कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · रान्तवर्गः (3/3)

कारञ्जरो योगिचक्रे मेलके भैरवे गिरौ ।कारञ्जरोऽच्युते शक्रे भवेद्विश्वम्भरा भुवि ॥ २४० ॥
1.26.240 · p. 144
अनुष्टुप्
दुरोदसे द्यूतकरे पणे द्यूते दुरोदरम् ।लम्बोदरः स्यादुद्ध्माते गणानामधिपेऽपि च ॥ २४१ ॥
1.26.241 · p. 144
अनुष्टुप्
अनुत्तरः स्मृतः श्रेष्ठे प्रतिजल्पविवर्ज्जिते ।तुलाधरस्तुलाराशौ भवेद्वाणिजकेऽपि च ॥ २४२ ॥
1.26.242 · p. 144
अनुष्टुप्
भवेत्तोयधरो मेघे सुनिषण्णौषधेऽपि च ।धुरन्धरो धवतरौ धूर्वहेऽपि घुरन्धरः ॥ २४३ ॥
1.26.243 · p. 144
अनुष्टुप्
चक्रघरो हरौ सर्पे वाच्यवद्ग्रामजालिनि ।अश्वतरो वेसरे च नागराजान्तरेऽपि च ॥ २४४ ॥
1.26.244 · p. 145
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 घ (wrong syllable); pāda 3, syllable 3 त (wrong syllable)
विदुर्वीरतरं श्रेष्ठे शरवीरणयोरपि ।नभश्चरो घने वाते विद्याघरविहङ्गयोः ॥ २४५ ॥
1.26.245 · p. 145
अनुष्टुप्
उद्दन्तुरः स्यादुत्तुङ्गे करालोत्कटदन्तयोः ।द्वैमातुरो जरासन्धवारणाननयोर्मतः ॥ २४६ ॥
1.26.246 · p. 145
अनुष्टुप्
परम्परं प्रपौत्रादौ मृगभेदे परम्परः ।परम्परा परीपाट्यां सन्तानेऽपि वधे क्वचित् ॥ २४७ ॥
1.26.247 · p. 145
अनुष्टुप्
धराधरः क्ष्माभृति चक्रपाणौधाराधरस्तोयधरे कृपाणे ।पयोधरः स्यात् कुचकोषकार-कसेरुकाम्भोधरनारिकेले ॥ २४८ ॥
1.26.248 · p. 145
उपजातिः
कलिकारः करञ्जे स्याद् धूम्याटे पीतमस्तके ।अलङ्कारस्तूपमादौ हारकेयूरकादिषु ॥ २४९ ॥
1.26.249 · p. 145
अनुष्टुप्
कर्णिकारश्च सम्पाके कर्णिकारो द्रुमोत्पले ।रथकारस्तु माहिष्ये करणीजे च तक्षणि ॥ २५० ॥
1.26.250 · p. 145
अनुष्टुप्
चर्मकारः स्मृतः पादुकृति चर्म्मकषौषधे ।चर्मकारी च कथिता प्रतिकरः समे भटे ॥ २५१ ॥
1.26.251 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
घनसारस्तु कर्पूरे दक्षिणावर्त्तपारदे ।कृष्णसारः स्नुहीवृक्षे शिंशपामृगभेदयोः ॥ २५२ ॥
1.26.252 · p. 145
अनुष्टुप्
गिरिसारो भवेल्लोहे लिङ्गे मलयपर्वते ।पीतसारो मलयजे गोमेदकमणावपि ॥ २५३ ॥
1.26.253 · p. 145
अनुष्टुप्
शालसारो द्रुमे हिङ्गौ सूत्रधारः शचीपतौ ।नाट्यानन्तरसञ्चारिपात्रशिल्पिप्रभेदयोः ॥ २५४ ॥
1.26.254 · p. 145
अनुष्टुप्
दण्डधारो यमे भूपे सम्प्रहारो रणे गतौ ।प्रतीहारप्रतीहार्यौ द्वाःस्थे द्वारेऽप्यनन्तरे ॥ २५५ ॥
1.26.255 · p. 146
अनुष्टुप्
अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च ।व्यवहारो द्रुभेदे स्याद्व्यवहारः पणे स्थितौ ॥ २५६ ॥
1.26.256 · p. 146
अनुष्टुप्
अवहारः स्मृतश्चौरे द्यूतयुद्धादिविश्रमे ।निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि ॥ २५७ ॥
1.26.257 · p. 146
अनुष्टुप्
परिवारः परिजने खड्गकोषे परिच्छदे ।पारावारः समुद्रे च पारावारं तटद्वये ॥ २५८ ॥
1.26.258 · p. 146
अनुष्टुप्
अवतारोऽवतरणपुष्करिण्यादितीर्थयोः ।अकूपारः समुद्रेऽपि कूर्मराजेऽपि कीर्त्तितः ॥ २५९ ॥
1.26.259 · p. 146
अनुष्टुप्
शिशुमारोऽम्बुसम्भूतजन्तौ तारात्मकाच्युते ।सुकुमारश्च पुण्ड्रेक्षौ कोमले त्वऽभिधेयवत् ॥ २६० ॥
1.26.260 · p. 146
अनुष्टुप्
धुन्धुमारः शक्रगोपे गृहधूमे पदालिके ।कर्णपूरोऽवतंसे स्यान्नीलोत्पलशिरीषयोः ॥ २६१ ॥
1.26.261 · p. 146
अनुष्टुप्
करवीरः कृपाणे स्याद्दैत्यभेदाश्वमारयोः ।श्रेष्ठगव्यां पुत्रवत्यामदितौ करवीर्यऽपि ॥ २६२ ॥
1.26.262 · p. 146
अनुष्टुप्
महावीरः पवौ तार्श्वे शूरे सिंहेऽपि कोकिले ।मखानले च कर्के च महावीरो जराटके ॥ २६३ ॥
1.26.263 · p. 146
अनुष्टुप्
आत्मवीरः प्राणवति श्यालपुत्रे विदूषके ।चार्वटीरस्त्रपावाम्रास्थ्न्यङ्कुरे गणिकासुते ॥ २६४ ॥
1.26.264 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
चित्रटीरो विधौ भालमङ्कितं येन तत् रच ।घण्टाकर्णोपहाराय हतच्छागास्रबिन्दुभिः ॥ २६५ ॥
1.26.265 · p. 146
अनुष्टुप्
पात्रटीरो बुधैरुक्तो मुक्तव्यापारमन्त्रिणि ।लोहकांस्ये जरत्पात्रे प्रमाणे पावकेऽपि च ॥ २६६ ॥
1.26.266 · p. 146
अनुष्टुप्
धाराङ्कुरः सुनासीरे शीकरेऽपि घनोपले ।समुद्रारुः स्मृतो ग्राहे सेतुबन्धे तिमिङ्गिले ॥ २६७ ॥
1.26.267 · p. 146
अनुष्टुप्
विश्वकद्रुः खले ध्वाने स्यादाखेटिककुक्कुरे ।असिपत्रो भवेत् कोषकारे च नरकान्तरे ॥ २६८ ॥
1.26.268 · p. 147
अनुष्टुप्
शतपत्रो राजकीरे दार्वाघाटमयूरयोः ।राजीवे शतपत्रन्तु वातपुत्रो हनूमति ॥ २६९ ॥
1.26.269 · p. 147
अनुष्टुप्
महाधूर्त्ते च भीमे च लक्ष्मीपुत्रः स्मरे हये ।पूर्णपात्रं वस्तुपूर्णपात्रे वर्द्धापकेऽपि च ॥ २७० ॥
1.26.270 · p. 147
अनुष्टुप्
महामात्रः समृद्धेऽग्रमात्ये हस्तिपकाधिपे ।बिन्दुतन्त्रं विदुः शारिफलके चतुरङ्गके ॥ २७१ ॥
1.26.271 · p. 147
अनुष्टुप्
रागसूत्रं तुलासूत्रे पट्टसूत्रेऽपि दृश्यते ।तालपत्रन्तु ताटङ्के रण्डायां तालपत्र्यपि ॥ २७२ ॥
1.26.272 · p. 147
अनुष्टुप्
अग्निहोत्रोऽग्निहविषोर्वीतिहोत्रोऽनलार्क्कयोः ।वीरभद्रोऽश्वमेधाश्वे वीरश्रेष्ठे च वीरणे ॥ २७३ ॥
1.26.273 · p. 147
अनुष्टुप्
पारिभद्रस्तु मन्दारनिम्बपादपयोर्मतः ।बलभद्रो रौहिणेये त्रायमाणौषधावपि ॥ २७४ ॥
1.26.274 · p. 147
अनुष्टुप्
बलभद्रा कुमार्यां स्यादर्द्धचन्द्रस्तु चन्द्रके ।गलहस्ते बाणभेदेऽप्यर्द्धचन्द्रा त्रिवृद्भिदि ॥ २७५ ॥
1.26.275 · p. 147
अनुष्टुप्
धार्त्तराष्ट्रोऽसितास्याङ्घ्रिहंसकौरवभोगिषु ।धृतराष्ट्रः सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः ॥ २७६ ॥
1.26.276 · p. 147
अनुष्टुप्
धृतराष्ट्री हंसपन्त्यां स्थिरदंष्ट्रो भुजङ्गमे ।वराहाकृतिविष्णौ च वक्त्रनक्रः शुके खले ॥ २७७ ॥
1.26.277 · p. 147
अनुष्टुप्
कटम्भरा प्रसारण्यां रोहिण्यां गजयोपषिति ।कलम्बिकायां गोलायां वर्षाभूमूर्वयोरपि ॥ २७८ ॥
1.26.278 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मणिच्छिद्रा तु मेदायामृषभाख्यौषधेऽपि च ।तुङ्गभद्रा नदीभेदे तुङ्गभद्रो मदोत्कटे ॥ २७९ ॥
1.26.279 · p. 147
अनुष्टुप्
दण्डयात्रा दिग्विजये सन्दानवरयात्रयोः ।देहयात्रा भोजने स्यात् कृतान्तागमनेऽपि च ॥ २८० ॥
1.26.280 · p. 148
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
विभावरी हरिद्रायां रजन्याञ्च विभावरी ।विवादे वस्त्रकुट्याञ्च कुट्टन्यां चक्रयोषिति ॥ २८१ ॥
1.26.281 · p. 148
अनुष्टुप्
कुम्भकारी कुलाल्यां स्यात् कुम्भकारः कुलालके ।तुण्डिकेरी तु कार्पास्यां बिम्बिकायामपीष्यते ॥ २८२ ॥
1.26.282 · p. 148
अनुष्टुप्
पांशुसञ्चार इत्येष दूर्वाञ्चिततटीभुवि ।वर्द्धापके प्रशंसायां पुरोटौ धूलिगुच्छके ॥ २८३ ॥
1.26.283 · p. 148
अनुष्टुप्
स्यात् पादचत्वरश्छागे सैकते पिप्पलेऽपि च ।विप्रतीसारमिच्छन्ति कौकृत्येऽनुशये रुषि ॥ २८४ ॥
1.26.284 · p. 148
अनुष्टुप्
समभिहारो भृशत्वे पौनःपुन्येऽपि कथ्यते ।करके परदोषैकभाजि पूरुषकेऽपि च ॥ २८५ ॥
1.26.285 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 भि (wrong syllable)
गीतकावेरमिच्छन्ति पित्तले कुङ्कुमेऽपि च ।तालीशपत्रं तालीशे तामलक्यामपि स्मृतम् ॥ २८६ ॥
1.26.286 · p. 148
अनुष्टुप्
भवेदुत्पलपत्रन्तु तद्दले स्त्रीनखक्षते ।तमालपत्रं तापिञ्जे तिलके पत्रकेऽपि च ॥ २८७ ॥
1.26.287 · p. 148
अनुष्टुप्
सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे ।निम्बेऽपि सर्वतोभद्रा गम्भारीनटयोषितोः ॥ २८८ ॥
1.26.288 · p. 148
अनुष्टुप्
वस्वौकसारा श्रीदस्य शक्रस्य नलिनीपुरोः ।भवेत् कपिलधाराख्या स्वर्नदीतीर्थभेदयोः ॥ २८९ ॥
1.26.289 · p. 148
अनुष्टुप्