All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · फान्तवर्गः
इति पान्तवर्गः ॥
रेफो रवर्णे सम्प्रोक्तः कुत्सिते वाच्यवत् पुनः ।शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च ॥ १ ॥
1.21.1 · p. 106
अनुष्टुप्
गुफः स्याद्गुम्फने बाहोरलङ्कारे च कीर्त्यते ।शिफा जटायां सरिति मांसिकायाञ्च मातरि ॥ २ ॥
1.21.2 · p. 106
अनुष्टुप्