कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · खान्तवर्गः

इति कान्तवर्गः ॥

खमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि ।पुरे संवेदने क्षेत्रे कुलाहलफले क्वचित् ॥ १ ॥
1.2.1 · p. 22
अनुष्टुप्
नखः कररुहे शस्त्रे गन्धद्रव्ये नखं नखी ।मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि ॥ २ ॥
1.2.2 · p. 22
अनुष्टुप्
सुखं शर्म्मणि नाके च सुखा पुर्यां प्रचेतसः ।शङ्खो निध्यन्तरे कम्बुललाटास्थिनखीषु च ॥ ३ ॥
1.2.3 · p. 22
अनुष्टुप्
रेखा स्यादल्पके छद्मिन्याम्भोगोल्लेखयोरपि ।लेखो लेख्ये सुरे लेखा लिपिराजिकयोर्मता ।मुखः सम्यग्मनोज्ञेऽपि साम्नः षट्प्रणयेष्वपि ॥ ४ ॥
1.2.4 · p. 22
अनुष्टुप्
शिखा शिफायां चूडायां ज्वालायामग्रमात्रके ।लाङ्गल्याश्चापि शाखायां चूडायाञ्च शिखण्डिनः ॥ ५ ॥
1.2.5 · p. 22
अनुष्टुप्
सखा मित्रे सहाये च शाखा[ ]पक्षान्तरे भुजे ।शाखा वेदविभागे च पादपाङ्गेऽन्तिकेऽपि च ॥ ६ ॥
1.2.6 · p. 22
अनुष्टुप्
प्रेङ्खा पर्यटने नृत्ये भवेदश्वगतावपि ॥
1.2.7 · p. 22
खङ्खा गतिविशेषेऽपि शूकशिम्ब्याश्च नर्त्तने ॥ ७ ॥
1.2.7 · p. 23
त्रिशिखं शेखरे विद्या स्त्री[त्स्त्री]लेखा[?]राक्षसान्तरे ।सुमुखं तार्क्ष्यतनये फणिभेदे च पण्डिते ॥ ८ ॥
1.2.8 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दुर्मुखो नागराजेऽपि मुखरे वानराश्वयोः ।गोमुखं कुटिलागारे वाद्यभाण्डे च लेपके ॥ ९ ॥
1.2.9 · p. 23
अनुष्टुप्
प्रमुखः प्रथमे श्रेष्ठे विशिखस्तोमरे शरे ।रथ्यां खनित्र्यां विशिखा नलिकायामपि कचित् ॥ १० ॥
1.2.10 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 पि (wrong syllable)
विशाखस्तारके स्कन्दे विशाखर्षौ कटिल्लके ।मयूखस्त्विट्करज्वाले वैशाखो राधमन्थयोः ॥ ११ ॥
1.2.11 · p. 23
अनुष्टुप्
अग्निमुखो द्विजे देवे भल्लाते चित्रके क्वचित् ।पञ्चनखो गजे कूर्मे शिलीमुखोऽलिबाणयोः ॥ १२ ॥
1.2.12 · p. 23
metre not recognised
भवेद्व्याघ्रनखः कन्दगन्धद्रव्यविशेषयोः ।महाशङ्खो नरास्थ्नि स्यान्निधिसङ्ख्याप्रभेदयोः ॥ १३ ॥
1.2.13 · p. 23
अनुष्टुप्
इन्दुलेखाऽमृतासोमलताशशिकलासु च ।शशिलेखा कलाभागे बाकुचीवृत्तभेदयोः ॥ १४ ॥
1.2.14 · p. 23
अनुष्टुप्
अग्निशिखा लाङ्गलिक्यां कुङ्कुमेऽग्निशिखं मतम् ।बद्धशिखा जटायां स्याद् बाले बद्धशिखो मतः ॥ १५ ॥
1.2.15 · p. 23
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable); pāda 3, syllable 3 शि (wrong syllable)
स्यान्मलिनमुखः प्रेते गोलाङ्गूले खलेऽनले ।अथ शीतमयूखोऽपि शशाङ्कघनसारयोः ॥ १६ ॥
1.2.16 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
सर्वतोमुखमाख्यातमन्तरिक्षे च पाथसि ।विधिक्षेत्रज्ञरुद्रेषु कथितः सर्वतोमुखः ॥ १७ ॥
1.2.17 · p. 23
अनुष्टुप्