कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · नान्तवर्गः (1/2)

इति धान्तवर्गः ॥

इनः सूर्ये नृपे पत्यौ धनं गोधनवित्तयोः ।जिनः स्यादतिवृद्धे च बुद्धे चार्हति जित्वरे ॥ १ ॥
1.19.1 · p. 85
अनुष्टुप्
जनो लोके महर्ल्लोकात् परलोके च पामरे ।जनी सीमन्तिनीवध्वोरुत्पत्तौ च जनिर्मता ॥ २ ॥
1.19.2 · p. 85
अनुष्टुप्
घनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः ।घनं सान्द्रे दृढे दार्ज्ये विस्तारे लोहमुद्गरे ॥ ३ ॥
1.19.3 · p. 85
अनुष्टुप्
मेघमुस्तकयोश्चाऽपि वनं कानननीरयोः ।प्रवासे निलये चाऽपि वनं प्रस्रवणेऽपि च ॥ ४ ॥
1.19.4 · p. 85
अनुष्टुप्
वानं शुष्कफले शुष्के कटे सीवनकर्मणि ।जलसंस्रववातोर्मिसुरङ्गागतिसौरभे ॥ ५ ॥
1.19.5 · p. 85
अनुष्टुप्
दानं गजमदे त्यागे पालनच्छेदशुद्धिषु ।मानं प्रयाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे ॥ ६ ॥
1.19.6 · p. 85
अनुष्टुप्
यानं गतौ वाहनेऽपि पानं पीतौ च रक्षणे ॥
1.19.7 · p. 85
स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि ॥ ७ ॥
1.19.7 · p. 86
स्थानं स्थितौ च सादृश्ये सन्निवेशावकाशयोः ।युक्तार्थे करणार्थे च स्थाने स्यादव्ययं पुनः ॥ ८ ॥
1.19.8 · p. 86
अनुष्टुप्
सूनं वाच्यवदूनेषु सूनं प्रसवपुष्पयोः ।सूना पुत्र्यां वधस्थानगलशुण्डिकयोरपि ॥ ९ ॥
1.19.9 · p. 86
अनुष्टुप्
ऊनं हीने रणोद्याने स्मृतः किरणसूर्ययोः ।मीनो राश्यन्तरे मत्स्ये सीनोऽजगरमूर्खयोः ॥ १० ॥
1.19.10 · p. 86
अनुष्टुप्
चीनो मृगान्तरे तन्तुव्रीहिदेशांशुकान्तरे ।हीनं गर्ह्योनयोर्न्यूनमनयोरपि कीर्त्तितम् ॥ ११ ॥
1.19.11 · p. 86
अनुष्टुप्
कृत्स्नं कष्टे समस्ते च रस्नस्तक्षकचण्डयोः ।वस्नं स्याद्वेतने मूल्ये वसनद्रव्ययोरपि ॥ १२ ॥
1.19.12 · p. 86
अनुष्टुप्
स्वप्नः सुप्तस्य विज्ञाने स्वप्नः स्वापे च दर्शने ।बुध्नः शिफायां रुद्रे च रत्नं श्रेष्ठे मणावपि ॥ १३ ॥
1.19.13 · p. 86
अनुष्टुप्
नग्नोऽपि च क्षपणके विवस्त्रे चाऽभिधेयवत् ।लग्नं राश्युदये लग्नं सक्तलज्जितयोरपि ॥ १४ ॥
1.19.14 · p. 86
अनुष्टुप्
छन्नं रहश्छादितयोः स्यादन्नं भुक्तभक्तयोः ।भिन्नमन्यार्थवचने सङ्गते दारिते स्फुटे ॥ १५ ॥
1.19.15 · p. 86
अनुष्टुप्
विन्नं ज्ञाते स्थितौ लब्धे छिन्नं भिन्ने तु वाच्यवत् ।छिन्नाऽमृतायां पुंश्चल्यामुन्नः क्लिन्ने च सूरते ॥ १६ ॥
1.19.16 · p. 86
अनुष्टुप्
चिह्नं ध्वजे पताकायां पुत्रं वित्ते पराक्रमे ।धनुःसंज्ञा पियालद्रौ राशिभेदे शरासने ॥ १७ ॥
1.19.17 · p. 86
अनुष्टुप्
तनुः काये कृशे चाऽल्पे विरलेऽपि च वाच्यवत् ।हनुः प्रहरणे मृत्यौ कपोलावयवे गदे ॥ १८ ॥
1.19.18 · p. 86
अनुष्टुप्
हनुर्हट्टविलासिन्यां सूनुः पुत्रेऽनुजे रवौ ।सानुः शृङ्गे बुधे मार्गे वात्यायां पल्लवे नवे ॥ १९ ॥
1.19.19 · p. 86
अनुष्टुप्
दानुर्दातरि विज्ञाते भानुः किरणसूर्ययोः ।धेनः समुद्रे नद्यान्तु धेनी स्योनः सिते खगे ॥ २० ॥
1.19.20 · p. 87
अनुष्टुप्
मुनिर्यमीङ्गुदीबुद्धपियालागस्ति[?] किंशुके ।ज्यानिर्हानौ स्रवन्त्याञ्च योनिः स्यादाकरे भगे ॥ २१ ॥
1.19.21 · p. 87
अनुष्टुप्
ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्नायुक्तविभावरौ ।ज्यौत्स्नी सचन्द्रनक्षत्ररात्रौ चन्द्रातपेऽपि च ॥ २२ ॥
1.19.22 · p. 87
अनुष्टुप्
रास्ना स्मृता भुजङ्गाक्ष्यामेलापर्ण्याञ्च कथ्यते ।मृत्स्ना तु वरिकायां स्यान्मृत्सायामपि दृश्यते ॥ २३ ॥
1.19.23 · p. 87
अनुष्टुप्
गीना मूषिकयोषायां दुर्गते कातरेऽन्यवत् ।धानाभृष्टयवे प्रोक्ता धान्याकेऽभिनवोद्भिदि ॥ २४ ॥
1.19.24 · p. 87
अनुष्टुप्
अवनं रक्षणे प्रीतौ भवनं भाववेश्मनोः ।भुवनं विष्टपे मह्यां सलिलेऽपि वियत्यऽपि ॥ २५ ॥
1.19.25 · p. 87
अनुष्टुप्
सवनं यज्ञियस्नाने सोमनिर्द्दलनेऽपि च ।अयनं पथि भानोः स्यादुदग्दक्षिणतो गतौ ॥ २६ ॥
1.19.26 · p. 87
अनुष्टुप्
जयनं स्यात्तुरङ्गादिसन्नाहे विजयेऽपि च ।शयनं सुरते निद्राशय्ययोरपि भाषितम् ॥ २७ ॥
1.19.27 · p. 87
अनुष्टुप्
शयनं शान्तिवधयोः शमनः श्राद्धदैवते ।दशनः कवचे दन्ते दशनः शिखरेऽपि च ॥ २८ ॥
1.19.28 · p. 87
अनुष्टुप्
जघनश्च स्त्रियाः श्रोणिपुरोभागे कटीरके ।तपनस्तरणौ तापे भल्लाते नरकान्तरे ॥ २९ ॥
1.19.29 · p. 87
अनुष्टुप्
रसनं स्वादने ध्वाने रसना काञ्चिजिह्वयोः ।रसनञ्चाऽपि रास्नायां वसनं छादनेंऽशुके ॥ ३० ॥
1.19.30 · p. 87
अनुष्टुप्
हसनञ्च स्मृतं हासेऽङ्गारधान्या हसन्यपि ।श्वसनो मारुते श्वासे श्वसनो मदनद्रुमे ॥ ३१ ॥
1.19.31 · p. 87
अनुष्टुप्
कदनं मर्द्दने पापे सदनं मन्दिरे जले ।मदनः स्मरधुत्तूरवसन्तद्रुमसिक्थके ॥ ३२ ॥
1.19.32 · p. 88
अनुष्टुप्
दहनश्चित्रके वह्नौ भल्लाते दुष्टवेष्टिते ।गहनं गहने दुःखे विपिने कलिलेऽपि च ॥ ३३ ॥
1.19.33 · p. 88
अनुष्टुप्
स्तननं ध्वनिमात्रे स्यात् कुन्थने मेघगर्जिते ।निधनं स्यात् कुले नाशे प्रधनं दारणे रणे ॥ ३४ ॥
1.19.34 · p. 88
अनुष्टुप्
पवनाख्या कुलाले स्यात् पाकस्थानेऽपि मारुते ।निष्पावे चाथ[ ]वपनं बीजाधानेऽपि मुण्डने ॥ ३५ ॥
1.19.35 · p. 88
अनुष्टुप्
दमनः कुसुमे वीरे वमनं छर्द्दनेऽर्द्दने ।स्यादाहृतौ च यमनं दुःखे चोपरतौ यमे ॥ ३६ ॥
1.19.36 · p. 88
अनुष्टुप्
कमुनः कामुके कामेऽभिरूपेऽशोकपादपे ।धमनोऽप्यनले भस्त्राध्मापकक्रूरयोः स्मृता ॥ ३७ ॥
1.19.37 · p. 88
अनुष्टुप्
धमनी तु हरिद्रायां कन्धराशिरयोरपि ।मलनः पटवासे स्यान्मर्द्दने मलनं मतम् ॥ ३८ ॥
1.19.38 · p. 88
अनुष्टुप्
चलनं कम्पनं कम्पे कम्प्रे चलनकम्पनौ ।चलनी वस्त्रघर्घर्य्यां वारिभेदेऽपि च क्वचित् ॥ ३९ ॥
1.19.39 · p. 88
अनुष्टुप्
सेचनं रक्षणे सेके नौकासेचनभाजने ।सेवनं सीवनोपास्त्योः संव्यानं छादनेंऽशुके ॥ ४० ॥
1.19.40 · p. 88
अनुष्टुप्
समानं सत्समैकेषु समानो नाभिमारुते ।शोभनो ग्रहयोगे स्याच्छोभनं सुन्दरेऽन्यवत् ॥ ४१ ॥
1.19.41 · p. 88
अनुष्टुप्
शासनं राजदत्तोर्व्यां लेखाज्ञाशास्त्रशास्त्रिषु ।वासनं वसने वीरासने ज्ञाने च धूपने ॥ ४२ ॥
1.19.42 · p. 88
अनुष्टुप्
आसनं द्विरदस्कन्धे पीठे यात्रानिवर्त्तने ।असनी पण्यवीथ्यां स्यादासनो जीवकद्रुमे ॥ ४३ ॥
1.19.43 · p. 88
अनुष्टुप्
स्पर्शनो मारुते स्पर्शधानयोः स्पर्शनं मतम् ।दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु ॥ ४४ ॥
1.19.44 · p. 88
अनुष्टुप्
शास्त्रदर्पणयोश्चाऽपि दंशनं दंशवर्मणोः ।पिशुनं कुङ्कुमे क्रूरे सूचके चाऽभिधेयवत् ॥ ४५ ॥
1.19.45 · p. 89
अनुष्टुप्
पिशुनः कपिवक्त्रे स्यात् स्पृक्कायां पिशुना मता ।शकुनञ्च शुभाशंसानिमित्ते शकुनः खगे ॥ ४६ ॥
1.19.46 · p. 89
अनुष्टुप्
मिथुनो राशिभेदे स्यान्मिथुनं दम्पतीयुगे ।तलुनं पवने यूनि स्त्रियाञ्च तलुनी विदुः ॥ ४७ ॥
1.19.47 · p. 89
अनुष्टुप्
तलिनं विरले स्तोके स्वच्छेऽपि तलिनं मतम् ।मलिनं दूषिते कृष्णे ऋतुमत्यां मलिन्यऽपि ॥ ४८ ॥
1.19.48 · p. 89
अनुष्टुप्
कठिनं निष्टुरे स्थाल्यां शर्करायां गुडस्य च ।कठिना काटिकायान्तु कठिनीति प्रयुज्यते ॥ ४९ ॥
1.19.49 · p. 89
अनुष्टुप्
पीतनं हरितालं स्यात् कुङ्कुमे पीतदारुणि ।आम्रातके पीतनश्च मैथुनं सङ्गते रते ॥ ५० ॥
1.19.50 · p. 89
अनुष्टुप्
केतनं लाञ्छने कार्षे गेहे चोपनिमन्त्रणे ।छर्द्दनोऽलम्बुषे निम्बे छर्दनं वमने तरे ॥ ५१ ॥
1.19.51 · p. 89
अनुष्टुप्
छेदनं कर्त्तने भेदे छदनं पक्षपत्रयोः ।रोदनं व्यथने तोत्रे रोदनं रोधनेऽश्रुणि ॥ ५२ ॥
1.19.52 · p. 89
अनुष्टुप्
अपानन्तु गुदे प्रोक्तमपानस्तस्य मारुते ।सन्तानं सन्ततौ गोत्रे स्यादपत्ये सुरद्रुमे ॥ ५३ ॥
1.19.53 · p. 89
अनुष्टुप्
वितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणि ।वृत्तभेदावसरयोर्वितानं तुच्छमन्दयोः ॥ ५४ ॥
1.19.54 · p. 89
अनुष्टुप्
उत्तानं स्यादगम्भीरे तथा सुप्तोन्मुखेऽन्यवत् ।आदनं ग्रहणे विद्यादलङ्कारे च वाजिनाम् ॥ ५५ ॥
1.19.55 · p. 89
अनुष्टुप्
निदानं कारणे रोगनिर्णये वत्सदामनि ।उद्यानं वनभेदे स्यान्निःसृतेऽपि प्रयोजने ॥ ५६ ॥
1.19.56 · p. 89
अनुष्टुप्
अम्लानो झिण्टिकाभेदे वाच्यवन्निर्मले स्मृतः ।व्युत्थानं स्वैरकरणे विरोधाचरणेऽपि च ॥ ५७ ॥
1.19.57 · p. 90
अनुष्टुप्
उत्थानमुद्यमे तन्त्रे पौरुषे पुस्तके रणे ।अङ्गनोद्गमहर्षेषु मलवेगेऽपि कीर्त्तितम् ॥ ५८ ॥
1.19.58 · p. 90
अनुष्टुप्
संस्थानमाहृतौ मृत्यौ सन्निवेशे चतुष्पथे ।धावनं प्रगमे शुद्धौ पृश्निपर्ण्यान्तु धावनी ॥ ५९ ॥
1.19.59 · p. 90
अनुष्टुप्
पावनन्तु जले कृच्छ्रे पावकाध्माशयोर्विदुः ।पावनः सिह्लके वह्नौ प्रायश्चित्ते च पावनम् ॥ ६० ॥
1.19.60 · p. 90
अनुष्टुप्
वाच्यवत् पावयितरि हरीतक्यान्तु पावनी ।वामनो कोटवैकुण्ठखर्वदक्षिपादिग्गजे ॥ ६१ ॥
1.19.61 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पा (wrong syllable)
स्थापनं स्यात् पुंसवने समाधौ रोपणेऽपि च ।यापन वर्त्तने कालक्षेपे निरसनेऽपि च ॥ ६२ ॥
1.19.62 · p. 90
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पुं (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
युञ्जानः सारथौ विप्रे बु[?]धानः पण्डिते गुरौ ।दृशानं ज्योतिषि प्रोक्तं दृशानश्च विरोचने ॥ ६३ ॥
1.19.63 · p. 90
अनुष्टुप्
जवनो देशभेदे स्याद्वेगवेगाधिकाश्वयोः ।जवन्योषधिभेदे स्याद्वाच्यवद्वेगिनि स्मृतः ॥ ६४ ॥
1.19.64 · p. 90
अनुष्टुप्
जीवनं वर्त्तने नीरे पुत्रजीवे तु जीवनः ।जीवनी जीवना चेति जीवन्तीमेदयोः क्रमात् ॥ ६५ ॥
1.19.65 · p. 90
अनुष्टुप्
देवनं व्यवहारे स्याज्जिगीषाक्रीडयोरपि ।अक्षेषु देवनः प्रोक्तो वाच्यवद्वाग्मिविप्रयोः ॥ ६६ ॥
1.19.66 · p. 90
अनुष्टुप्
तेमनं व्यञ्जने क्लेदे तेमने चुल्लिकान्तरे ।सावनो यज्ञकर्म्मान्ते यजमानप्रचेतसोः ॥ ६७ ॥
1.19.67 · p. 90
अनुष्टुप्
विज्ञानं कर्मणे ज्ञाने प्रज्ञानं लाञ्च्छने धियि ।हायनोऽर्च्चिषि वर्षे च व्रीहिभेदे च हायनः ॥ ६८ ॥
1.19.68 · p. 90
अनुष्टुप्
फाल्गुनस्तु तपस्ये स्यात् पूर्णिमायान्तु फाल्गुनी ।फाल्गुनः कथितः पार्थे नदीजे ककुभेऽपि च ॥ ६९ ॥
1.19.69 · p. 90
अनुष्टुप्
वेष्टनं कर्णशष्कुल्यामुष्णीषे परिवारणे ।गोस्तनो हारभेदे स्याद् द्राक्षायां गोस्तनीति च ॥ ७० ॥
1.19.70 · p. 91
अनुष्टुप्
कल्पनं कर्त्तने कॢप्तौ सज्जनायान्तु कल्पना ।कर्त्तनं छेदने प्राहुर्नारीणां तूलसेवने ॥ ७१ ॥
1.19.71 · p. 91
अनुष्टुप्
लङ्घनन्तूपवासे स्यात् क्रमणे प्लवनेऽपि च ।मण्डनं स्यादलङ्कारेऽलङ्करिष्णुनि वाच्यवत् ॥ ७२ ॥
1.19.72 · p. 91
अनुष्टुप्
भण्डनं कवचे युद्धे खलीकारे च वर्त्तते ।मुण्डनं वपने त्राणे हिण्डिनं लेखने रते ॥ ७३ ॥
1.19.73 · p. 91
अनुष्टुप्
अङ्गनं प्राङ्गने याने कामिन्यामङ्गना मता ।गन्धनं सूचनोत्साहहिंसनेषु प्रकाशने ॥ ७४ ॥
1.19.74 · p. 91
अनुष्टुप्
नन्दनं वासवोद्याने नन्दनो हर्षके सुतै[ते] ।स्यन्दनन्तु सृतौ नीरे स्यन्दनस्तिनिशे रथे ॥ ७५ ॥
1.19.75 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्रन्दनं रोदने हाने चन्दनं मलयोद्भवे ।चन्दनः कपिभेदे स्यान्नदीभेदे तु रुदनी ॥ ७६ ॥
1.19.76 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 रु (wrong syllable)
वर्द्धनं छेदने वृद्धौ वारिधान्यान्तु वर्द्धनी ।व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽपि च ॥ ७७ ॥
1.19.77 · p. 91
अनुष्टुप्
रञ्जनो रागरजने रञ्जनं रक्तचन्दने ।गुञ्जारोचनिकानीलीमञ्जिष्ठासु च रञ्जनी ॥ ७८ ॥
1.19.78 · p. 91
अनुष्टुप्
अञ्जनं कज्जले चाङ्के सौवीरे च रसाञ्जने ।अञ्जनो दिग्गजे जेष्ठ्यामञ्जनाऽप्यनिलस्त्रियाम् ॥ ७९ ॥
1.19.79 · p. 91
अनुष्टुप्
अञ्जनी लेपनायां स्याद् गृञ्जनस्तु रसोनके ।विषदिग्धपशोर्मांसे गुञ्जनञ्च प्रकीर्त्तितम् ॥ ८० ॥
1.19.80 · p. 91
अनुष्टुप्
लेखनं छदने भूर्ज्जे लिपिन्यासे च लेखनम् ।योजनश्च चतुष्क्रोश्यां योगे च परमात्मनि ॥ ८१ ॥
1.19.81 · p. 91
अनुष्टुप्
गर्जनं निस्वने कोपे वर्जनं त्यागहिंसयोः ।मार्ज्जनं कथितं मार्ष्टौ मार्ज्जनो लोध्रशाखिनि ॥ ८२ ॥
1.19.82 · p. 92
अनुष्टुप्
सज्जनो वाच्यवत् साधौ सज्जनं घट्टगुल्मके ।सज्जना कल्पनायान्तु भाजनं योग्यपात्रयोः ॥ ८३ ॥
1.19.83 · p. 92
अनुष्टुप्
अर्ज्जुनः ककुभे पार्थे कार्त्तवीर्य्यमयूरयोः ।मातुरेकसुते च स्यादर्ज्जुनो धवलेऽन्यवत् ॥ ८४ ॥
1.19.84 · p. 92
अनुष्टुप्
अर्ज्जुनन्तु तृणे नेत्रगदे चाऽप्यार्ज्जुनी गवि ।उषायां करतोयायां कुट्टन्यामपि च क्वचित् ॥ ८५ ॥
1.19.85 · p. 92
अनुष्टुप्
वृजिनं कल्मषे केशे वृजिनः कुटिलेऽन्यवत् ।लाञ्छनं लक्षणे नाम्नि बन्धनं वधबन्धयोः ॥ ८६ ॥
1.19.86 · p. 92
अनुष्टुप्
जगग्नुरग्नौ जन्तौ च मेहनं मूत्रशिश्नयोः ।प्रसूनं वाच्यवज्जाते प्रसूनं फलपुष्पयोः ॥ ८७ ॥
1.19.87 · p. 92
अनुष्टुप्
कानीनः कन्यकाजाततनये व्यासकर्णयोः ।काननं विपिने गेहे परमेष्ठिमुखेऽपि च ॥ ८८ ॥
1.19.88 · p. 92
अनुष्टुप्
काञ्चनः काञ्चनारे स्याच्चम्पके नागकेशरे ।उदुम्बरे च पुन्नागे हरिद्रायाञ्च काञ्चनी ॥ ८९ ॥
1.19.89 · p. 92
अनुष्टुप्
काञ्चनं हेम्नि किञ्जल्के पुन्नागे काचभाजने ।गोलके चाथ शकुनिः सौबले करणे खगे ॥ ९० ॥
1.19.90 · p. 92
अनुष्टुप्
रोचनो रक्तकह्लारे रोचनः कूटशाल्मलौ ।मङ्गल्येऽपि च गोपित्ते रोचना रुचिरस्त्रियाम् ॥ ९१ ॥
1.19.91 · p. 92
अनुष्टुप्
व्यसनन्त्वशुभे सक्तौ पानस्त्रीमृगयादिषु ।दैवानिष्टफले पापे विपत्तौ निष्फलोद्यमे ॥ ९२ ॥
1.19.92 · p. 92
अनुष्टुप्
उदानोऽप्युदरावर्त्ते मरुत्सर्पविशेषयोः ।उद्धानमुद्गते चुल्ल्यां विलग्नो मध्यलग्नयोः ॥ ९३ ॥
1.19.93 · p. 92
अनुष्टुप्
सन्धानं स्यादभिषवे तथा सङ्घटनेऽपि च ॥
1.19.95 · p. 92
राधनं राधने प्राप्तौ राधनं तोषणेऽपि च ॥ ९४ ॥
1.19.94 · p. 93
साधनं निर्वृतौ मेणण्ढ्रे सैन्ये सिद्धौ गतौ वधे ।उपाये मृतसंस्कारे दापनेऽनुगमे धने ॥ ९५ ॥
1.19.95 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रधानः स्यान्महामात्ये प्रकृतौ परमात्मनि ।प्रज्ञायाञ्च प्रधानं स्यादेकत्वेऽनुसदोत्तमे ॥ ९६ ॥
1.19.96 · p. 93
अनुष्टुप्
ग्रामीनो ग्रामसम्भूते ग्रामीनः शुनिवायसे ।पाठीनो मीनभेदे स्यात् पाठके गुग्गुलुद्रुमे ॥ ९७ ॥
1.19.97 · p. 93
अनुष्टुप्
कौलीनः स्यात् कुलीनत्वे गुह्ये जन्ये कुकर्म्मणि ।कौशेयके विहङ्गादिपशूनां सङ्गरेऽपि च ॥ ९८ ॥
1.19.98 · p. 93
अनुष्टुप्
कौपीनं स्यादकार्ये च गुह्यचीरप्रदेशयोः ।विक्लिन्नो जरया जीर्णे शीर्णे चार्द्रे च वाच्यवत् ॥ ९९ ॥
1.19.99 · p. 93
अनुष्टुप्
आपन्नः सविपत्तौ स्यात् प्राप्ते वाच्यवदीरितः ।विपन्नः कथितो नष्टे विपन्नश्च भुजङ्गमे ॥ १०० ॥
1.19.100 · p. 93
अनुष्टुप्
विच्छिन्नञ्च समालब्धे विपन्ने कुटिलेऽन्यवत् ।सम्पन्नं साधिते प्रोक्तं सम्पत्तिसहितेऽन्यवत् ॥ १०१ ॥
1.19.101 · p. 93
अनुष्टुप्
तमोघ्नः सूर्यवह्नीन्दुबुद्धशङ्करविष्णुषु ।विषघ्नाख्या शिरीषे स्यात्त्रिवृताऽमृतयोरपि ॥ १०२ ॥
1.19.102 · p. 93
अनुष्टुप्
शिखी वह्नौ बलीवर्द्दे शरे केतुग्रहे द्रुमे ।केकिकुक्कुटयोश्चाऽथ शिखी चूडान्वितेऽन्यवत् ॥ १०३ ॥
1.19.103 · p. 93
अनुष्टुप्
शाखी स्यात् पादपे वेदे तुरुष्काख्यजनेऽपि च ।खड्गी खड्गायुधे गण्डे शृङ्गी नागद्रुमाद्रिषु ॥ १०४ ॥
1.19.104 · p. 93
अनुष्टुप्
चक्री कुलालवैकुण्ठे कोकाहिग्रामजालिषु ।धन्वी धनुर्धरे पार्थे विदग्धे ककुभद्रुमे ॥ १०५ ॥
1.19.105 · p. 93
अनुष्टुप्
कृती स्यात् पण्डिते योग्ये पाशी पाशधरेऽरपतौ ।नन्दी हरप्रतीहारे गर्द्दभाण्डे वटद्र[द्रु]मे ॥ १०६ ॥
1.19.106 · p. 93
metre not recognisednearly अनुष्टुप्
नन्दिनी तु ननन्दायां धेन्वां सुरसरित्यपि ।रोही रोहितकेऽश्वत्थवटपादपयोरपि ॥ १०७ ॥
1.19.107 · p. 94
अनुष्टुप्
हली बले कृषीके स्यादली वृश्चिकभृङ्गयोः ।वर्णी स्याल्लेखके चित्रकरेऽपि ब्रह्मचारिणि ॥ १०८ ॥
1.19.108 · p. 94
अनुष्टुप्
शिल्पी स्याद्वाच्यवत् कारौ नायिकायाञ्च शिल्पिनी ।कामी स्यात् कामुके चक्रवाके पारावतेऽपि च ॥ १०९ ॥
1.19.109 · p. 94
अनुष्टुप्
गोमी तु पाशके पूरौ वाग्मी वाचस्पतौ पटौ ।चर्म्मी फलकपाणौ स्याद्भूर्ज्जे भृङ्गरटावपि ॥ ११० ॥
1.19.110 · p. 94
अनुष्टुप्
अर्थी स्याद्याचके यज्ञे सेवके च विवादिनि ।स्वामी प्रभौ विशाखे च रागी रक्ते च कामुके ॥ १११ ॥
1.19.111 · p. 94
अनुष्टुप्
ध्वजी शैले रथे विप्रे भुजङ्गमतुरङ्गयोः ।भोगी भुजङ्गमे राज्ञि ग्रामिण्यां नापितेऽपि च ॥ ११२ ॥
1.19.112 · p. 94
अनुष्टुप्
विहाय महिषीञ्चान्यराजयोषिति भोगिनी ।द्युवा त्वभिनवे भानौ प्रेत्वा मरुति सारके ॥ ११३ ॥
1.19.113 · p. 94
अनुष्टुप्
राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः ।अध्वा वर्त्मनि संस्थाने साश्रवस्कन्धकालयोः ॥ ११४ ॥
1.19.114 · p. 94
अनुष्टुप्
धन्वा जङ्गलदेशे स्याद्धन्वचापे स्थलेऽपि च ।आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु ॥ ११५ ॥
1.19.115 · p. 94
अनुष्टुप्
प्रयत्ने चाऽप्यथ ग्रावा प्रस्तरे जलदे गिरौ ।ब्रह्मा[ ]विरिञ्चद्विजयोरृत्विक्चन्द्रार्कयोगयोः ॥ ११६ ॥
1.19.116 · p. 94
अनुष्टुप्
ब्रह्म प्रोक्तं तपोऽध्यात्यवेदज्ञानेषु सूरिभिः ।अर्धा च कुक्षिते वाहे वृषा कर्णमहेन्द्रयोः ॥ ११७ ॥
1.19.117 · p. 94
अनुष्टुप्
युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि ।पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे ॥ ११८ ॥
1.19.118 · p. 94
अनुष्टुप्