कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · पान्तवर्गः

इति नान्तवर्गः ॥

रूपं स्वभावे सौन्दर्य्ये नामके पशुशब्दयोः ।ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥ १ ॥
1.20.1 · p. 103
अनुष्टुप्
रेपः स्मान्निन्दिते क्रूरे रोपो रोपणवाणयोः ।सूपो व्यञ्जनभेदे स्यात् सूपकारे च कीर्त्तितः ॥ २ ॥
1.20.2 · p. 103
अनुष्टुप्
छुपः क्षुपस्पर्शनयोश्चुपः पवनयुद्धयोः ।कूपः कूपकगर्ताभ्युमृन्मानगुणवृक्षके ॥ ३ ॥
1.20.3 · p. 103
अनुष्टुप्
तापोऽस्तितापे दवथौ तापी तु सरिदन्तरे ।शापः शपथ आक्रोशे त्रपुसीसकरङ्गयोः ॥ ४ ॥
1.20.4 · p. 104
अनुष्टुप्
स्वापः स्पर्शाज्ञतानिद्राशयनाशनमात्रके ।नीपो धूलिकदम्बे स्यान्नीलाशोके च धन्विनि ॥ ५ ॥
1.20.5 · p. 104
अनुष्टुप्
गोपो ग्रामौघगोष्ठाधिकृतयोर्वल्लवे नृपे ।गोपी गोपालमहिला शारिवारत्तिकासु च ॥ ६ ॥
1.20.6 · p. 104
अनुष्टुप्
क्षेपो विलम्बे निन्दायां हेलापे रणलङ्घने ।गर्वेऽपि लेपस्तु सुधाभोजनालेपनेषु च ॥ ७ ॥
1.20.7 · p. 104
अनुष्टुप्
तल्पन्तु शयनीये स्यात्तल्पमट्टकलत्रयोः ।कल्पः स्यात् प्रलये न्याये शास्त्रे ब्राह्मदिने विधौ ॥ ८ ॥
1.20.8 · p. 104
अनुष्टुप्
दर्पोऽहङ्कारकसूर्योर्बाष्पो नेत्रजलोष्मणोः ।पुष्पं विकाशे कुसुमे स्त्रीणाञ्च रजसि स्मृतम् ॥ ९ ॥
1.20.9 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
शष्पं स्यात् प्रतिभाहानौ शष्पं बालतृणेऽपि च ।शष्पः स्तवे क्रियायोग्ये शष्पः क्रोधे बलात्कृतौ ॥ १० ॥
1.20.10 · p. 104
अनुष्टुप्
कृपा दयायां व्यासर्षौ कृपो भारतपूरुषे ।त्रपा लज्जाकुलटयोर्वपा विवरमेदसोः ॥ ११ ॥
1.20.11 · p. 104
अनुष्टुप्
कृतपः स्यात् कुशे वाद्ये तपने छागकम्बले ।कृतपो भागिनेये स्यादष्टमांशे दिनस्य च ॥ १२ ॥
1.20.12 · p. 104
अनुष्टुप्
कुटपो मानभेदे स्यात् कुटपो निष्कुटे मुनौ ।विटपः पल्लवे शृङ्गे विस्तारे स्तम्बशाखयोः ॥ १३ ॥
1.20.13 · p. 104
अनुष्टुप्
उलपस्तृणभेदे स्याद् गुल्मिन्यामुलपः स्मृतः ।उडुपस्तु प्लवे चन्द्रे प्रपातः स्वेदतेजसोः ॥ १४ ॥
1.20.14 · p. 104
अनुष्टुप्
रक्तपो रक्षसि प्रोक्तो जलौकायान्तु रक्तपा ।जिह्वापः शुनि मार्ज्जारे व्याघ्रचित्रकयोरपि ॥ १५ ॥
1.20.15 · p. 104
अनुष्टुप्
काश्यपः स्यान्मुनौ मानभेदे भूमौ तु काश्यपी ।पादपः पादपीठेऽद्रौ पादुकायान्तु पादपा ॥ १६ ॥
1.20.16 · p. 105
अनुष्टुप्
अनूपं महिषे विद्याज्जलप्राये तु वाच्यवत् ।आवापो भाण्डपवने परिक्षेपालवालयोः ॥ १७ ॥
1.20.17 · p. 105
अनुष्टुप्
आक्षेपो भर्त्सनाकृष्टिकाव्यालङ्कृतिषु स्मृतः ।एकोक्त्या कशिपुर्भक्त्या छादने च द्वयोः पृथक ॥ १८ ॥
1.20.18 · p. 105
अनुष्टुप्
आकल्पः कल्पने वेशे विकल्पो भ्रान्तिपक्षयोः ।कच्छपी वल्लकीभेदे दुलौ क्षुद्रगदान्तरे ॥ १९ ॥
1.20.19 · p. 105
अनुष्टुप्
मल्लबन्धविशेपेऽपि कच्छपः कुणपी पुनः ।विट्शारिकाया कुणपः पूतिगन्धौ शवेऽपि च ।कलापो भूषणे बर्हे तूणीरे संहतेऽपि च ॥ २० ॥
1.20.20 · p. 105
अनुष्टुप्
प्राप्तरूपो बुधे रम्येऽप्यभिरूपः सुरूपवत् ।बहुरूपः शिवे विष्णौ धूनके सरटे स्मरे ॥ २१ ॥
1.20.21 · p. 105
अनुष्टुप्
वृकधूपस्तु सरले द्रवकृत्त्रिमधूपयोः ।परिवापस्तु पर्याप्तौ जलस्थाने परिच्छदे ॥ २२ ॥
1.20.22 · p. 105
अनुष्टुप्
उपतापस्त्वरायां स्यादुत्तापगदयोरपि ।अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च ॥ २३ ॥
1.20.23 · p. 105
अनुष्टुप्
विप्रलापो विरोधाक्तावपार्थवचनेऽपि च ।वृषाकपिः शिवे कृष्णे ज्वलने च वृषाकपिः ॥ २४ ॥
1.20.24 · p. 105
अनुष्टुप्
परिकम्पो भवे कम्पेऽपलापः प्रेम्ण्यपह्नवे ।बीजपुष्पं मरुवके तथा दमनकेऽपि च ॥ २५ ॥
1.20.25 · p. 105
अनुष्टुप्
हेमपुष्पं जवापुष्पे चम्पकाशोकयोर्मतम् ।नागपुष्पस्तु पुन्नागे नागकेशरचम्पके ॥ २६ ॥
1.20.26 · p. 105
अनुष्टुप्
पिण्डपुष्पमशोके च जवायाञ्च कुशेशये ।मेघपुष्पन्तु पिण्डाभ्रे नादेयजलयोरपि ॥ २७ ॥
1.20.27 · p. 106
अनुष्टुप्
जलकूपी कूपगर्त्ते पुष्करिण्याञ्च कथ्यते ।
1.20.28 · p. 106
अनुष्टुप्
भवेच्चामरपुष्पस्तु चूते केतकहासयोः ॥ २८ ॥
1.20.28 · p. 106
अनुष्टुप्