All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · सान्तवर्गः
इति पान्तवर्गः ॥
रसो गन्धरसे स्वादे चित्तादो विषरागयोः ।शृङ्गारादौ द्रवे वीर्ये देहधातौ च पारदे ॥ १ ॥
1.31.1 · p. 173
अनुष्टुप्
रसा तु सल्लकीपावाजिह्वाधरणिकङ्गुषु ।भासो भासि समाख्यातो घोष्टकुक्कुटगृध्रयोः ॥ २ ॥
1.31.2 · p. 174
अनुष्टुप्
दासः शूद्रे दानपात्रे भृत्यधीवरयोरपि ।दासी चेट्याञ्च झिण्ट्याञ्च रासः कोलाहले ध्वनौ ॥ ३ ॥
1.31.3 · p. 174
अनुष्टुप्
भाषाशृङ्खलके रासः क्रीडायामपि गोदुहाम् ।वासः सुवर्णचेले स्यात् प्रभेदे किष्कुपर्वणः ॥ ४ ॥
1.31.4 · p. 174
अनुष्टुप्
भाः प्रभावे मयूखे च माः स्मृतश्चन्द्रमासयोः ।अदः परस्मिन्नत्राऽपि गोसो गन्धरसोषयोः ॥ ५ ॥
1.31.5 · p. 174
अनुष्टुप्
वत्सस्तर्णकपुत्रादिवर्षे वत्सन्तु वक्षसि ।बुत्सः स्तम्बे हारभेदे स्तबके ग्रन्थिपर्णके ॥ ६ ॥
1.31.6 · p. 174
अनुष्टुप्
वासो गेहेऽप्यवस्थाने वासा स्यादटरूषके ।व्यासो मुनौ स्याद्विस्तारे त्रासो भीमणिदोषयोः ॥ ७ ॥
1.31.7 · p. 174
अनुष्टुप्
हंसो विहङ्गभेदे स्यादर्के विष्णौ हयान्तरे ।योगिमन्त्रादिभेदेषु परमात्मनि मत्सरे ॥ ८ ॥
1.31.8 · p. 174
अनुष्टुप्
निर्लोभनृपतौ हंसः शारीरमरुदन्तरे ।अंसः स्कन्धे विभागे च कंसो दैत्यान्तरे स्मृतः ॥कांस्ये च कांस्यपात्रे च मानभेदेऽपि कीर्त्तितः ।मांसः स्यादामिषे मांसी कक्कोलीजटयोरपि ॥ ९ ॥
1.31.9 · p. 174
अनुष्टुप्
वसुर्मयूखाग्निजनाधिपेषुयोक्त्रे वके स्माद्वसुहट्टके च ।वृद्ध्यौषधश्यामधनेषु रत्नेवसु स्मृतं स्यान्मघुरेऽन्यवच्च ॥ १० ॥
1.31.10 · p. 174
उपजातिः
नासा तु नासिकायां स्यान्नासा द्वारोर्ध्वदारुणि ।मृत्सा तु कथिता वासिश्रेष्ठमृत्तिकयोर्बुधैः ॥ ११ ॥
1.31.11 · p. 174
अनुष्टुप्
हिंसा चौर्यादिवधयोः शंसा वचनवाञ्छयोः ।मिसिस्तु मधुरामांस्योर्गजपुष्पाजमोदयोः ॥ १२ ॥
1.31.12 · p. 174
अनुष्टुप्
कासूर्विकलवाचि स्यात् लासूः शक्त्यायुधेऽपि च ।प्रसूरश्वाजनन्योश्च कन्दलीवीरुधोरपि ॥ १३ ॥
1.31.13 · p. 175
अनुष्टुप्
अलसः पादरोगे स्यात् क्रियामन्दे द्रुमान्तरे ।अलसा हंसपद्याञ्च रभसो वेगहर्षयोः ॥ १४ ॥
1.31.14 · p. 175
अनुष्टुप्
पनसः कण्टकिफले कण्टके कपिरुग्भिदोः ।सुरसः स्यात् सुमधुरे पर्णासे सुरसाऽपि च ॥ १५ ॥
1.31.15 · p. 175
अनुष्टुप्
सारसः पक्षिभेदे स्यात् सारसं सरसीरुहे ।श्रीवासो यक्षधूपे स्यात् पङ्कजे पीतवाससि ॥ १६ ॥
1.31.16 · p. 175
अनुष्टुप्
साहसन्तु बलात्कारकृतकार्ये दमेऽपि च ।वाहसो जलनिर्यासेऽजगरे सुनिषण्णके ॥ १७ ॥
1.31.17 · p. 175
अनुष्टुप्
लालसो लालसाऽपि स्याद्याच्ञातृष्णातिरेकयोः ।औत्सुक्ये च समासस्तु संक्षेपे च समर्थने ॥ १८ ॥
1.31.18 · p. 175
अनुष्टुप्
कीकसः कृमिजातौ स्यादस्थ्नि कीकसमिष्यते ।पायसं परमान्ने स्याच्छ्रीवासेऽपि च पायसः ॥ १९ ॥
1.31.19 · p. 175
अनुष्टुप्
वायसो नाडिजङ्घे स्याच्छ्रीवासे चागुरुद्रुमे ।काकोदुम्बरिकायाञ्च काकमाच्याञ्च वायसी ॥ २० ॥
1.31.20 · p. 175
अनुष्टुप्
उच्छ्वासः प्राणनाश्वासगद्यबन्धगुणान्तरे ।इष्वासो धन्विधनुषोर्विलासो भावलीलयोः ॥ २२ ॥
1.31.22 · p. 175
अनुष्टुप्
वीतसो बन्धनोपाये मृगाणां पक्षिणामपि ।तेषामपि च विश्वासहेतोः प्रावरणे स्मृतम् ॥ २३ ॥
1.31.23 · p. 175
अनुष्टुप्
उत्तंसः कर्णपूरे स्याच्छेकरे च वतंसवत् ।बीभत्सो विकृते क्रूरेऽप्यर्जुने च घृणात्मनि ॥ २४ ॥
1.31.24 · p. 175
अनुष्टुप्
विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत् ।भूयान् बहुतरार्थे स्यात् पुनरर्थे त्वदोऽव्ययम् ॥ २५ ॥
1.31.25 · p. 176
अनुष्टुप्
ज्यायान् वृद्धे च शस्ते च हविर्होतव्यसर्पिषोः ।रेषाः स्यादधमे क्रूरे कृपणेऽपि च कथ्यते ॥ २६ ॥
1.31.26 · p. 176
अनुष्टुप्
वेधा विधौ बुधे विष्णावागः पापापराधयोः ।वर्च्चो दीप्तौ पुरीषे च वर्च्चो रूपेऽपि च क्वचित् ॥ २७ ॥
1.31.27 · p. 176
अनुष्टुप्
छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः ।एनोऽपराधे कलुषे मनश्चित्तमनीषयोः ॥ २८ ॥
1.31.28 · p. 176
अनुष्टुप्
रोदश्च रोदसी चाऽपि दिवि भूमौ पृथक पृथक् ।सह प्रयोगेऽप्यनयो रोदः स्यादपि रोदसी ॥ २९ ॥
1.31.29 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 थक (syllable split)
ओजस्तेजसि धातूनामवस्तम्भप्रकाशयोः ।भुजो वले च दीप्तौ च तेजो धाम्नि पराक्रमे ॥ ३० ॥
1.31.30 · p. 176
अनुष्टुप्
प्रभावरेतसोश्चाथ रजः स्यादार्त्तवे गुणे ।रजःपरागे रेणौ तु रजवत् परिकीर्त्तितम् ॥ ३१ ॥
1.31.31 · p. 176
अनुष्टुप्
वपुर्भव्याकृतौ देहे पयः स्यात् क्षीरनीरयोः ।वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके ॥ ३२ ॥
1.31.32 · p. 176
अनुष्टुप्
श्रेयस्तु मङ्गले धर्मे श्रेयान् शस्ते तु वाच्यवत् ।श्रेयसी करिपिप्पल्यामभयारास्नयोरपि ॥ ३३ ॥
1.31.33 · p. 176
अनुष्टुप्
स्रोतोऽम्बुवेगेन्द्रिययोरोकः सद्मनि चाश्रये ।शिरः प्रधाने सेनाग्रभागमस्तकयोरपि ॥ ३४ ॥
1.31.34 · p. 176
अनुष्टुप्
तपश्चान्द्रायणादौ स्याद्धर्मे लोकान्तरेऽपि च ।तपा माघे च शिशिरे सरस्तोयतडागयोः ॥ ३५ ॥
1.31.35 · p. 176
अनुष्टुप्
उषः प्रभाते सन्ध्यायामुरः श्रेष्ठे च वक्षसि ।तमोऽन्धकारे स्वर्भानौ तमःशोके गुणान्तरे ॥ ३६ ॥
1.31.36 · p. 176
अनुष्टुप्
नभो व्योम्नि नभा मेघे श्रावणे च पतद्ग्रहे ।घ्राणे मृणालसूत्रे च वर्षासु च नभाः स्मृतः ॥ ३७ ॥
1.31.37 · p. 177
अनुष्टुप्
तरो बले च वेगे च रेतः शुक्रे च पारदे ।अर्च्चिर्मयूखशिखयोर्बर्हिः कुशहुताशयोः ॥ ३८ ॥
1.31.38 · p. 177
अनुष्टुप्
सहो वले ज्योतिषि मार्गशीर्ष-हेमन्तयोश्चाऽपि सहः प्रदिष्टः ।रहोऽपि गुह्ये सुरते च तत्त्वेमहो भवेदुत्सवतेजसोश्च ॥ ३९ ॥
1.31.39 · p. 177
उपजातिः
ज्योतिः प्रकाशे दृशि तारकासुज्योतिर्दिनेशानलयोरपि स्यात् ।घनुः प्रियालद्रुमराशिभेदयोःशरासने चापि धनुर्धनुर्धरे ॥ ४० ॥
1.31.40 · p. 177
upajati mixed
आशीरुक्ता हिताशंसापवनाशनदंष्ट्रयोः ।राक्षसीति च दंष्ट्रायां राक्षसी रक्षसः स्त्रियाम् ॥ ४१ ॥
1.31.41 · p. 177
अनुष्टुप्
तामसीति च दुर्गायां तामसो भुजगे खले ।पुक्कसी कालिकानील्योः पुक्कसः श्वपचेऽधमे ॥ ४२ ॥
1.31.42 · p. 177
अनुष्टुप्
भवेद्घनरसः सान्द्रनिर्यासमोरटाप्सु च ।कर्पूरे पीलुपर्ण्याञ्च सस्ये सिद्धरसेऽपि च ॥ ४३ ॥
1.31.43 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
सर्वरसः स्मृतो वाद्यभाण्डभेदे च धूनके ।स्मृतं तामरसं पद्मे ताम्रकाञ्चनयोरपि ॥ ४४ ॥
1.31.44 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
सिद्धरसो रसे व्याधिप्रभृतीषु च दृश्यते ।महारसः स्यात् खर्ज्जूरे कोशकारकसेरुणोः ॥ ४५ ॥
1.31.45 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
रासेरसस्तु रासे स्याद्रससिद्धिबलावपि ।षष्ठीजागरिके गोष्ठ्यां शृङ्गारपरिहासयोः ॥ ४६ ॥
1.31.46 · p. 177
अनुष्टुप्
श्वःश्रेयसञ्च भद्रे स्यात् परानन्दे च शर्मणि ।निःश्रेयसञ्च कल्याणे चन्द्रचूडापवर्गयोः ॥ ४७ ॥
1.31.47 · p. 178
अनुष्टुप्
कुम्भीनसो विषज्वालाकुलदृष्टिभुजङ्गमे ।कुम्भीनसी जनन्याञ्च लवणाख्यस्य रक्षसः ॥ ४८ ॥
1.31.48 · p. 178
अनुष्टुप्
मलीमसन्तु मलिने पुष्पकासीसलोहयोः ।पौणेमासपौर्णमास्यौ यज्ञपूर्णिमयोः क्रमात् ॥ ४९ ॥
1.31.49 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स (wrong syllable)
अधिवासो निवासे च संस्कारे धूपकादिभिः ।चन्द्रहासो दशग्रीवकरवालेऽसिमात्रके ॥ ५० ॥
1.31.50 · p. 178
अनुष्टुप्
विश्वावसुः स्याद्गन्धर्वभेदे विश्वावसुर्निशि ।विभावसुर्दिनमणौ हारभेदे च पावके ॥ ५१ ॥
1.31.51 · p. 178
अनुष्टुप्
पुनर्वसुर्भवेदृक्षे कात्यायनमुनावपि ।राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥ ५२ ॥
1.31.52 · p. 178
अनुष्टुप्
कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे ।अवध्वंसः परित्यागे निन्दनेऽप्यवचूर्णने ॥ ५३ ॥
1.31.53 · p. 178
अनुष्टुप्
स्मृता मधुरसा द्राक्षामूर्विकादुग्धिकासु च ।नीलञ्जसाऽप्सरोभेदे सरिद्भेदेऽपि विद्युति ॥ ५४ ॥
1.31.54 · p. 178
अनुष्टुप्
सुमेधास्तु सुबुद्धौ स्याज्ज्योतिष्मत्यामपीष्पते ।सुमनाः पुष्पमालत्योस्त्रिदशे कोविदेऽपि च ॥ ५५ ॥
1.31.55 · p. 178
अनुष्टुप्
प्रचेतास्तु मुनौ हृष्टे स्यात् प्रतीचीपतावपि ।विहायास्तु शकुन्ते स्याद्विहायः सुरवर्त्मनि ॥ ५६ ॥
1.31.56 · p. 178
अनुष्टुप्
त्रिस्रोता जह्नुकन्यायां त्रिस्रोताः सरिदन्तरे ।अगौकाश्च नगौकाश्च शरभे सिंहपक्षिणोः ॥ ५७ ॥
1.31.57 · p. 178
अनुष्टुप्
उदर्च्चिरुत्प्रभे वह्नौ दिवौकाश्चातके सुरे ।दीर्घायुः शाल्मलौ काके मार्कण्डेयेऽतिजीविनि ॥ ५८ ॥
1.31.58 · p. 178
अनुष्टुप्
सप्तार्च्चिः पावके प्रोक्तः सप्तार्च्चिः क्रूरलोचने ।कनीयाननुजेऽत्यल्पे कनीयानतियूनि च ॥ ५९ ॥
1.31.59 · p. 179
अनुष्टुप्
वरीयानतियूनि स्याद्वरिष्ठे श्रेष्ठयोगयोः ।साधीयानतिबाढे स्यादतिसाधौ च वाच्यवत् ॥ ६० ॥
1.31.60 · p. 179
अनुष्टुप्
स्यान्नभश्चमसश्चन्द्रे चित्रापूपेन्द्रजालयोः ।हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च ॥ ६१ ॥
1.31.61 · p. 179
अनुष्टुप्