कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · तान्तवर्गः (1/2)

इति णान्तवर्गः ॥

ततं विततवद्व्याप्ते विस्तृते वाच्यवन्मतम् ।ततं वीणादिवाद्ये च पवमाने ततः पुनः ॥ १ ॥
1.15.1 · p. 56
अनुष्टुप्
इतं गते स्याद्विज्ञाते रतं सुरतगुह्ययोः ।इतमुञ्छशिले तोये दीप्ते सत्येऽभिपूजिते ॥ २ ॥
1.15.2 · p. 56
अनुष्टुप्
कृतं युगेऽपि पर्याप्ते विहिते हिंसिते फले ।घृतमाज्ये प्रदीप्ते च सलिले च घृतं मतम् ॥ ३ ॥
1.15.3 · p. 56
अनुष्टुप्
मृतं स्याद्याचिते मृत्यौ मृत्युमत्यभिधेयवत् ।गतन्तु यात्राधिगते मतं पूजितसन्धिते ॥ ४ ॥
1.15.4 · p. 56
अनुष्टुप्
धुतं त्यक्ते विभूते च धूतं कम्पितभर्त्सिते ।पूतं पवित्रे रटिते पूतञ्च बहुलीकृते ॥ ५ ॥
1.15.5 · p. 57
अनुष्टुप्
श्रुतं शास्त्रावधृतयोः पोतमोतप्रसूतयोः ।नतं स्याद्वाच्यवन्नम्रे नतस्तगरपादपे ॥ ६ ॥
1.15.6 · p. 57
अनुष्टुप्
द्रुतं शीघ्रे विलीने च विद्रावे चाभिधेयवत् ।युतं हस्तचतुष्के स्याद्युतं युक्ते युतं पृथक् ॥ ७ ॥
1.15.7 · p. 57
अनुष्टुप्
स्थितं भवेद्गत्यभावे सुप्रतिज्ञे सुनिश्चिते ।सितः समाप्ते धवले निबद्धज्ञातयोरपि ॥ ८ ॥
1.15.8 · p. 57
अनुष्टुप्
शितं शातञ्च निशिते कृशे शान्तश्च शर्मणि ।हितं धृते गते पथ्ये सुतः पार्थिवपुत्रयोः ॥ ९ ॥
1.15.9 · p. 57
अनुष्टुप्
प्लुतं तुरङ्गमगतौ प्लुतमाहुस्त्रिमात्रके ।प्रोतन्तु गुम्फिते वस्त्रे प्रेतो भूतान्तरे मृते ॥ १० ॥
1.15.10 · p. 57
अनुष्टुप्
सूतस्तु सारथौ ताक्ष्णि प्रसूते प्रेरितेऽपि च ।क्षत्रियाद्ब्राह्मणीजेऽपि सूतः पारदबन्दिनोः ॥ ११ ॥
1.15.11 · p. 57
अनुष्टुप्
श्वेतं रूप्येऽन्यवच्छुक्ले श्वेतो द्वीपाद्रिभेदयोः ।श्वेता वराटिका काष्ठपाटलीशङ्खिनीषु च ॥ १२ ॥
1.15.12 · p. 57
अनुष्टुप्
सत् प्रशस्ते विद्यमाने सत्याभिहितसाधुषु ।सती पतीव्रतागौर्योरेतः कर्बूर आगते ॥ १३ ॥
1.15.13 · p. 57
अनुष्टुप्
तातोऽनुकम्प्ये जनके जातं जात्योघजन्मसु ।पातः स्यात् पतने त्राते घातः काण्डप्रहारयोः ॥ १४ ॥
1.15.14 · p. 57
अनुष्टुप्
पोतः शिशौ वहित्रे च लते श्मश्रुणि चोरिते ।गीतन्तु शब्दिते गाने प्रीतं हृषितनर्मणोः ॥ १५ ॥
1.15.15 · p. 57
अनुष्टुप्
वीतञ्चासारहस्त्यऽश्वे वीतमङ्कुशकर्मणि ।भीतं भये भययुते वाच्यवत् परिकीर्त्तितम् ॥ १६ ॥
1.15.16 · p. 57
अनुष्टुप्
भूतं क्ष्मादौ पिशाचादौ न्याय्ये सत्योपमानयोः ॥
1.15.17 · p. 57
भूतो देवलके प्राप्तवृत्तयोरभिधेयवत् ॥ १७ ॥
1.15.17 · p. 58
केतुर्द्युतौ पताकायां ग्रहोत्पातारिलक्ष्यसु ।सेतुरालौ च वरुणे क्रतुर्यज्ञे मुनेर्भिदि ॥ १८ ॥
1.15.18 · p. 58
अनुष्टुप्
धातुः स्यादश्मविकृतौ विषयेष्विन्द्रियेषु च ।भूवादिरसरक्तादिश्लेष्मादिवसुधादिषु ॥ १९ ॥
1.15.19 · p. 58
अनुष्टुप्
वर्त्तते धातुशब्दोऽयं विशेषादस्थ्नि गैरिके ।ऋतुः स्त्रीकुसुमे मासि वसन्तादिषु धारयोः ॥ २० ॥
1.15.20 · p. 58
अनुष्टुप्
गातुः पुंस्कोकिले भृङ्गे गन्धर्वे रोषणेऽपि च ।मन्तुः स्यादपराधेऽपि मनुष्येऽपि प्रजापतौ ॥ २१ ॥
1.15.21 · p. 58
अनुष्टुप्
धूर्त्तूः स्यात् खण्डलवणे खलधुत्तूरयोरपि ।पूत्तस्तु पूरिते छन्ने पूर्तं खातादिकर्मणि ॥ २२ ॥
1.15.22 · p. 58
अनुष्टुप्
मूर्त्तं मूर्त्तिमित[?] प्रोक्तं मूर्च्छाले कठिनेऽपि च ।गर्त्तस्त्रिगर्त्तभेदे स्यादवटे च कुकुन्दरे ॥ २३ ॥
1.15.23 · p. 58
अनुष्टुप्
आप्तः सभ्ये च लब्धे च प्राप्तं वित्ते समञ्जसे ।व्याप्तं ख्याते समाक्रान्ते गुप्तं रक्षितगूढयोः ॥ २४ ॥
1.15.24 · p. 58
अनुष्टुप्
लिप्तं विषाप्ते गुप्ते च वाच्यवत् स्याद्विलेपिते ।दीप्तं निर्भासिते दग्धे वदन्ति ज्वलितेऽपि च ॥ २५ ॥
1.15.25 · p. 58
अनुष्टुप्
अस्तं क्षिप्ते गते प्रोक्तमस्तः पश्चिमभूधरे ।ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते ॥ २६ ॥
1.15.26 · p. 58
अनुष्टुप्
पुस्तन्तु पुस्तके लेख्यकर्मविज्ञानयोरपि ।शस्तं क्षेमे प्रशस्ते च व्यक्तं व्याप्ते च सङ्कुले ॥ २७ ॥
1.15.27 · p. 58
अनुष्टुप्
हस्तो नक्षत्रभेदे स्यात् करेभकरयोरपि ।कचात्परः कलापार्थे सप्रकोष्ठे तताङ्गुलौ ॥ २८ ॥
1.15.28 · p. 58
अनुष्टुप्
वित्तं ख्याते धने लब्धे वित्तं ज्ञाते विचारिते ।कृत्तन्तु चेष्टिते छिन्ने दत्तं विश्राणितेऽर्चिते ॥ २९ ॥
1.15.29 · p. 58
अनुष्टुप्
वृत्तोऽतीते दृढे ख्याते वर्त्तुलेऽपि वृते मृते ।वाच्यवद्वर्त्तते वृत्तं चरित्रच्छन्दसोरपि ॥ ३० ॥
1.15.30 · p. 59
अनुष्टुप्
अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहरे ।वृन्तं प्रसवबन्धे स्याद्घटधाराकुचाग्रयोः ॥ ३१ ॥
1.15.31 · p. 59
अनुष्टुप्
दन्तो निकुञ्जे दशने दन्तः सानुनि कथ्यते ।दन्ती स्यादोषधीभेदे कान्तचेतसि गह्वरे ॥ ३२ ॥
1.15.32 · p. 59
अनुष्टुप्
कुन्तः प्राप्ते चण्डभावे क्षुद्रजन्तौ गवेधुके ।कुन्ती पाण्डुप्रियायाञ्च शल्लक्यां गुग्गुलुद्रुमे ॥ ३३ ॥
1.15.33 · p. 59
अनुष्टुप्
कान्तोऽश्मनि गृहे चारौ कान्तानुफलिनीस्त्रियोः ।शान्तो रसविशेषे स्यादतिभुक्तकदान्तयोः ॥ ३४ ॥
1.15.34 · p. 59
अनुष्टुप्
उक्तमेकाक्षरं छन्दस्युक्तं स्याद्भाषितेऽपि च ।शुक्तोऽम्ले परुषे पूते व्यक्तं स्फुटमनीषिणोः ॥ ३५ ॥
1.15.35 · p. 59
अनुष्टुप्
तिक्तो रसे सुगन्धे च तिक्तं पर्पटके स्मृतम् ।तिक्ता तु कटुरोहिण्यां रिक्तं काननशून्ययोः ॥ ३६ ॥
1.15.36 · p. 59
अनुष्टुप्
रक्तं स्यात् कुङ्कुमे ताम्रे प्रचीनामलकेऽसृजि ।अनुरागिणि नील्यादिरञ्जिते लोहितेऽन्यवत् ॥ ३७ ॥
1.15.37 · p. 59
अनुष्टुप्
यन्ता हस्तिपके सूते वप्ता पितरि पावके ।त्रेता युगेऽग्नित्रितये भर्त्ता स्वामिनि धारके ॥ ३८ ॥
1.15.38 · p. 59
अनुष्टुप्
शास्ता च शासके बुद्धे वक्ता वाग्मिनि पण्डिते ।मुक्ता तु मौक्तिके मुक्तः प्राप्तमुक्ते च मोचने ॥ ३९ ॥
1.15.39 · p. 59
अनुष्टुप्
क्षत्ता शूद्रात् क्षत्रियाजे प्रतीहारे च सारथौ ।भुजिष्यतनये क्षत्ता नियुक्ते च प्रजासृजि ॥ ४० ॥
1.15.40 · p. 59
अनुष्टुप्
धाता हिरण्यगर्भे स्यात् पालके त्वभिधेयवत् ।माता कात्याप्रसूगोषु ब्रह्मण्याद्यास्तु मातरः ॥ ४१ ॥
1.15.41 · p. 59
अनुष्टुप्
लता ज्योतिष्मती स्पृक्का शाखावल्लीप्रियङ्गुषु ॥
1.15.43 · p. 59
लता[ ]कस्तूरिकायाञ्च माधवीदूर्वयोरपि ॥ ४२ ॥
1.15.42 · p. 60
लूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे ।पीता स्मृता हरिद्रायां पीतं स्याद्गौरपीतयोः ॥ ४३ ॥
1.15.43 · p. 60
अनुष्टुप्
सीता रामकलत्रे स्यात् तथा लाङ्गलपद्धतौ ।नभोनद्याञ्च शीतस्तु वानीरबहुवारयोः ॥ ४४ ॥
1.15.44 · p. 60
अनुष्टुप्
शीतं हिमगुणे प्रोक्तं वाच्यवच्छीतलेऽलसे ।चिता च्छन्ने चुल्लिकायां चिता संहतिचिन्तयोः ॥ ४५ ॥
1.15.45 · p. 60
अनुष्टुप्
वार्त्ता वातिङ्गणे वृत्तौ वार्त्ता कृष्याद्युदन्तयोः ।वृत्तिमन्नीरजोर्वार्त्ता वार्त्तमारोग्यफल्गुनोः ॥ ४६ ॥
1.15.46 · p. 60
अनुष्टुप्
गतिर्मार्गे दशायाञ्च ज्ञाने यात्राभ्युपाययोः ।नाडीव्रणसरण्याञ्च मतिर्ह्रीच्छास्मृतिष्वपि ॥ ४७ ॥
1.15.47 · p. 60
अनुष्टुप्
चितिः समूहे चिन्तायां दितिः स्यात् खण्डने दितौ ।पतिः प्रभौ गतौ मूले दृतिश्चर्म्मपुटे झषे ॥ ४८ ॥
1.15.48 · p. 60
अनुष्टुप्
यतिर्निकारे यतिनि पाठच्छेदक्रमे यतिः ।शितिः कृष्णे शितिर्भूर्ज्जे भृतिर्भरणमूल्ययोः ॥ ४९ ॥
1.15.49 · p. 60
अनुष्टुप्
क्षितिर्निवासे मेदिन्यां स्थानमात्रेऽपि च क्षितिः ।धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु ॥ ५० ॥
1.15.50 · p. 60
अनुष्टुप्
श्रुतिः श्रोत्रे तथाऽऽम्नाये वार्त्तायां श्रोत्रकर्मणि ।स्मृतिरिच्छाधियोर्धर्मसंहितायामपि स्मृतिः ॥ ५१ ॥
1.15.51 · p. 60
अनुष्टुप्
रतिः स्मरप्रियायाञ्च रागे च रमणे रतिः ।ऋतिर्गतौ जुगुप्सायां स्पर्द्धामङ्गलयोरपि ॥ ५२ ॥
1.15.52 · p. 60
अनुष्टुप्
वृत्तिः स्याद्वरणे वाटे मृतिर्गगनमार्गयोः ।मितिर्मानेऽप्यवच्छेदे कृतिः करणहिंसयोः ॥ ५३ ॥
1.15.53 · p. 60
अनुष्टुप्
ईतिः प्रवासे डिम्बे स्यादतिवृष्ट्यादिषट्सु च ।वीतिर्गतौ च दीप्तौ च धावने प्रजनेऽशने ॥ ५४ ॥
1.15.54 · p. 60
अनुष्टुप्
गीतिश्छन्दसि गाने च नीतिस्तु प्रापणे नये ।रीतिः प्रसारे स्यन्दे च लोहकिट्टारकूटयोः ॥ ५५ ॥
1.15.55 · p. 61
अनुष्टुप्
पीतिः पाने तुरङ्गे च भीतिः साध्वसकम्पयोः ।प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीप्रमोदयोः ॥ ५६ ॥
1.15.56 · p. 61
अनुष्टुप्
भूतिर्मातङ्गशृङ्गारे जातौ भस्मनि सम्पदि ।स्यूतिः सीवनसन्तत्योरूतिः स्मृतौ च रक्षणे ॥ ५७ ॥
1.15.57 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्मृ (wrong syllable)
हेतिः स्यादायुधे ज्वाले हेतिस्तरणितेजसि ।वृत्तिर्विवरणे जीव्ये कौशिक्यादिषु चेष्यते ॥ ५८ ॥
1.15.58 · p. 61
अनुष्टुप्
कृत्तिश्चर्मत्वचो भूर्ज्जे कृत्तिकायाञ्च कीर्त्तिता ।पत्तिः पदातौ गमने वीरसैन्यप्रभेदयोः ॥ ५९ ॥
1.15.59 · p. 61
अनुष्टुप्
वित्तिर्ज्ञाने विचारे च लाभसम्भवयोरपि ।भित्तिः कुड्ये प्रदेशे च संविभागावकाशयोः ॥ ६० ॥
1.15.60 · p. 61
अनुष्टुप्
आप्तिः संवरणप्राप्त्योः प्राप्तिर्लाभे महोदये ।गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणे यमे ॥ ६१ ॥
1.15.61 · p. 61
अनुष्टुप्
सुप्तिः स्पर्शज्ञतायाञ्च स्वापे विश्रम्भघातिनि ।शान्तिः शमेऽपि कल्याणे कान्तिः शोभाभिलाषयोः ॥ ६२ ॥
1.15.62 · p. 61
अनुष्टुप्
जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः ।जातिर्जातीफले धात्र्यां चुल्लीकम्पिल्लयोरपि ॥ ६३ ॥
1.15.63 · p. 61
अनुष्टुप्
ज्ञातिः सगोत्रे पितरि व्याप्तिर्व्यापनलम्भयोः ।सातिर्दानेऽवसाने च प्राप्तिः पूर्त्तिप्रदेशयोः ॥ ६४ ॥
1.15.64 · p. 61
अनुष्टुप्
वर्त्तिर्दीपदशादीपगात्रानुलेपनीषु च ।वर्त्तिर्भेषजनिर्म्माणनयनाञ्जनलेखयोः ॥ ६५ ॥
1.15.65 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
अर्त्तिः पीडाधनुष्कोट्योर्मूर्त्तिः काठिन्यकाययोः ।कीर्त्तिः प्रसादयशसोर्विस्तारे कर्द्दमेऽपि च ॥ ६६ ॥
1.15.66 · p. 61
अनुष्टुप्
भ्रान्तिर्मिथ्यामतौ ख्याता भ्रमणे चाऽनवस्थितौ ।नृतिः कृमौ नर्त्तने च सन्नः सरिति बर्त्मनि ॥ ६७ ॥
1.15.67 · p. 61
अनुष्टुप्
भक्तिर्विभागे सेवायां पङ्क्तिर्गौरवपाकयोः ।मुक्तिः स्यान्मोचने मोक्षे युक्तिर्न्याये च योजने ॥ ६८ ॥
1.15.68 · p. 62
अनुष्टुप्
पङ्क्तिर्दशाक्षरच्छन्दोदशसङ्खधावलीष्वपि ।शक्तिर्वले प्रभावादौ शक्तिः प्रहरणान्तरे ॥ ६९ ॥
1.15.69 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शुक्तिः कपालशकले नख्यश्वावर्त्तयोरपि ।मुक्तास्फोटे च दुर्नामा[?] शङ्खशङ्खनखेषु च ॥ ७० ॥
1.15.70 · p. 62
अनुष्टुप्
अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते ।अयाचिते च मोक्षे च धन्वन्तरिसुपर्वणोः ॥ ७१ ॥
1.15.71 · p. 62
अनुष्टुप्
स्यादमृतोऽमृतापथ्यागुडूच्यामलकीषु च ।अनृतं कृषावसत्येऽप्यजितः कमलापतौ ॥ ७२ ॥
1.15.72 · p. 62
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मृ (wrong syllable); pāda 3, syllable 4 कृ (wrong syllable)
अनिर्ज्जिते चाच्युतस्तु स्थिरे स्याद्गरुडध्वजे ।अर्द्दितं याचिते ज्ञेयं वातव्याधौ च हिंसिते ॥ ७३ ॥
1.15.73 · p. 62
अनुष्टुप्
अक्षतञ्चापि लाजेषु तृतीयप्रकृतावपि ।अहिंसितेऽपि चापातस्तदात्वे पतनेऽपि च ॥ ७४ ॥
1.15.74 · p. 62
अनुष्टुप्
आघ्रातं शिङ्घिते क्रान्तेऽप्याख्यातं भाषिते तिङि ।आध्मातं पवनव्याधौ दग्धशब्दितयोरपि ॥ ७५ ॥
1.15.75 · p. 62
अनुष्टुप्
आप्लुतः स्नातके स्नातेऽप्याहृतः सादरेऽर्च्चिते ।आचितः शकटोन्मेये पलानामयुतद्वये ॥ ७६ ॥
1.15.76 · p. 62
अनुष्टुप्
छन्नेऽपि सङ्गृहीते स्यादाहतन्तु मृषार्थके ।आहतं गुणितेऽपि स्यात् ताडिते नामितेऽपि च ॥ ७७ ॥
1.15.77 · p. 62
अनुष्टुप्
स्यात् पुरातनवस्त्रे च नूतनवस्त्रे त्वाहतम् ।आनर्त्तो देशभेदे स्यान्नृत्यस्थाने जने रणे ॥ ७८ ॥
1.15.78 · p. 62
अनुष्टुप्metre not read in every line
आवर्त्त आवर्त्तने स्याच्चिन्तने चाम्भसाम्भ्रमे ॥
1.15.81 · p. 62
संवर्त्तः प्रलये प्रोक्तो बिभीतकतरावपि ॥ ७९ ॥
1.15.79 · p. 63
त्रिगर्त्तः स्याज्जनपदे त्रिगर्त्तो गणितान्तरे ।भवेद्घर्घरिकायान्तु त्रिगर्त्ता कामुकस्त्रियाम् ॥ ८० ॥
1.15.80 · p. 63
अनुष्टुप्
विवर्त्तः समुदाये स्यादपवर्त्तननृत्ययोः ।उत्तप्तं शुष्कमांसेऽपि सन्तप्ते च परिप्लवे ॥ ८१ ॥
1.15.81 · p. 63
अनुष्टुप्
उचितं प्रोक्तमभ्यस्ते मिते ज्ञाते समञ्जसे ।उद्वृत्तं स्यादुत्तुलिते परिमुक्तोज्झितेऽपि च ॥ ८२ ॥
1.15.82 · p. 63
अनुष्टुप्
उत्थितं वृद्धयुक्ते च प्रोद्यतोत्पन्नयोरपि ।उषितं व्युषिते दग्धे मुषितं खण्डिते हृते ॥ ८३ ॥
1.15.83 · p. 63
अनुष्टुप्
उद्धातः कथ्यते पादस्खलने समुपक्रमे ।पवनाभ्यासयोगस्य कुम्भकादित्रयेऽपि च ॥ ८४ ॥
1.15.84 · p. 63
अनुष्टुप्
उत्तुङ्गे मुद्गरेऽपि स्यादुदितं प्रोक्त उद्गते ।स्यादुच्छ्रितन्तु सञ्जाते समुन्नद्धप्रवृद्धयोः ॥ ८५ ॥
1.15.85 · p. 63
अनुष्टुप्
रजतं विशदे दन्तिदन्तयोस्तारहारयोः ।सुरतं स्यान्निधुवने देवत्वे सुरता मता ॥ ८६ ॥
1.15.86 · p. 63
अनुष्टुप्
प्रहतं विजिते क्षुण्णे संहतं संहते दृढे ।रसितन्तु सुवर्णादिखचिते स्तनिते रुते ॥ ८७ ॥
1.15.87 · p. 63
अनुष्टुप्
पलितं शैलजे तापे पाण्डुकेशे च कर्दमे ।ललितं हारभेदे स्यादीप्सिते ललितेऽपि च ॥ ८८ ॥
1.15.88 · p. 63
अनुष्टुप्
स्खलितं चलिते भ्रंशे कलितं विदिताप्तयोः ।ज्वलितं भास्वरे दग्धे त्वरितं प्रजवे हुते ॥ ८९ ॥
1.15.89 · p. 63
अनुष्टुप्
स्तिमितोऽचञ्चलक्लिन्ने हंसितं क्षिप्तदग्धयोः ।सुहितोऽतिहिते तृप्ते मूर्च्छितं सोच्छ्रये दृढे ॥ ९० ॥
1.15.90 · p. 63
अनुष्टुप्
हृषितं विस्मिते प्रीते प्रणते हृष्टरोमणि ।गर्ज्जितो मत्तमातङ्गे गर्जितं जलदध्वनौ ॥ ९१ ॥
1.15.91 · p. 63
अनुष्टुप्
वर्द्धितं प्रसुते च्छिन्ने पूरिते चापि वर्द्धितम् ।स्थापितं निश्चिते न्यस्ते चेङ्गितं गतिचेष्टयोः ॥ ९२ ॥
1.15.92 · p. 64
अनुष्टुप्
वेष्टितं रसके रुद्धे स्त्रीणाञ्च करणान्तरे ।भावितं वासिते प्राप्ते विदितं विदितार्थयोः ॥ ९३ ॥
1.15.93 · p. 64
अनुष्टुप्
वेल्लितं कुटिले प्रोक्तं वाच्यवद्विधृते प्लुते ।ग्रथितं गुम्फिताक्रान्तहिंसितेषु समीरितम् ॥ ९४ ॥
1.15.94 · p. 64
अनुष्टुप्
प्रथितं निर्ज्जलोदश्वित्यालोडितनिघृष्टयोः ।प्रार्थितं याचिते शत्रुसंरुद्धेऽभिहितेऽपि च ॥ ९५ ॥
1.15.95 · p. 64
अनुष्टुप्
जृम्भितं करणे स्त्रीणामीहास्फुटितयोरपि ।क्रन्दितं ख्यातमाह्वाने क्रन्दितं रुदितेऽपि च ॥ ९६ ॥
1.15.96 · p. 64
अनुष्टुप्
प्रोक्षितं निहते क्षिप्ते वापितं मुण्डितं मतम् ।बीजाकृते दंशितस्तु दुष्टचर्म्मितयोरपि ॥ ९७ ॥
1.15.97 · p. 64
अनुष्टुप्
क्षारितः स्राविते सारे चाभिशस्ते च संशितः ।सुकृतञ्च शुभे पुण्ये सुविधाने च वाच्यवत् ॥ ९८ ॥
1.15.98 · p. 64
अनुष्टुप्
निकृतं विप्रलब्धं स्यान्नीचे विप्रकृतेऽपि च ।विकृतौ संस्कृतेऽपि स्याद् बीभत्से रोगितेऽपि च ॥ ९९ ॥
1.15.99 · p. 64
अनुष्टुप्
संस्कृतः कृत्रिमे शस्ते भूषिते भेद्यवन्मतः ।संस्कृतं लक्षणोपेता प्रभूतं प्राज्य उद्गते ॥ १०० ॥
1.15.100 · p. 64
अनुष्टुप्
प्रसृतः सप्रसारे स्याद्विनीते विगतेऽपि च ।अर्द्धाञ्जलौ च प्रसृतं जङ्घायां प्रसृता मता ॥ १०१ ॥
1.15.101 · p. 64
अनुष्टुप्
सूनृतं मङ्गले सत्यप्रियवाचि च सूनृतम् ।प्रसूतं वाच्यवज्जाते प्रसूतं कुसुमेऽपि च ॥ १०२ ॥
1.15.102 · p. 64
अनुष्टुप्
विसृतं ज्ञातसंहृष्टप्रतीतेष्वभिधेयवत् ।निर्मुक्तस्त्यक्तसङ्गे स्यान्मुक्तकञ्चुकभोगिनि ॥ १०३ ॥
1.15.103 · p. 64
अनुष्टुप्
अव्यक्तः शङ्करे विष्णावव्यक्तं महदादिके ॥
1.15.107 · p. 64
आत्मन्यपि स्यादव्यक्तमस्फुटे चाऽभिधेयवत् ॥ १०४ ॥
1.15.104 · p. 65
विविक्तं स्यादसम्पृक्ते विवेकान्वितपूतयोः ।वाच्यवद्दर्शितो धीरैर्विविक्तं रहसि स्मृतम् ॥ १०५ ॥
1.15.105 · p. 65
अनुष्टुप्
रोहितं रुधिरे धीर ऋजुशक्रशरासने ।रोहितो मानमृगयोर्भेदे रोहितकद्रुते ॥ १०६ ॥
1.15.106 · p. 65
अनुष्टुप्
लोहितं कङ्कुमे रक्ते गोशीर्षे च कुचन्दने ।लोहितः स्यान्नदे भौमे वर्णभेदे तु वाच्यवत् ॥ १०७ ॥
1.15.107 · p. 65
अनुष्टुप्
कुटितं स्याद्धस्तपुटे पाटितसूतयोरपि ।पीडितं बाधिते स्त्रीणां करणे चापि यन्त्रिते ॥ १०८ ॥
1.15.108 · p. 65
अनुष्टुप्metre not read in every line
पिण्डितं गणिते सान्द्रे पण्डितः सल्लके कवौ ।हारीतः पक्षिभेदे स्यान्मुनिभेदेऽपि कैतवे ॥ १०९ ॥
1.15.109 · p. 65
अनुष्टुप्
प्रणीतः संस्कृते वह्नौ विहिते च प्रवेशिते ।निक्षिप्ते चोपसम्पन्ने प्रणीतो भेद्यवन्मतः ॥ ११० ॥
1.15.110 · p. 65
अनुष्टुप्
प्रतीतः सादरे ज्ञाते प्रख्यातः ख्यातहृष्टयोः ।वाच्यवत् स्यात् प्रमीतन्तु प्रोक्षितेऽपि मृतेऽपि च ॥ १११ ॥
1.15.111 · p. 65
अनुष्टुप्
विनीतमुपनीते स्यादपनीते जितेन्द्रिये ।वाणिजे सुवहेऽश्वे च निभृते चाभिधेयवत् ॥ ११२ ॥
1.15.112 · p. 65
अनुष्टुप्
पृषतो हरिणे विन्दौ पृषतश्चाश्वरोहिते ।भवेत् पृषदिव श्वेते बिन्दुयुक्तं तु वाच्यवत् ॥ ११३ ॥
1.15.113 · p. 65
अनुष्टुप्
भरतो वाद्यभेदेऽपि दौष्यन्तौ सञ्चरे नटे ।रामानुजे च भरतस्तन्तुवायेऽपि च कचित् ॥ ११४ ॥
1.15.114 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 च (wrong syllable)
भारतं ग्रन्थभेदे स्याज्जम्बूद्वीपेऽपि भारतम् ।भारती तु सरस्वत्यां पक्षिणीवृत्तिभेदयोः ॥ ११५ ॥
1.15.115 · p. 65
अनुष्टुप्
दुर्ज्जातं व्यसने प्रोक्तमसम्यग्जातवस्तुनि ।परेतो भूतभेदे स्यात् परेतो वाच्यवन्मृते ॥ ११६ ॥
1.15.116 · p. 65
अनुष्टुप्