All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · क्षान्तवर्गः
इति हान्तवर्गः ॥
षान्ताः स्युर्यद्यपि क्षान्ता वर्णानामनुरोधतः ।पृथक्क्रमेण कथ्यन्ते तथाऽप्येते समन्वयात् ॥ १ ॥
1.33.1 · p. 182
अनुष्टुप्
अक्षः कर्षे तुषे चक्रे शकटे व्यवहारयोः ।आत्मज्ञे पाशके चाक्षं तुत्थसौवर्च्चलेन्द्रिये ॥ २ ॥
1.33.2 · p. 182
अनुष्टुप्
ऋक्षोऽद्रिभेदे भल्लूके शोणके कृतवेधने ।ऋक्षमुक्तञ्च नक्षत्रे यक्षः श्रीदे च गुह्यके ॥ ३ ॥
1.33.3 · p. 182
अनुष्टुप्
दक्षः पटौ हरवृषे ताम्रचूडे प्रजापतौ ।मुनिभेदे द्रुमे वह्नौ दक्षो दक्षा भुवि स्मृता ॥ ४ ॥
1.33.4 · p. 182
अनुष्टुप्
पक्षो मासार्द्धके पार्श्वे ग्रहे साध्यविरोधयोः ।पक्षश्च परतो वृन्दे बले सखिसहाययोः ॥ ५ ॥
1.33.5 · p. 182
अनुष्टुप्
पतत्रे चुल्लिरन्ध्रे च देहाङ्गे राजकुञ्जके ।लक्षं शरव्ये सङ्ख्यायां लक्षं छद्मनि कथ्यते ॥ ६ ॥
1.33.6 · p. 182
अनुष्टुप्
प्लक्षो द्वीपविशेषे स्यात् पर्क्कटीगर्द्दभाण्डयोः ।पिप्पले द्वारपार्श्वे च गृहस्य परिकीर्त्तितः ॥ ७ ॥
1.33.7 · p. 183
अनुष्टुप्
न्यक्षः परक्षुरामे स्यान्न्यक्षः कार्त्स्न्ये निकृष्टयोः ।चोक्षो गीते ध्रुवौ दक्षे तया तीक्ष्णमनोज्ञयोः ॥ ८ ॥
1.33.8 · p. 183
अनुष्टुप्
ध्वाङ्क्षस्तु काकबकयोस्तर्कुके भिक्षुके गृहे ।ध्वाङ्क्षी कक्कोलिकायां स्यात् कक्षो दोर्मूलकच्छयोः ॥ ९ ॥
1.33.9 · p. 183
अनुष्टुप्
सैरिभे च वृपे कक्षः शुष्ककाननवीरुधोः ।कक्षा ग्राहणिकाकाञ्चीप्रकोष्ठगजरज्जुषु ॥ १० ॥
1.33.10 · p. 183
अनुष्टुप्
सार्द्धे पदे परीधानपश्चादञ्चलपल्लवे ।रथभागेऽपि कक्षा स्याद्वीक्षा विस्मयरश्ययोः ॥ ११ ॥
1.33.11 · p. 183
अनुष्टुप्
मोक्षो मुष्ककवृक्षे स्यादपवर्गे च मोचने ।रूक्षः पादपजातौ स्याद् रूक्षोऽप्रेमण्यचिक्कणे ॥ १२ ॥
1.33.12 · p. 183
अनुष्टुप्
भिक्षा भृतौ च याच्ञायां सेवाभिक्षितवस्तुनोः ।प्रेक्षाऽनुत्प्रेक्षणे बुद्धौ रक्षा रक्षणरक्षयोः ॥ १३ ॥
1.33.13 · p. 183
अनुष्टुप्
अध्यक्षोऽधिकृते प्रोक्तः प्रत्यक्षेऽध्यक्षमिष्यते ।गोरक्षो नागरङ्गे स्याद् गवाञ्च परिरक्षके ॥ १४ ॥
1.33.14 · p. 183
अनुष्टुप्
आरक्षो रक्षणीये स्याच्छीर्षमर्मणि दन्तिनाम ।रक्ताक्षः कासरे क्रूरे पारावतचकोरयोः ॥ १५ ॥
1.33.15 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
समीक्षा ग्रन्थभेदे स्यात् तत्त्वबुद्धौ निभालने ।उत्प्रेक्षाऽनवधाने स्यात् काव्यालङ्करणेऽपि च ॥ १६ ॥
1.33.16 · p. 183
अनुष्टुप्
मृगाक्षी चेन्द्रवारुण्यां मृगनेत्रात्रियामयोः ।गवाक्षी शक्रवारुण्यां गवाक्षो जालके कपौ ॥ १७ ॥
1.33.17 · p. 183
अनुष्टुप्
वीरवृक्षस्तु भल्लातककुभद्रुमयोर्मतः ॥१८४ ॥
1.33.184 · p. 183
राजवृक्षः प्रियाले स्यात् सुवर्णालुतरावपि ॥ १८ ॥
1.33.18 · p. 184
देववृक्षः सप्तपर्णे मन्दरादिषु गुग्गुलौ ।भूतवृक्षस्तु शाकोटे तथा श्योनाकपादपे ॥ १९ ॥
1.33.19 · p. 184
अनुष्टुप्
विशालाक्षो हरे तार्क्ष्ये विशालाक्षी वरस्त्रियाम् ।सकटाक्षो घवद्रौ स्यात् कटक्षसहितेऽपि च ॥ २० ॥
1.33.20 · p. 184
अनुष्टुप्