All kośas › Viśvaprakāśa
विश्वप्रकाशः Viśvaprakāśa
2,296 verses · text only, tagging comes next
अनेकार्थशब्दपरिच्छेदः · चान्तवर्गः
इति घान्तवर्गः ॥
कचः केशे गुरोः पुत्रे बन्धे शुष्कव्रणे कचः ।कचा करिण्यां काचस्तु मनौ शिक्ये मृदन्तरे ॥ १ ॥
1.5.1 · p. 30
अनुष्टुप्
नेत्ररोगेऽपि नीचस्तु वामने पामरे स्मृतः ।मोचः शोभाञ्जने प्रोक्तो मोचा शाल्मलिरम्भयोः ॥ २ ॥
1.5.2 · p. 30
अनुष्टुप्
पिचुस्तूले च कर्षे च कुष्ठरोगेऽसुरान्तरे ।भैरवस्य प्रभेदेऽपि पिचुः क्वाऽपि प्रकीर्त्तितः ॥ ३ ॥
1.5.3 · p. 30
अनुष्टुप्
कूर्च्चो विकत्थने मध्ये भुवो श्मश्रुणि कैतवे ।क्रौञ्चः खगनगद्वीपप्रभेदेषु प्रयुज्यते ॥ ४ ॥
1.5.4 · p. 30
अनुष्टुप्
चञ्चो नलादिनिर्माणे चञ्चा तु तृणपूरुषे ।चञ्चुः पञ्चाङ्गुले त्रोट्यां गोनाडीकेऽपि पठ्यते ॥ ५ ॥
1.5.5 · p. 30
अनुष्टुप्
शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते ।ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि ॥ ६ ॥
1.5.6 · p. 30
अनुष्टुप्
रुचिर्मयूखे शोभायामभिष्वङ्गाभिलाषयोः ।वीचिः स्वल्पे तरङ्गे स्यादवकाशे सुखेऽपि च ॥ ७ ॥
1.5.7 · p. 30
अनुष्टुप्
सूची कराद्यभिनये नारीणां करणान्तरे ।सूची च सीवनद्रव्ये शचीऽन्द्राण्यां शतावरौ ॥ ८ ॥
1.5.8 · p. 30
अनुष्टुप्
काञ्ची स्यान्मेखलादाम्नि गुञ्जायां नीवृदन्तरे ।वचा स्यादुग्रगन्धायां सारिकायां शुके वचः ॥ ९ ॥
1.5.9 · p. 30
अनुष्टुप्
अर्चा पूजाप्रतिमयोश्चर्च्चा स्थासकचिन्तयोः ।चर्च्चिकायाञ्च रुक्शोभाकिरणेच्छासु चेष्यते ॥ १० ॥
1.5.10 · p. 30
अनुष्टुप्
त्वक् चर्मवल्कयोस्त्वाचे न्यङ् नीचे निम्नकार्ण्ययोः ।वाग्वचने सरस्वत्यां भाषागीर्भारती यथा ॥ ११ ॥
1.5.11 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 च (wrong syllable)
कवचो गर्द्दभाण्डे स्यात् सन्नाहे पटहेऽपि च ।विकचः क्षपणे केतुग्रहे च स्फुटितेऽन्यवत् ॥ १२ ॥
1.5.12 · p. 30
अनुष्टुप्
क्रकचः करपत्रे स्याद्ग्रन्थिलाख्यद्रुमेऽपि च ।सङ्कोचमपि काश्मीरे सङ्कोचो मीनबन्धयोः ॥ १३ ॥
1.5.13 · p. 31
अनुष्टुप्
नाराचो लोहबाणे स्यान्नाराचो जलहस्तिनि ।नाराच्येषणिकायाञ्च सम्यक् सम्मतहृद्ययोः ॥ १४ ॥
1.5.14 · p. 31
अनुष्टुप्
प्रपञ्चः सञ्चये प्रोक्तो विस्तरे च प्रतारणे ।मरीचिः कृपणे दीप्तावृषिभेदेऽपि दृश्यते ॥ १५ ॥
1.5.15 · p. 31
अनुष्टुप्
मारीचो रक्षसो भेदे कक्कोले याजके द्विजे ।मारीची देवताभेदे नमुचिः स्मरदैत्ययोः ॥ १६ ॥
1.5.16 · p. 31
अनुष्टुप्
कनीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च ।अवीचिर्नरकानूर्म्योर्विपञ्ची केलिवीणयोः ॥ १७ ॥
1.5.17 · p. 31
अनुष्टुप्
प्रागुदक्प्रत्यगित्येते दिग्देशे कालतोऽव्ययम् ।प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम् ॥ १८ ॥
1.5.18 · p. 31
अनुष्टुप्
मलिम्लुचोऽनिले चौरे जलसूचिर्जलौकसि ।शृङ्गाटे शिशुमारे च कङ्के शेटिझषेऽपि च ॥ १९ ॥
1.5.19 · p. 31
अनुष्टुप्
रतनारीच इत्येष कथितो रतवल्लभे ।कुक्कुरं रतनारीचः सीत्कारे वरयोषिताम् ॥ २० ॥
1.5.20 · p. 31
अनुष्टुप्