कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvaprakāśa

विश्वप्रकाशः Viśvaprakāśa

2,296 verses · text only, tagging comes next

अनेकार्थशब्दपरिच्छेदः · भान्तवर्गः

इति बान्तवर्गः ॥

भः स्यान्मयूखे शुक्रे भं नक्षत्रे च प्रकीर्त्तितम् ।भूः पृथिव्यां स्थानमात्रे-
1.23.1 · p. 108
अनुष्टुप्
स्वभूर्वेधसि शार्ङ्गिणि ॥ १६ ॥
1.23.16 · p. 108
अनुष्टुप्
शुभो योगे शुभे क्षेमे निभो व्याजसदृक्षयोः ।विभुः शिवे प्रभौ नित्ये शम्भुर्ब्रह्मार्हतोर्हरे ॥ १७ ॥
1.23.17 · p. 108
अनुष्टुप्
दम्भस्तु कैतवे कल्के डिम्भो बालिशपोतयोः ।जम्भो दैत्यान्तरे दम्भे जम्बीरे भक्षणेऽपि च ॥ १८ ॥
1.23.18 · p. 108
अनुष्टुप्
कुम्भः स्यात् कुम्भकर्णस्य सुते वेश्यासुते घटे ।राशिभेदे द्विपाङ्गे च कुम्भं त्रिवृति गुग्गुलौ ॥ १९ ॥
1.23.19 · p. 108
अनुष्टुप्
गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके ।जृम्भो मुखविकाशे च स्तम्भः स्थूणाजडत्वयोः ॥ २० ॥
1.23.20 · p. 108
अनुष्टुप्
रम्भा कदल्यप्सरसो रम्भो वैणवदण्डके ।सभा सामाजिके द्यूते गोष्ठीमन्दिरयोरपि ॥ २१ ॥
1.23.21 · p. 108
अनुष्टुप्
शोभा कान्तीच्छयोरुक्ता दृम्भूः पन्नगवज्रयोः ।नाभिः प्राण्यङ्गजे क्षत्रे चक्रान्तचक्रवर्त्तिनोः ।नाभिः प्रधाने कस्तूरीमदे च क्वचिदीरितः ॥ २२ ॥
1.23.22 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
करभा मणिबन्धादिकनिष्ठान्ते तथोष्ट्रके ।करभः शरभस्त्वष्टापदे प्रोक्तो मृगान्तरे ॥ २३ ॥
1.23.23 · p. 108
अनुष्टुप्
ऋषभः स्वरभेदे स्यादष्टवर्गौषधे वृषे ।श्रेष्ठार्थे च वराहस्य पुच्छे रन्ध्रे च कर्णयोः ॥ २४ ॥
1.23.24 · p. 108
अनुष्टुप्
ऋषभी शूकशिम्ब्यां स्यान्नराकारस्त्रियामपि ।विधवायां शिरालायां वृषभः पुज्ञवे वृषे ॥ २५ ॥
1.23.25 · p. 108
अनुष्टुप्
वल्लभो दयितेऽयक्षे कुलीनाश्वे च वल्लभः ।दुर्लभः कर्चूरे न्याये दुष्प्रापे वल्लभेऽपि च ॥ २६ ॥
1.23.26 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्चू (wrong syllable)
निकुम्भः कथितो दैत्ये कुम्भकर्णसुतेऽपि च ।कुसुम्भो हेमनि महारजने च कमण्डलौ ॥ २७ ॥
1.23.27 · p. 109
अनुष्टुप्
विष्टम्भः प्रतिबन्धे च वैदर्भे च प्रयुज्यते ।विश्रम्भः केलिकलहे विश्वासे प्रणये वधे ॥ २८ ॥
1.23.28 · p. 109
अनुष्टुप्
विष्कम्भो योगभेदे स्याद्विस्तारप्रतिबन्धयोः ।रूपकाङ्गप्रभेदे च बन्धभेदे च योगिनाम् ॥ २९ ॥
1.23.29 · p. 109
अनुष्टुप्
ककुभो रागभेदेऽपि वीणाङ्गेऽर्ज्जुनपादपे ।आरम्भस्तु तुरायां स्यादुद्यमे वधदर्पयोः ॥ ३० ॥
1.23.30 · p. 109
अनुष्टुप्
सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः ।गन्धोत्पले सौरभेय्यां शल्लकीमातृभेदयोः ॥ ३१ ॥
1.23.31 · p. 109
अनुष्टुप्
सुगन्धे च मनोज्ञे च वाच्यवत् सुरभिः स्मृतः ।सनाभिः सदृशे ज्ञातावात्मभूर्वेधसि स्मरे ॥ ३२ ॥
1.23.32 · p. 109
अनुष्टुप्
वर्षाभूः पुनर्नवायां प्लवे किचलुकेऽपि च ।दुन्दुभिर्दितिजे भेर्य्यामक्षबिन्दुत्रिकद्वये ॥ ३३ ॥
1.23.33 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पु (wrong syllable)
वैदर्भं वाक्यवक्रत्वे विदर्भश्च नृपान्तरे ।गर्द्दभो गन्धभेदे स्याद्गर्द्दभं कैरवे खरे ॥ ३४ ॥
1.23.34 · p. 109
अनुष्टुप्
गर्दभो गर्दभी क्षुद्ररोगजन्तुविशेषयोः ।ककुब शोभादिशोः शास्त्रे प्रवेण्यां चम्पकस्रजि ॥ ३५ ॥
1.23.35 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि ।शातकुम्भं सुवर्णे स्याच्छातकुम्भोऽश्वमारके ॥ ३६ ॥
1.23.36 · p. 109
अनुष्टुप्