च ।तिन्तिडस्तिन्तिडी तु स्याच्चिञ्चावृक्षाम्लयोरपि ॥ ३४ ॥
1.12.34 · p. 45
अनुष्टुप्
विचण्डा सारिकावर्त्तिखड्गधेनुषु कथ्यते ।वितण्डा वादभेदे स्यात् कच्छीशाके शिलाह्वये ॥ ३५ ॥
1.12.35 · p. 46
अनुष्टुप्
वितण्डा करवीर्याञ्च निर्गुण्डी सिन्दुवारके ।नीलशेफालिकायाञ्च करहाटेऽपि कुत्रचित् ॥ ३६ ॥
1.12.36 · p. 46
अनुष्टुप्
भवेद्वातथुडो वात्या[?] वामव्योर्वातशोणिते ।पिच्छिलस्फोटिकायाञ्च देवताडस्तु घोषके ॥ ३७ ॥
1.12.37 · p. 46
अनुष्टुप्
सैंहिकेयग्रहे चापि देवताडो हुताशने ।चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडन्तु मण्डले ॥ ३८ ॥
1.12.38 · p. 46
अनुष्टुप्
जलरुण्डो जलावर्त्ते पयोरेणौ भुजङ्गमे ।अपोगण्डस्तु शिशुके विकलाङ्गेऽतिभीरुके ॥ ३९ ॥
1.12.39 · p. 46
अनुष्टुप्