कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · मान्तवर्गः

इति भान्तवर्गः ॥

मः शिवे मा रमायाञ्च मा निषेधेऽव्ययं मतम् ।
1.24.1 · p. 110
अनुष्टुप्
किं स्याद्वितर्के प्रश्ने च क्षेपे निन्दाप्रकारयोः ॥ १ ॥
1.24.1 · p. 110
अनुष्टुप्
दमस्तु दमथे दण्डे कर्द्दमे दमनेऽपि च ।गमो द्यूतप्रभेदे स्यादपर्यालोचितेऽध्वनि ॥ २ ॥
1.24.2 · p. 110
अनुष्टुप्
द्रुमस्तरौ पारिजाते द्रुमः किम्पुरुषेश्वरे ।भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पियन्त्रके ॥ ३ ॥
1.24.3 · p. 110
अनुष्टुप्
हिमं शीते तुषारे च चन्दने च हिमं विदुः ।रमः कान्ते रमा लक्ष्म्यां रक्ताशोकद्रुमे स्मरे ॥ ४ ॥
1.24.4 · p. 110
अनुष्टुप्
यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च ।शरीरसाधनापेक्षनित्यकर्मणि चोच्यते ॥ ५ ॥
1.24.5 · p. 110
अनुष्टुप्
क्रमः शक्तौ परीपाट्यां क्रमश्चलनकम्पयोः ।क्षौममट्टे दुकूले स्यादतसीवसनेऽपि च ॥ ६ ॥
1.24.6 · p. 110
अनुष्टुप्
क्षेमा स्यान्मङ्गले लब्धरक्षणे चौरकेऽपि च ।क्षेमा धनहरीगौर्योः क्षमः ख्यातः क्षमान्विते ॥ ७ ॥
1.24.7 · p. 110
अनुष्टुप्
क्षितिः क्षान्तौ क्षमाख्याता हिते शक्ते च वाच्यवत् ।आमो रोगे तद्विशेषे आमोऽपक्वे च वाच्यवत् ॥ ८ ॥
1.24.8 · p. 110
अनुष्टुप्
कामः स्मरेऽभिलाषे च कामं रेतोनिकामयोः ।अव्ययन्त्वभ्यनुज्ञायां यामस्तु प्रहरं व्रते ॥ ९ ॥
1.24.9 · p. 110
अनुष्टुप्
श्यामः स्यान्मेचके वृद्धदारके हरिते घने ।वटद्रुमे प्रयागस्य श्यामः श्यामा तु बल्गुलौ ॥ १० ॥
1.24.10 · p. 110
अनुष्टुप्
अप्रसूताङ्गनायाञ्च तथा सोमलतौषधौ ।त्रिवृता शारिबागुन्द्रानिशाकृष्णाप्रियङ्गुषु ॥ ११ ॥
1.24.11 · p. 110
अनुष्टुप्
श्यामा नील्याम्पिके श्यामं मरीचे लवणान्तरे ।श्यामो दमनके गन्धतृणे श्यामेऽभिधेयवत् ॥ १२ ॥
1.24.12 · p. 110
अनुष्टुप्
गुल्मः स्तम्बे प्लीह्नि घट्टसैन्ययोः सैन्यरक्षणे ।गुल्मी स्यादामलक्येलापर्णिकावस्त्रवेश्मसु ॥ १३ ॥
1.24.13 · p. 111
अनुष्टुप्
जाल्मः स्यात् पामरे क्रूरे जाल्मोऽसमीक्ष्यकारिणि ।ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वकः ॥ १४ ॥
1.24.14 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
भीमोऽल्पवेतसे शम्भौ घोरे चापि वृकोदरे ।युध्मः सङ्गामधनुषो रिष्मः कामवसन्तयोः ॥ १५ ॥
1.24.15 · p. 111
अनुष्टुप्
तोक्मं कर्णमले तोक्मो हरिते च हरिद्यवे ।रुक्मञ्च काञ्चने लोहे खर्म्मं क्षौमे च पौरुषे ॥ १६ ॥
1.24.16 · p. 111
अनुष्टुप्
धर्म्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतौ ।उपमायामहिंसायां चापे चोपनिगद्यते ॥ १७ ॥
1.24.17 · p. 111
अनुष्टुप्
घर्म्मः स्यादातपे ग्रीष्मे उष्णस्वेदाम्भसोरपि ।जिह्मस्तु कुटिले मन्दे जिह्मं तगरपादपे ॥ १८ ॥
1.24.18 · p. 111
अनुष्टुप्
सूक्ष्मं स्यात् कैतवेऽध्यात्मेऽप्यणौ सूक्ष्मोल्पकेऽन्यवत् ।भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाचरे ॥ १९ ॥
1.24.19 · p. 111
अनुष्टुप्
शुष्मं तेजोऽर्कयोरुक्तं सूमं क्षीरे नभस्यऽपि ।दस्मस्तु यजमाने स्यादपि चौरे हुताशने ॥ २० ॥
1.24.20 · p. 111
अनुष्टुप्
रामः पशुविशेषे स्याज्जामदग्न्ये हलायुधे ।राघवे चाऽसितश्वेतमनोज्ञेषु च वाच्यवत् ॥ २१ ॥
1.24.21 · p. 111
अनुष्टुप्
रामाऽङ्गनाहिङ्गुलिन्यो रामं वास्तुककुष्ठयोः ।वामं सव्ये प्रतीपे च द्रविणे चाऽतिसुन्दरे ॥ २२ ॥
1.24.22 · p. 111
अनुष्टुप्
पयोधरे हरे कामे विद्याद्वामापि च स्त्रियाम् ।वामी शगालीवडवारासभीकरभीषु च ॥ २३ ॥
1.24.23 · p. 111
अनुष्टुप्
पयः स्यात् पन्नगे व्यूहे निधौ सङ्ख्यान्तरेऽम्बुजे ।पद्मके बिन्दुजालेऽपि पद्मा भाङ्गीश्रियोरपि ॥ २४ ॥
1.24.24 · p. 111
अनुष्टुप्
सोमः कुबेरे पितृदेवतायांवसुप्रभेदे च सुधाकरे च ।दिव्यौषधीसोमलतासमीर-कर्पूरनीरेषु च वानरे च ॥ २५ ॥
1.24.25 · p. 112
उपजातिः
भूमिः क्षितौ स्थानमात्रे वमिर्वान्तौ हुताशने ।रश्मिरंशौ प्रग्रहे च जामिः स्वसृकुलस्त्रियोः ॥ २६ ॥
1.24.26 · p. 112
अनुष्टुप्
नेमिस्त्रिकायां कूपस्य चक्रान्ते तिनिशद्रुमे ।नेमः कालेऽवधौ गर्त्ते प्राकारे कैतवेऽपि च ॥ २७ ॥
1.24.27 · p. 112
अनुष्टुप्
कृमिः स्यात्तृणकीटे च लाक्षायां कृमिले स्वरे ।कामिः स्यात् कामुके रत्यां होमिः सर्पिषि पावके ॥ २८ ॥
1.24.28 · p. 112
अनुष्टुप्
ऊर्म्मिस्तरङ्गे पीडायां वेगभङ्गप्रकाशयोः ।उत्कण्ठावस्त्रसङ्कोचलेखयोरपि कीर्तिता ॥ २९ ॥
1.24.29 · p. 112
अनुष्टुप्
लक्ष्मीः श्रीशिवसम्पत्तिपद्माशोभाप्रियङ्गुषु ।किर्मी पलाशे शालायां हेमपुत्र्यामुदीरिता ॥ ३० ॥
1.24.30 · p. 112
अनुष्टुप्
शमी शक्तुफलायाञ्च शिम्बायामपि वल्गुलौ ।ब्राह्मी तु भारतीसोमवल्लरीब्रह्मशक्तिषु ॥ ३१ ॥
1.24.31 · p. 112
अनुष्टुप्
फञ्जिकापङ्कजटिकाशाकभेदेषु च स्मृता ।समा वर्षे समं तुल्ये साधौ च सदृशेऽन्यवत् ॥ ३२ ॥
1.24.32 · p. 112
अनुष्टुप्
सीमा घोटे स्थितौ क्षेत्रे मर्यादावेलयोरपि ।क्षुमाऽतसीनालिकयोर्नृनाम्नि परमद्युतौ ॥ ३३ ॥
1.24.33 · p. 112
अनुष्टुप्
उमाऽतसीहैमवतीहस्तिकीर्त्तिकान्तिषु ।रुमा सुग्रीवदारेषु विशिष्टे लवणाकरे ॥ ३४ ॥
1.24.34 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उत्तमा दुग्धिकायां स्यादुत्कृष्टे चोत्तमेऽन्यवत् ।मध्यमः स्यात् स्वरे मध्ये मध्यदेशे च भेदजे ॥ ३५ ॥
1.24.35 · p. 112
अनुष्टुप्
वाच्यवन्मध्यमातूक्ता राकादृष्टरजःस्त्रियोः ।कर्णिका त्र्यक्षरच्छन्दःकरमध्याङ्गुलीषु च ॥ ३६ ॥
1.24.36 · p. 113
अनुष्टुप्
अधमः कुत्सिते न्यूने प्रक्रमोऽवसरे क्रमे ।विक्रमः क्रान्तिमात्रे स्याद्विक्रमः शक्तिसम्पदि ॥ ३७ ॥
1.24.37 · p. 113
अनुष्टुप्
सङ्क्रमः क्रमणे सम्पद्वारिसञ्चारयन्त्रके ।निष्क्रमो बुद्धिसम्पत्तौ निर्गमे दुष्कुलेऽपि च ॥ ३८ ॥
1.24.38 · p. 113
अनुष्टुप्
आगमः शास्त्र आयाते विभ्रमो भ्रान्तिहावयोः ।सम्भ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि ॥ ३९ ॥
1.24.39 · p. 113
अनुष्टुप्
विद्रुमो रत्नदृक्षेऽपि प्रवाले पल्लवेऽपि च ।आश्रमो ब्रह्मचर्यादिचतुष्केऽपि मठेऽपि च ॥ ४० ॥
1.24.40 · p. 113
अनुष्टुप्
सत्तमश्चान्यवत् पूज्ये श्रेष्ठसाधीयसोरपि ।नियमो मन्त्रणायां स्यात प्रतिज्ञायाञ्च संयमे ॥ ४१ ॥
1.24.41 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथे ।नैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि च ॥ ४२ ॥
1.24.42 · p. 113
अनुष्टुप्
कलमो लेरवनीचौरशालिकाक्षरकेषु च ।तलिमं कुट्टिमे तल्पे चन्द्रहासे वितानके ॥ ४३ ॥
1.24.43 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परमं स्यादनुज्ञातेऽप्यव्ययं परमः परे ।परमं स्यात् प्रधानाद्योरोङ्कारेऽपि तथोच्यते ॥ ४४ ॥
1.24.44 · p. 113
अनुष्टुप्
कुसुमं पुष्पफलयोः स्त्रीरजोनेत्ररोगयोः ।कृत्रिमं रचिते प्रोक्तं सिह्रके लवणान्तरे ॥ ४५ ॥
1.24.45 · p. 113
अनुष्टुप्
सुषमं चारुसमयोः सुषमा परमद्युतौ ।सुषीमः शिशिरे चारौ सुषीमः पन्नगान्तरे ॥ ४६ ॥
1.24.46 · p. 113
अनुष्टुप्
पञ्चमो रागभेदे स्यात् पञ्चानामपि पूरणे ।पञ्चमश्चतुरे हृद्ये पञ्चमी पाण्डवस्त्रियाम ॥ ४७ ॥
1.24.47 · p. 113
अनुष्टुप्
गौतमः शाक्यसिंहे च मुनिभेदेऽथ गौतमी ।रोचन्यामम्बिकायाञ्च दाडिमः करकैलयोः ॥ ४८ ॥
1.24.48 · p. 113
अनुष्टुप्
गोधूमो नागरङ्गे स्याद्भेषजव्रीहिभेदयोः ।व्यायामो दुर्गसञ्चारे व्यायामः पौरुषेऽपि च ॥ ४९ ॥
1.24.49 · p. 114
अनुष्टुप्
विलोमस्तु प्रतीपे स्याद् भुजङ्गे वरुणे शुनि ।आमलक्यां विलोमी च विलोमं चारुघट्टके ॥ ५० ॥
1.24.50 · p. 114
अनुष्टुप्
गोलोमी श्वेतदूर्वायां षढ्ग्रन्थावारयोपितोः ।प्रतिमा दन्तबन्धे स्याद्गजस्यानुकृतावपि ॥ ५१ ॥
1.24.51 · p. 114
अनुष्टुप्
प्लवङ्गमः कपौ भेकेऽनुपमः सुन्दरेऽन्यवत् ।सुप्रतीकस्य योषायां भवेदनुपमाऽपि च ॥ ५२ ॥
1.24.52 · p. 114
अनुष्टुप्
अभ्यागमोऽन्तिके घाते विरोधाभ्युद्गमादिषु ।यातयामस्तु जीर्णे स्यात् परिभुक्तोज्झितेषु च ॥ ५३ ॥
1.24.53 · p. 114
अनुष्टुप्
दण्डयामस्तु कीनाशे दिवसे कुम्भसम्भवे ।सार्वभौमस्तु दिङ्नागे सार्वपृथ्वीपतावपि ॥ ५४ ॥
1.24.54 · p. 114
अनुष्टुप्
पराक्रमो विक्रमे स्यात् सामर्थ्योद्योगयोरपि ।उपक्रमः स्यादुपधाचिकित्सारम्भविक्रमे ॥ ५५ ॥
1.24.55 · p. 114
अनुष्टुप्
जलगुल्मो जलावर्त्ते कच्छपे जलचत्वरे ।महापद्मः स्मृतो नागनिधिसङ्ख्यान्तरेषु च ॥ ५६ ॥
1.24.56 · p. 114
अनुष्टुप्
अभ्युपगमः स्वीकारे समीपागमनेऽपि च ।नक्षत्रनेमिः शीतांशौ रेवत्याञ्च ध्रुवे क्वचित् ॥ ५७ ॥
1.24.57 · p. 114
अनुष्टुप्metre not read in every line